प्रमुखा विकल्पसूचिः उद्घाट्यताम्

द्वया ह वै पूर्व ऋतव आसुः -- प्राणर्तवो देवर्तवः। अथेम एतर्ह्य् ऋतव एव। प्राण एव वसन्त आस। वाग् ग्रीष्मः। चक्षुर् वर्षाः। आर्द्रम् इव वै चक्षुर्, आर्द्रा इव वर्षाः। श्रोत्रं शरत्। मनो हेमन्तः। या इमाः पुरुष आपस् स शिशिरः। अथ देवर्तवः। वायुर् एव वसन्त आस। अग्निर् ग्रीष्मः पर्जन्यो वर्षाः। आदित्यश् शरत्। चन्द्रमा हेमन्तः। या अमूर् दिव्या आपस् स शिशिरः। स यस् स प्राणो वसन्त आस, यो वायुर् वसन्तस्, सो ऽयम् एतर्हि वसन्तः। अथ या वाग् ग्रीष्म आस, यो ऽग्निर् ग्रीष्मस्, सो ऽयम् एतर्हि ग्रीष्मः। अथ यश् चक्षुर् वर्षा आसुर् , याः पर्जन्यो वर्षास्, ता इमा एतर्हि वर्षाः। अथ यन् मनो हेमन्त आस, यश् चन्द्रमा हेमन्तस्, सो ऽयम् एतर्हि हेमन्तः। अथ या इमाः पुरुष आपश् शिशिर आसुर्, या अमूर् दिव्या आपस् स शिशिरस्, सो ऽयम् एतर्हि शिशिरः॥2.51॥

त एते षड् ऋतवष् षड् दिशः। त एत ऋतवो दिग्भिर मिथुना -- वसन्तेनेयं प्राची दिङ् मिथुना, ग्रीष्मेणेयं, वर्षाभिर् इयं, शरदेयं, हेमन्तेनासौ, शिशिरेणेयम्। तद् यथा पतिं जाया अनिमेषम् ईक्षेरन्न् एवम् एवैना एवंविदं दीक्षमाणम् ईक्षन्ते। तद् यद् दिग्भिर् ईक्षितस् तस्माद् दीक्षितः। स दीक्षिष्यमाण आदित्यम् उपतिष्ठेत त्वं देवत दीक्षितासि। सा दीक्षमाणस्य तेज इन्द्रियं वीर्यं यश आदत्से। मा मे तेज इन्द्रियं वीर्यं यश आदिथाः। तव दीक्षाम् अनु दीक्ष इति।

अथर्तून् अन्व आरोहति।
य ऋतव ऋतुभ्यो ऽध्य आसन्
पुरा सूर्याचन्द्रमसश् च पूर्वे।
येभिः प्रजानन् प्रदिशो दिशश् च
तान् अन्व् आरोहामि तपसा ब्रह्मणा च॥

इति प्राणर्तून् अन्व् आरोहति।


य ऋतवश् चन्द्रमसो ऽधि पूर्व
ऋचं वाचं ब्रह्माणम् आबभूवुः।
इत्य् एवंविदं ह्य् आभवन्।
येभिः प्रजानन् प्रदिशो दिशश् च
तान् अन्व् आरोहामि तपसा ब्रह्मणा च॥

इति देवर्तून् अन्व् आरोहति।

य एक ऋतुस् त्रय ऋतवश् च
ये षट् चतुर्विंशतिर् ऋतवो ये
द्वादश सप्तदशान्य् उत विंशतिश् च
तान् अन्व् आरोहामि तपसा ब्रह्मणा च।

इतीमान् ऋतून् अन्व् आरोहति। स एवम् एतैस् तैर् ऋतुभिः परिगृहीतः। स यथा तैर् ऋतुभिः परिगृहीत एवम् एवानार्तस् संवत्सरस्योदृचं गच्छति। ऋतुर् ऋतुर् हैवंविदे कल्पते॥2.52॥


केशी ह दार्भ्यो दर्भपर्णयोर् दिदीक्षे। अथ ह सुत्वा याज्ञसेनो हंसो हिरण्मयो भूत्वा यूप उपविवेश। तं ह केशी शुनीति नाम्नाभ्युवाद। स ह चुक्रोध - स्थविरो ऽस्मि पञ्चालानां राजा। स उ वै दीक्षितो ऽस्मि। को नु मार्हेन् नाम्नैवाभिवदितुम् इति। स होवाच -- मा क्रुधः। अभिवदिता ते तेनास्मि, यद् अहम् एतस्यै विशस् त्वत्पूर्वो राजासम्। अभिवदितो वाव ते तेनास्मि, यद् दीक्षितो ऽसि। इष्टापूर्तस्य त्वम् अक्षितिं वेत्थ। दीक्षाम् अहं वेद। संप्रब्रुवामहा इति। स होवाच -- अग्निर् दीक्षितः पृथिवी दीक्षा, वायुर् दीक्षितो ऽन्तरिक्षं दीक्षा, आदित्यो दीक्षितो द्यौर दीक्षा, प्रजापतिर् दीक्षित मनो दीक्षा। स दीक्षेत -- यया दीक्षयाग्निर् दीक्षितस् तया दीक्षया दीक्षे, यया दीक्षया वायुर् दीक्षितस् तया दीक्षया दीक्षे, यया दीक्षयादित्यो दीक्षितस् तया दीक्षया दीक्षे, यया दीक्षया प्रजापतिर् दीक्षितस् तया दीक्षया दीक्ष इति॥2.53॥


अथ हेतर उवाच। ब्रह्मणे ददद् ब्रूयाद् ब्रह्मन् मनस् ते ददानि, तद् अनेन निष्क्रीणानि, ब्रह्मन्न् इदं ददानीति -- यद् दास्यन् स्यात्। स यन् मनो ददाति -- चन्द्रमा वै मनश् - चन्द्रमसम् एवास्मै तद् ददाति। तद् यावच् चन्द्रमा न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।

होत्रे ददद् ब्रूयाद् धोतर् वाचं ते ददानि, ताम् अनेन निष्क्रीणानि, होतर् इदम् ददानीति - यद् दास्यन् स्यात्। स यद् वाचं ददात्य् - अग्निर् वै वाग् - अग्निम् एवास्मै तद् ददाति। तद् यावद् अग्निर् न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।

अध्वर्यवे ददद् ब्रूयाद् अध्वर्यो प्राणं ते ददानि, तम् अनेन निष्क्रीणान्य्, अध्वर्यो इदं ददानीति - यद् दास्यन् स्यात्। स यत् प्राणं ददाति - वायुर् वै प्राणो - वायुम् एवास्मै तद् ददाति। तद् यावद् वायुर् न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।

उद्गात्रे ददद् ब्रूयाद् उद्गातश् चक्षुस् ते ददानि, तद् अनेन निष्क्रीणान्य्, उद्गातर् इदं ददानीति - यद् दास्यन् स्यात्। स यच् चक्षुर् ददात्य् - आदित्यो वै चक्षुर् - आदित्यम् एवास्मै तद् ददाति। तद् यावद् आदित्यो न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।

सदस्याय ददद् ब्रूयात् सदस्यात्मानं ते ददानि, तम् अनेन निष्क्रीणानि, सदस्येदं ददानीति - यद् दास्यन् स्यात्। स यद् आत्मानं ददात्य् - आकाशो वा आत्मा - आकाशम् एवास्मै तद् ददाति। तद् यावद् आकाशो न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।

होत्रकेभ्यो ददद् ब्रूयाद् धोत्रका श्रोत्रं वो ददानि, तद् अनेन निष्क्रीणानि, होत्रका इदं ददानीति - यद् दास्यन् स्यात्। स यच् छ्रोत्रं ददाति - दिशो वै श्रोत्रं - दिश एवैभ्यस् तद् ददाति। तद् यावद् दिशो न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।

प्रसर्पकेभ्यो ददद् ब्रूयात् प्रसर्पका लोमानि वो ददानि, तान्य् अनेन निष्क्रीणानि, प्रसर्पका इदं ददानीति - यद् दास्यन् स्यात्। स यल् लोमानि ददात्य् - ओषधिवनस्पतयो वै लोमान्य् - ओषधिवनस्पतीन् एवैभ्यस् तद् ददाति। तद् यावद् ओषधिवनस्पतयो न क्षीयन्ते, तावद् अस्य तद् दत्तं न क्षीयते।

सैषेष्टापूर्तस्याक्षितिः। स य एवम् एताम् इष्टापूर्तस्याक्षितिं वेद, न हास्येष्टापूर्तं क्षीयते।

तद् उ वा आहुर् वाग् वाव दीक्षितो, वाग् दीक्षा, वाग् इदं सर्वं क्षियति। वाचि वावेदं सर्वं क्षितम् इति वाव तौ तत् संप्रोचाते।

तद् उ होवाच शाट्यायनी रथन्तरेण दीक्षे, वामदेव्येन दीक्षे, बृहता दीक्ष इत्य् एव दीक्षेत। अथ विमु्ञ्चेत बृहता विमु़ञ्चे, वामदेव्येन विमु़ञ्चे, रथन्तरेण विमुञ्च इति। सैषा दीक्षायै युक्तिश् च विमुक्तिश् च। स य एवम् एतां दीक्षायै युक्तिं च विमुक्तिं च वेद, वसीयान् एव भवति॥2.54॥


हृत्स्वाशया आल्लकेयो दन्तालस्य धौम्यस्यान्तेवास्य् आस। अथ ह दन्तालो धौम्यस् त्रयं वेदम् आ प्रपदं विदांचकार। तस्माद् ध सामवेदम् अनूच्य व्याजहार -- संवत्सराय दीक्षिष्य इति। अथ ह स्म ततः पुरो विपृच्छमानाश् चरन्ति -- संवत्सराय दीक्षिष्यामह इति। अथो ह स्म समवसायान्योऽन्यस्य वरणम् आक्रोशमाना निभृत्यम् अनुपृच्छन्त आसते। ते ह स्म यावन्तस् संपादयन्ति, ते ह स्म दीक्षन्ते। शश्वद् धैषा तद् आशीर् एव। तत् सत्त्रं भवति, यत् तम् एव ब्राह्मणं कृत्वोत्तिष्ठन्ति येनाब्राह्मणोक्तेन सह दीक्षन्ते। तस्माद् अब्राह्मणोक्तेन सह दीक्षेत। तस्य ह स्मास्य राजन्यबन्धोश् शार्दूलाजिनं मणिं हिरण्यम् उपावहितं भवति। तद् ध स्म श्रोत्रियायोपप्रहित्याह - संवत्सराय दीक्षिष्ये, ऽनु मा शाधीति। तस्मै ह स्म राजन्यबन्धवे वक्तव्यं मन्यन्ते॥2.55॥


स ह तथैव पल्ययमानस् सोमशुष्मं सात्ययज्ञिम् आजगाम। तं होवाच प्राचीनयोग्य, संवत्सराय दीक्षिष्ये। भगवो ऽनु नश् शाधीति। तथेति तं ह वदन्न् अभिराधयांचकार। तं होपेयाय। तस्मै यदेमां क्लृप्तिं प्रोवाचाभ्यूहम् अनुजगौ प्रस्तावप्रतिहारान् विदधाव् अथ हैनम् अनुशशास। अयं वाव संवत्सर इति होवाच। तस्यायम् एव देवयानः पन्था, इमे वर्तन्याव् इयं गतिर् इति। स यद् एतद् एवं वेद, अनार्त एवं संवत्सरस्योदृचं गच्छति। पुरुषो वै प्रजापतिः। प्रजापतिस् संवत्सरः। स यो ह पुरुषो, य एवायम् अन्तरिक्ष आकाश, एष एव स पुरुषः। तद् यद् दृश्वद् अन्तरिक्षे न रमते पूर्णत्वैतन् न रमते। अथो यद् अस्मिन् सर्वस्मिन् अन्तर् ईक्षते तस्माद् अन्तरिक्षम्। अथो यद् इदं सर्वं युते तस्माद् वायुः। अथो यद् इदं सर्वं वाति तस्माद् वातः। तस्यैतस्याकाशस्यात्मा दमुमूढो यद् इदं सर्वं वाति तस्माद् वातः। तस्यैतस्याकाशस्यात्मा दमुमूढो यद् असाव् आदित्यः। स एष आदित्ये पुरुषः। अथ यत् ततः पर आकाशस् तस्यैष आत्मा समुमूढो यच् चन्द्रमाः। स एष चन्द्रमसि पुरुषः। स न नाना मन्तव्य इति ह स्माह शाट्यायनिः। य एवायं चक्षुषि पुरुष, एष एवादित्य, एष चन्द्रमसीति। तम् अनयैव पुरुषविधयाप्नोति॥2.56॥


प्राण एव प्रायणीयो ऽतिरात्रः। प्राणो हीदं सर्वं प्राणेत। तद् यत् प्राणेत तस्मात् प्राणः। वाग् एवारम्भणीयम् अहः। वाचा हि सर्वस् संवत्सरस् सर्वे यज्ञक्रतव आरब्धाः। तस्माद् आरम्भणीये ऽहन् सर्वाणि रूपाणि क्रियन्ते। सर्वाणि ह रूपाणि वाचि। अयम् एको ऽभिप्लवो ऽयम् एको ऽयम् एको ऽयम् एकः। तस्यास्याभिप्लवस्येदं प्रथमम् अहः। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव द्वितीयम् अहः. तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव वैरूपं तृतीयम् अहः। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव वैराजं चतुर्थम् अहः। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव शाक्वरं पञ्चमम् अहः। तस्माद् अनेनोपसंगृह्य शक्नोति। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव रैवतं षष्ठम् अहः। तस्माद् अनया प्राश्नाति। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। एवम् अस्याभिप्लवस्यैवम् अस्यैवम् अस्य। अयम् एवात्मा पृष्ठ्यः। इम एव नव प्राणाः। त्रिवृत् प्रायणीयम् अहर्, यत् प्राणा इदं सर्वं प्राणेत। तद् यत् प्राणेत तस्माद् अप्य् एतत् प्रायणीयम् अहः। इमा एव ग्रीवाः पञ्चदशम् अहः। ओजो वै वीर्यम्। ग्रीवा ओजः। वीर्यं पञ्चदशः। तस्मात् पशवो ग्रीवाभिर् भारं वहन्ति। अष्टाव् इमे जत्रवो, ऽष्टाव् इम, ऊर्ध्वो जत्रुस् सप्तदशः। तद् एव सप्तदशम् अहः। इदम् एवोदरम् एकविंशम् अहः। सर्वे वै स्तोमा एकविंशम् अभिसंपन्नाः। सर्वम् अन्नाद्यम् उदरे प्रतिष्ठितम्॥2.57॥


त्रयोदशेमाः परिशवस्, त्रयोदशेमा, अण्डपरिशुस् सप्तविंशी। तद् एव त्रिणवम् अहः। त्रयस्त्रिंशद् इमानि पृष्टिकाण्डानि सह किंकालुकाभिः। तद् एव त्रयस्त्रिंशम् अहः। अयम् अभिजिद् अयं विश्वजिच् शुक्लं कृष्णं कनीनिका। त इमे त्रय स्वरसामान, इमे त्रयो, ऽयं विषुवान्। प्राणापानाव् एव गोआयुषी। इम एव दश प्राणा दशरात्रः। मन एव महाव्रतीयम् अहः । उदान एवोदयनीयो ऽतिरात्रः।

ते एते दश प्राणा दश स्तोमा दश छन्दांसि। इमे ह सप्त मुख्याः प्राणा, द्वाव् अवाञ्चौ, नाभ्यां दशमः। इमे ह पृष्ठ्यस्य षडहस्य स्तोमाः। छन्दोमाः पञ्चविंशः। चतुर्धा इमान्य् उ ह सप्त चतुरुत्तराणि छन्दांसि सद्विपदाविराडतिच्छन्दाः। प्राण एव गायत्री, चक्षुषी उष्णिक्ककुभौ, श्रोत्रं जगती, वाग् अनुष्टुब्, मनो बृहत्य्, आत्मा पंक्तिर्, बलं त्रिष्टुप्। प्रतिष्ठा द्विपदा, मांसानि विराट्, शरीराण्य् अतिच्छन्दाः। तेषाम् एषां सप्तानां चतुरुत्तराणां छन्दसां द्वादशैकविंशास् संपद्यन्ते॥2.58॥


गायत्र्या उष्णिहो ऽनुष्टुभश् चतुरशीतिर् अक्षराणि। ते चत्वार एकविंशाः। पंक्तेश्च त्रिष्टुभश् च चतुरशीतिर् अक्षराणि। ते चत्वार एकविंशाः। बृहत्यै च जगत्यै च चतुरशीतिर् अक्षराणि। ते चत्वार एकविंशाः। अथ त्रयाणां छन्दसां दशशतम् अक्षराणि। विंशत्यक्षरा द्विपदा। त्रिंशदक्षरा विराट्। षष्ट्यक्षरातिच्छन्दाः। तानि दशशतम् अक्षराणि संपद्यन्ते। ततो द्वे आदत्ते। अथ द्वादश त्रिवृतस् संपद्यन्ते। तान् इमान् द्वादश त्रिवृतो द्वादशस्यैकविंशेषूपदधाति। ते द्वादश सत्रिंशिनो मासास् संपद्यन्ते। तद् एतच् छन्दांसि त्रिवृतं चैव स्तोमम् अभिसंपद्यन्ते -- ॥2.59॥


--एकविंशं च वा पञ्च प्राणं चाग्नीञ् चादित्यं च।अथ ये द्वे अक्षरे ते बृहद्रथन्तरे, ते अहोरात्रे। सो ऽर्धमासस् स मासस् स ऋतुस् स संवत्सरः। तद् आहुर् यत् प्राणाश् छन्दांसि छन्दांसि स्तोमा इत्य् आहुः, कथं यजमानः प्राणैश् छन्दांस्य् अप्येति। छन्दोभि स्तोमान्, स्तोमैर् बृहद्रथन्तरे, बृहद्रथन्तराभ्याम् अहोरात्रे, अहोरात्राभ्याम् अर्धमासम्, अर्धमासेन मासं, मासेनर्तुम्, ऋतुना संवत्सरम्। कुतस् संवत्सरो जायते, क्व प्रतिष्ठित इति। स विद्याद् -- अहम् एव संवत्सरो ऽस्मि, मयि प्रतिष्ठित इति। एवंविदो ह वाव संवत्सरो जायत, एवंविदि प्रतिष्ठितः।

अथो आहुर् - आदित्य एव संवत्सरः। एतं हि सर्वा श्रीस् सर्वं यशस् सर्वे देवास् समेतास्, तस्माद् आदित्य एव संवत्सर इति। तस्य यद् भाति तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सर इत्य् अधिदेवतम्। अथाध्यात्मम्। अयम् एव संवत्सरो यो ऽयं चक्षुषि पुरुषः। तस्य यच् छुक्लं तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सर इत्य अधिदेवतम्। अथाध्यात्मम्। अयम् एव संवत्सरो यो ऽयं चक्षुषि पुरुषः। तस्य यच् छुक्लं तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सरः। अथो आहुर् - आदित्य एव संवच्, चन्द्रमास् सरः। तम् एष सरति। तं पौर्णमास्याम् आप्नोतीति। तद् उ वा आहुः - प्राण एव संवद्, वाक् सरः। एताभ्यां हि समश्नुत इति।

तस्य वा एतस्य संवत्सरस्याग्निष्टोमसामान्य् एव देवयानः पन्थाः --॥2.60॥