प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अर्षा सोम द्युमत्तम इति माध्यन्दिनस्य पवमानस्यार्षण्वतीर् गायत्र्यो भवन्ति। अर्षेति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। अभि द्रोणानि रोरुवद् इत्य् अभीति भवति रथन्तरस्यो एव रूपम्। अप्सा इन्द्राय वायव इत्य् अप्सुमतीर् भवन्ति। आपो ह्य् एतद् अहः। वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिस्यैवैतद् रूपान् न यन्ति। इषं तोकाय नो दधद् अस्मभ्यं सोम विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। आ पवस्व सहस्रिणम् इति सहस्ररूपं महानाम्नीनाम् उपगच्छन्ति। पशवो हि महानाम्नयः। तासु गायत्रम् उक्तब्राह्मणम्। अथ यण्वसन्तनि। पञ्चमाद् वै देवा अह्नष् षष्ठम् अहर् निरमिमत। छिद्रम् इव वै पञ्चमम् अहः। यद् यण्वसन्तनिना माध्यन्दिनस्य पवमानमुखे स्तुवन्ति अह्न एव सन्तत्या अह्नो ऽछिद्रतायै। प्रतितिष्ठति य एवं वेद। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपक्रामन्। सो ऽकामयतात्मन् पशून् यच्छेयम् इति। स एतत् सामापश्यत्। तेनात्मन् पशून् अयच्छत्। यद् आत्मन् पशून् अयच्छ्त् तद् यण्वस्य यण्वत्वम्। प्रजापतिर् एष यद् उद्गाता। स यण्वेनैवात्मन् पशून् यच्छते। एतद् विषुवत्को वै द्वादशाहो यत् पञ्चमम् अहः। यण्वसन्तनि पुरस्ताद् भवति, सन्तन्य् उपरिष्टात्। यण्वसन्तनिनैव पूर्वं त्र्यहं सन्तन्वन्ति, सन्तनिनोत्तरम्॥3.91॥

इन्द्रो वै सिमा नासघ्नोत्। सो ऽकामयत सिमास् सघ्नुयाम् इति। स एतत् सामापश्यत् । तेनास्तुत। ततो वै स सिमा असघ्नोत्। तद् यद् एतत् साम भवति, सिमानाम् एव सग्ध्यै। तस्य त्रिः प्रस्तौति, सकृत् प्रतिहरति, त्रिर् निधनम् उपयन्ति। तत् सप्त संपद्यन्ते। सप्तपदा वै शक्वर्यः। शाक्वराः पशवः। पच्छो वावैनांस् तद् दाधार। पशवश् शक्वर्यः। यण्वसन्तनि पुरस्ताद् भवति, सन्तन्य् उपरिष्टात्, पशूनाम् एव परिगृहीत्यै। स यथा वागरया वा रज्ज्वा व्रजं परितनुयाद् एवम् एवैतत् पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। आपो वै शक्वर्यः। यण्वसन्तनि पुरस्ताद् भवति, सन्तन्य् उपरिष्टाद्, अपाम् एव परिगृहीत्यै। तस्माद् आपः परिगृहीता स्यन्दन्ते। कूले ह खलु वा एते ऽपाम्। यद् ध वा एते न स्याताम् ओघ इदं सर्वं निर्मृज्य यथापां वार्त्रं दिह्यात् तादृग् एवैतद् अनिर्मार्गाय। तस्यैतस्य यण्वसन्तनिनो मध्य इळाम् उपेत्याध्यर्धाम् इळाम् उपरिष्टाद् उपयन्ति, प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धम्॥3.92॥

अथ शाकलं। शकलो वै पञ्चमम् अहर् अपश्यद् राथन्तरं रूपेण। तस्माद् राथन्तरे ऽहन् क्रियते। शकलो वा अन्नाद्यकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽन्नाद्यम् अवारुन्द्ध। तस्य वा एतस्यास्ति यथैव प्रयच्छेद् एवम्। तद् धिंकारवद् भवति। अन्नं वै हिंकारः। हुम् इति वा अन्नाद्यं प्रदीयते। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। अथो यद् एवैतस्मिन्न् अहन् प्राचीनं शक्वरीभ्यः क्रूरम् इव क्रियते, तद् एवैतेन हिंकारेण शमयन्ति। यद् उ शकलो ऽपश्यत् तस्माच् छाकलम् इत्य् आख्यायते॥3.93॥

अथ वार्शम्। वृशो वै जानस् त्रियरुणस्य त्रैवृष्णस्यैक्ष्वाकस्य राज्ञः पुरोहित आस। अथ ह स्म ततः पुरा राजभ्यः पुरोहिता एव रथान् संगृह्णन्त्य् औपद्रष्ट्र्याय - नेद् अयं पापं करवद् इति। तौ हाधावयन्तौ ब्राह्मणकुमारं पथि क्रीडन्तं रथचक्रेण विचिच्छिदतुः। इतरो हाधावयन्न् अभिप्रयुयावापेतर आययाम। स हाधिगत्य न शशाकापायन्तुम् । तं ह तद् एव विचिच्छिदतुः। तस्मिन् होदाते - त्वं हन्तासि त्वं हन्तासीति। स ह वृशो ऽभीशून् प्रकीर्यावतिष्ठन्न् उवाच - त्वं हन्तासीति। नेति होवाच। यो वै रथं संगृह्णाति स रथस्येशे। त्वं हन्तासीति। नेति हेतर उवाचाप वा अहम् आयांसं, स त्वम् अभिप्रायौषीस्, त्वम् एव हन्तासीति॥3.94॥

तौ वै - पृच्छावहा इति। तौ हेक्ष्वाकून् एव प्रश्नम् एयतुः। ते हेक्ष्वाकव ऊचुर् - यो वाव रथं संगृह्णाति स रथस्येशे। त्वम् एव हन्तासीति वृशम् एव पराब्रुवन्। सोऽकामयतोद् इत इयां, गातुं नाथं विन्देय । सम् अयं कुमारो जीवेद् इति। स एतत्सामापश्यत्। तेनैनं समैरयद् आ ते दक्षं मयोभुवम् इति। प्राणा वै दक्षाः। प्राणान् एवास्मिंस् तद् अदधात्।
वह्निम् अद्या वृणीमहे।
पान्तम् आ पुरुस्पृहम्॥
आ मन्द्रम् आ वरेण्यम् आ विप्रम् आ मनीषिणम्।
पान्तम् आ पुरुस्पृहम्॥
आ रयिम् आ सुचेतनम् आ सुक्रतो तनुष्व् आ।
पान्तम् आ पुरुस्पृहम्॥
इति पान्तो वै पुरुषः। तद् एनं तत् समैरयत्। तद् एतद् भेषजं प्रायश्चित्तिस्साम। भेषजं वै तत् प्रायश्चितिम् अकुरुत। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते॥3.95॥

स क्रुद्धो जनम् अगच्छत्। अनृतं मा व्यवोचन्न् इति। तेषां हेक्ष्वाकूणाम् अग्नेर् हरो ऽपाक्रामत्। यं सायम् ओदनम् अध्यदधुः, प्रातस् सो ऽपच्यत। यं प्रातस् सायं सः। ते होचुर् ब्राह्मणं वा अनार्यम् अपापाम। तेषां नो ऽग्नेर् हरो ऽपाक्रमीत्। एतैनं अनुमन्त्रयामहा इति। तम् अन्वमन्त्रयन्त। स आगच्छद्यथा राज्ञा ब्राहमणो ऽनुमन्त्र्यमाण आगच्छेद् एवम्। स आगत्याकामयत पश्येयम् इदम् अग्नेर् हर इति। स एतत् सामापश्यत्। तद् अभ्यगायत। तद् अपश्यत् - पिशाची वा इयं त्रियरुणस्य जाया। सैनत् कशिपुना छादयित्वाध्यास्त इति। तद् अभिव्याहरत्।
कुमारं माता युवतिस् समुब्धं गुहा बिभर्ति न ददाति पित्रे।
अनीकम् अस्य नि न मिनज् जनासः पुरः पश्यन्ति निहितम् अरतौ॥
कम् एतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान।
पूर्वीर् हि गर्भश् शरदो ववर्धापश्यं जातं यद् असूत माता॥
वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा। प्रादेवीर् मायास् सहते दुरेवाश् शिशीते शृंगे रक्षसे विनिक्षे॥
उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ।
मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः॥
इत्य् एवैनाम् इदम् अग्नेर् हर ऊर्ध्वम् उद्द्रवत् सर्वां प्रादहत्। ततो वै ते यथायथम् अग्नेर् हरो व्यहरन्त। यथायथम् एभ्यो ऽग्निर् अपचत्। तद् एतद् दीप्तिर् ब्रह्मवर्चसं साम। एतेन वा अग्नेर् हरो ऽपक्रान्तम् अन्वविन्दन्। तेजस्वी ब्रह्मवर्चसी दीप्तिमान् भवति य एवं वेद। तद् अध्यर्धेळं भवति प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धम्। यद् उ वृशो ऽपश्यत् तस्माद् वार्शम् इत्य् आख्यायते॥3.96॥
सोम उ ष्वाणस् सोतृभिर् इति सिमानां रूपम्। अधि ष्णुभिर् अवीनाम् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। समुद्रं न (संवरणान्य् अग्मन् मन्दी मदाय) तोशत इति समुद्रवतीर् भवन्ति। आपो ह्य् एतद् अहः। ता न्यूनाक्षरा भवन्ति। सप्ताक्षराण्य् एकानि पदानि भवन्ति, नवाक्षराण्य् एकान्य्, एकादशाक्षराण्य् एकानि, द्वादशाक्षराण्य् एकानि। तद् एतद् अभिपूर्वम् एव शक्वरीणां रूपम् उपगच्छन्ति। तास्व् आनूपम् अनुतोदवत् सिमानां रूपम्। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। प्र प्रजया पशुभिर् जायते य एवं वेद। अनूपो वै धीतोनिर् अकामयतोभयं ब्रह्म च क्षत्रं चावरुन्धीय, राजा सन्न् ऋषि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयं ब्रह्म च क्षत्रं चावारुन्द्ध, राजा सन्न् ऋषिर् अभवत्। उभयम् एव ब्रह्म च क्षत्रं चावरुन्द्धे, राजा सन्न् ऋषिर् भवति य एवं वेद। यद् व् अनूपो धीतोनिर् अपश्यत् तस्माद् आनूपम् इत्य् आख्यायते॥3.97॥

अथ मानवं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। मनुर् वा अकामयत बहुः प्रजया पशुभिः प्रजायेय, मानवीः प्रजास् सृजेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। ता इमा मानवीः प्रजाः। बहुर् एव प्रजया पशुभिः प्रजायते य एवं वेद। अथो आहुस् ता एवास्य प्रजास् सृष्टा रक्षांस्य् अजिघांसन्न् इइति। सो ऽकामयताप रक्षांसि हनीयेति। स एतत् सामापश्यत्। तेनास्तुत।
नि त्वाम् अग्ने (मनुर् दधे ज्योतिर् जनाय शश्वते।
दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः॥
त्वेषासो अग्नेर् अमवन्तो अर्चयो भीमासो न प्रतीतये।
रक्षस्विनस् सदम् इद् यातुमावतो विश्वं सम्) अत्रिणं दह॥
एवासां रक्षांस्य् अपाहन्न् इति। तद् उ रक्षसाम् अपहतिः। अप रक्षः पाप्मानं हते य एवं वेद॥3.98॥

ओघो वा इमान् लोकान् निरमार्ट्। सो ऽमन्यत मनुर् इदं वावेदम् अभूद् इति। सो ऽकामयतोद् इत इयां गातुं प्रतिष्ठां विन्देयेति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ते एनं हिरण्मय्यौ नावौ भूत्वोपाप्लवेताम्। तयोः प्रत्यतिष्ठत्। ते एनम् उदपारयेताम्। ततो वै स गातुं प्रतिष्ठां अविन्दत। विन्दते गातुं प्रतिष्ठां य एवं वेद। यद् उ मनुर् अपश्यत् तस्मान् मानवे इत्य् आख्यायेते। अथ वाम्रम् अभ्यारम्भो यज्ञस्य प्रत्यपसारः। अभ्य एव षष्ठम् अहर् आरभते प्रति चतुर्थम् अपधावति। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। वम्रो वैखानसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एतां मध्य इळाम् उपेत्याध्यर्धाम् इळाम् उपरिष्टाद् उपैत्। पशवो वा इळा। भूमो वा अध्यर्धेळा। ततो वै स भूमानम् अभिपूर्वं पशूनाम् अवारुन्द्ध। तद् एतत् पशव्यं साम। भूमानम् एवाभिपूर्वं पशूनाम् अवरुन्द्धे य एवं वेद। यद् उ वम्रो वैखानसो ऽपश्यत् तस्माद् वाम्रम् इत्य् आख्यायते॥3.99॥

अथाग्नेयं त्रिणिधनं सवनानां क्लृप्त्यै। पवमानेन वै देवेभ्यो ऽन्नाद्यं प्रदीयते। तन् मध्येनिधनं भवति अन्नाद्यस्य विशेषाय। अग्निर् वा अकामयत अन्नाद एव श्रेष्ठः स्वानां स्याम इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽन्नाद एव श्रेष्ठ स्वानाम् अभवत्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् व् अग्निर् अपश्यत् तस्माद् आग्नेयं त्रिणिधनम् इत्य् आख्यायते॥3.100॥