प्रमुखा विकल्पसूचिः उद्घाट्यताम्

स त्रिवृता स्तोमेन गायत्रीम् अभ्यक्रन्दत्। ततो वसून् असृजताग्निमुखान्। पञ्चदशेन स्तोमेन त्रिष्टुभम् अभ्यक्रन्दत्। ततो रुद्रान् असृजतेन्द्रमुखान्। सप्तदशेन स्तोमेन जगतीम् अभ्यक्रन्दत्। तत आदित्यान् असृजत वरुणमुखान्। एकविंशेन स्तोमेनानुष्टुभम् अभ्यक्रन्दत्। ततो विश्वान् देवान् असृजत विष्णुमुखान्। त्रिणवेन स्तोमेन पंक्तिम् अभ्यक्रन्दत्। ततो मरुतो ऽसृजतेशानमुखान्। त्रयस्त्रिंशेन स्तोमेनातिछन्दसम् अभ्यक्रन्दत्। ततस् साध्यांश् चाप्त्यांश् चासृजत सवितृमुखान्। पञ्चविंशेन स्तोमेन बृहतीम् अभ्यक्रन्दत्। ततो गन्धर्वान् असृजत मित्रमुखान्। विराजम् अभ्यक्रन्दत्। ततो ऽप्सरसो ऽसृजत त्वष्टृमुखाः। ककुभम् अभ्यक्रन्दत्। ततस् सर्पान् असृजताङ्गिरसोमुखान्। उष्णिहम् अभ्यक्रन्दत् । ततो ऽङ्गिरसो ऽसृजताथर्वमुखान्। अक्षरपंक्तिम् अभ्यक्रन्दत्। ततो ऽसुरान् असृजतासितमुखान्। विष्टारपंक्तिम् अभ्यक्रन्दत्। ततः पितॄन् असृजत यममुखान्। द्विपदाम् अभ्यक्रन्दत्। ततो मनुष्यान् असृजत मृत्युमुखान्। एकपदाम् अभ्यक्रन्दत्। ततो वयांस्य् असृजत मृत्युमुखान्य् उ एव। अमितच्छन्दो ऽभ्यक्रन्दत्। ततः पशून् असृजत धातृमुखान्। स इदं सर्वं सृष्ट्वोर्ध्वं उदक्रामत्। सो ऽगच्छद् यत्रैनम् एतद् उपरि वेदयन्ते॥3.381॥


तम् अस्यां प्राच्यां दिशि वसवो ऽन्वैच्छन्न् अग्निमुखाः। ते ऽन्वविन्दन् यद् अर्चिषो रूपं तत्। तद् एवास्य त उपासते। तम् अस्यां दक्षिणायां दिशि रुद्रा अन्वैच्छन्न् इन्द्रमुखाः। ते ऽन्वविन्दन् यद् आदित्यस्य रूपं तत्। तद् एवास्य त उपासते। तम् अस्यां प्रतीच्यां दिश्य् आदित्या अन्वैच्छन् वरुणमुखाः। ते ऽन्वविन्दन् यच् चन्द्रमसो रूपं तत्। तद् एवास्य ते उपासते। तम् अस्याम् उदीच्यां दिशि विश्वे देवा अन्वैच्छन् विष्णुमुखाः। ते ऽन्वविन्दन् यद् विद्युतो रूपं तत्। तद् एवास्य त उपासते। तम् अस्याम् ऊर्ध्वायां दिशि मरुतो ऽन्वैच्छन्न् ईशानमुखाः। ते ऽन्वविन्दन् यत् श्वेतं रूपं तत्। तद् एवास्य त उपासते। तम् एतस्मिन् परे लोके साध्याश् चाप्त्याश् चान्वैच्छन् सवितृमुखाः। ते ऽन्विन्दन् यत् कृष्णं रूपं तत्। तद् एवास्य त उपासते। तम् अस्मिन्न् एवान्तरदेशे गन्धर्वा अन्वैच्छन् मित्रमुखाः ते ऽन्वविन्दन् यत् सुवर्णस्य हिरण्यस्य रूपं तत्। तद् एवास्य त उपासते। तम् अस्मिन्न् एवान्तरदेशे ऽप्सरसो ऽन्वैच्छंस् त्वष्टृमुखाः। ता अन्वविन्दन् यद् रजतस्य हिरण्यस्य रूपं तत्। तद् एवास्य ता उपासते। तं सर्पा अन्वैच्छन्न् अङ्गिरोमुखाः। ते ऽन्वविन्दन् यन् मधुनो रूपं तत्। तद् एवास्य त उपासते। तम् अङ्गिरसो ऽन्वैच्छन्न् अथर्वमुखाः। ते ऽन्विन्दन् यद् धुतस्य रूपं तत्। तद् एवास्य त उपासते। तम् असुरा अन्वैच्छन्न् असितमुखाः। ते ऽन्वविन्दन् यत् सुरायै रूपं तत्। तद् एवास्य ते उपासते॥3.382॥


तस्मात् ते पराभूताः। ते ह्य् अस्य पापिष्ठम् उपासते। तं पितरः पितृलोके ऽन्वैच्छन् यममुखाः। ते ऽन्वविन्दन् यद् अपां रूपं तत्। तद् एवास्य त उपासते। तं मनुष्या अन्वैच्छन् मृत्युमुखाः। ते ऽन्वविन्दन् यत् क्षीरोदनस्य रूपं तत्। तद् एवास्य त उपासते। तद् एतद् ध वा एतद् अग्रे ऽन्नस्य रूपम् आस यत् क्षीरौदनः। तस्येयं विकृतिर् यद् इदं मनुष्या उपासते। तं वयांस्य् अन्वैच्छन् मृत्युमुखान्य् उ एव । तान्य् अन्विन्दन् हिरण्यपक्षश् शकुन इति। तत् तद् एवास्य तान्य् उपासते। तं पशवो ऽन्वैच्छन् धातृमुखाः। ते ऽन्वविन्दन् हिरण्यशृङ्गो हिरण्यशफः कृष्ण ऋषभ इति। तत् तद् एवास्य त उपासते। तद् एतद् ध वा एतस्यै देवतायै सात्ययज्ञयो रूपम् उपासते हिरण्यशृङ्गो हिरण्यशफः कृष्ण ऋषभ इति। स य एतद् एवं वेद ऋषभ एव स्वानां भवति। अथो यो ऽयं तपति - ॥3.383॥


- सो ऽस्याम् ऊर्ध्वायां दिश्य् अन्वैच्छत्। तम् एतैस् सर्वै रूपैस् सहासीनम् अन्वविन्दत्। तान्य् एतस्मा एव सर्वाणि रूपाणि प्रायच्छत्। तद् यद् इदम् इह कल्याणं रूपम् आजायते। यद् एवैष प्रयच्छति तद् इदम् इहाजायते। स यद् भूर् भुव स्वर् इति व्याहरत् त एवेमे त्रयो लोका अभवन्न् उपोदक ऋतधामा ऽपराजितः। अथ यत् करज् जनद् वृधत् इति व्याहरत् त एवैते ऽपरे लोका अभवन्न् अधिदिवः प्रदिवो रोचनः। विष्टप एव सप्तमो ब्रह्मलोको यस्मिन्न् एतत् सत्यं भाति। तम् एषा देवता सत्यं भूत्वानुप्राविशत्। तत् सद् वै प्राणस् सत्याः प्रजाः। तेनास्य सत्येनेदं सर्वं संगृहीतं भवति। यदि च ह सत्यं वदति यदि च नाथ हास्य सत्यम् एवोदितं भवति। अथो ह विद्यात् सत्यम् एवाहं वदामि नानृतं, यत् सत्यं वदतो लोकस् स मे लोक इति। तस्य ह स एव लोको भवति। तद् यथेदं वयं मीमांसामह इदं ब्रह्मेदं ब्रह्मेत्य् एवम् एवैषा देवतैतद्विदांसं(विद्वांस) मीमांसते न हैष चन तद् वेद। मा सो देवता प्रविष्टेति य एव तद् वेद स एव तद् वेद। एतं सा देवता प्रविष्टेति। न ह वा एवंविदः किं चनाविदितं भवति न का चन देवता॥3.384॥


तस्यैष श्लोकः -
इतः परस्तात् पर उ परस्मात् परस् तृतीयाद् उत वा चतुर्थात्।
सहस्रस्थूणे विमिते दृढ उग्रे यत्र देवानाम् अधिदेव आस्ते॥
इति। एष ह वाव स देवानाम् अधिदेवो य एष तपति। तस्यैतत् सहस्रस्थूणं विमितं दृढं उग्रं यत् संवत्सर ऋतवो मासा अर्धमासा अहोरात्राण्य् उषसः। स य एवम् एतत् सर्वं द्वादशाहम् आत्मानम् अभि संपद्यमानं वेद सर्व एनं कामा अभि संपद्यन्ते। द्वादशाहे वै सर्वे स्तोमा सर्वाणि पृष्ठानि सर्वाणि छन्दांसि सर्वाणि सवनानि सर्वे पशवस् सर्वे देवास् सर्वे लोकास् सर्वे कामा , द्वादशाहम् अन्वायत्ता। द्वादशाहम् अन्वाभक्ता, द्वादशाहम् अनुसंतृप्यन्ति, द्वादशाहे संपन्ना, द्वादशाहे प्रतिष्ठिताः। तद् आहुर् यद् एतानि दशैवाहान्य् अथ कस्माद् द्वादशाह इत्य् आख्यायत इति। स ब्रूयाद् यद् एवैते द्वादशाग्निष्टोमा संपद्यन्ते तेनेति॥3.385॥


तद् आहुर् यत् त्रयोदश मासास् संवत्सरस् संवत्सरश् च चतुर्दशो, ऽथ केन त्रयोदशं च मासम् उपाप्नुवन्ति संवत्सरं च चतुर्दशम् इति। अतिरात्राभ्याम् इति ब्रूयात्। प्रायणीयेनातिरात्रेण त्रयोदशं मासम् उपाप्नुवन्त्य्, उदयनीयेन संवत्सरं चतुर्दशम्। तद् आहुस् स वाद्य द्वादशाहं विद्यात्, स वा वेदेति मन्येत, य एनं सर्वेषु लोकेषु प्रतिष्ठितं विद्याद् इति। मासा वै द्वादशाहस्याहानि, त एव लोका, एत एव देवलोकाः। फाल्गुनो वै मासो द्वादशाहस्य प्रथमम् अहश्, चैत्रो द्वितीयं, वैशाखस् तृतीयम्, आषाढापौर्णमासश् चतुर्थं, श्रोणाश्रविष्ठः पञ्चमं, शातभिषजष् षष्ठं, प्रोष्ठपदः सप्तमम्, आश्वयुजो ऽष्टमं, कार्तिको नवमम्, मार्गशीर्षो दशमं, तैष एकादशं, माघो द्वादशं, प्रायणीय एवातिरात्रस् त्रयोदशो मास, उदयनीयस् संवत्सरश् चतुर्दशः। स एष द्वादशाहस् सर्वेषु लोकेषु प्रतिष्ठितः। स य एवम् एतं द्वादशाहं सर्वेषु लोकेषु प्रतिष्ठितं वेद सर्वेषु लोकेषु प्रतितिष्ठति। स एष वाव द्वादशाहो य एष तपत्य्, एष इन्द्र, एष प्रजापतिर्, एष एवेदं सर्वम् इत्य् उपासितव्यम्। एष एवेदं सर्वम् इत्य् उपासितव्यम्॥3.386॥
--------------------------------------------------------








टंकण तिथि - 5-7.2014ई.(आषाढ शुक्ल अष्टमी, विक्रम संवत् 2071)