प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०५

< तैत्तिरीयब्राह्मणम् (विस्वरपाठः)‎ | काण्डः १

1.5.1.1 नक्षत्रेष्टिका

अग्नेः कृत्तिकाः । शुक्रं परस्ताज्ज्योतिरवस्तात् । प्रजापते रोहिणी ।आपः परस्तादोषधयोऽवस्तात् । सोमस्येन्वका । विततानि परस्ताद्वयन्तोऽवस्तात् । रुद्र स्य बाहू ।मृगयवः परस्ताद्विक्षारोऽवस्तात् । अदित्यै पुनर्वसू ।वातः
परस्तादार्द्र मवस्तात् १

बृहस्पतेस्तिष्यः । जुह्वतः परस्ताद्यजमाना अवस्तात् । सर्पाणामाश्रेषाः । अभ्यागच्छन्तः परस्तादभ्यानृत्यन्तोऽवस्तात् । पितृणां मघाः । रुदन्तः परस्तादपभ्रँ शोऽवस्तात् । अर्यम्णः पूर्वे फल्गुनी ।जाया परस्तादृषभोऽवस्तात्
। भगस्योत्तरे । वहतवः परस्ताद्वहमाना अवस्तात् २

देवस्य सवितुर्हस्तः । प्रसवः परस्तात्सनिरवस्तात् । इन्द्रस्य चित्रा । ऋतं परस्तात्सत्यमवस्तात् । वायोर्निष्ट्या । व्रततिः परस्तादसिद्धिरवस्तात् । इन्द्रा ग्नियोर्विशाखे । युगानि परस्तात्कृषमाणा अवस्तात् । मित्रस्यानूराधाः
। अभ्यारोहत्परस्तादभ्यारूढमवस्तात् ३

इन्द्रस्य रोहिणी ।शृणत्परस्तात्प्रतिशृणदवस्तात् । निरृत्यै मूलवर्हणी । प्रतिभञ्जन्तः परस्तात्प्रतिशृणन्तोऽवस्तात् । अपां पूर्वा अषाढाः । वर्चः परस्तात्समितिरवस्तात् । विश्वेषां देवानामुत्तराः । अभिजयत्परस्तादभि-
जितमवस्तात् । विष्णोः श्रोणा । पृच्छमानाः परस्तात्पन्था अवस्तात् ४

वसूनाँ श्रविष्ठाः । भूतं परस्ताद्भूतिरवस्तात् । इन्द्रस्य शतभिषक् । विश्वव्यचाः परस्ताद्विश्वक्षितिरवस्तात् । अजस्यैकपदः पूर्वे प्रोष्ठपदाः । वैश्वानरं परस्ताद्वैश्वावसवमवस्तात् । अहेर्बुध्नियस्योत्तरे । अभिषिञ्चन्तः परस्तादभि-षुण्वन्तोऽवस्तात् । पूष्णो रेवती ।गावः परस्ताद्वत्सा अवस्तात् । अश्विनोरश्वयुजौ । ग्रामः परस्तात्सेनावस्तात् । यमस्यापभरणीः । अपकर्षन्तः
परस्तादपवहन्तोऽवस्तात् । पूर्णा पश्चाद्यत्ते देवा अदधुः ५


1.5.2.1 नक्षत्रेष्टका

यत्पुण्यं नक्षत्रम् । तद्बट्कुर्वीतोपव्युषम् । यदा वै सूर्य उदेति । अथ नक्षत्रं नैति । यावति तत्र सूर्यो गच्छेत् । यत्र जघन्यं पश्येत् । तावति कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । एवँ ह वै यज्ञेषुं च शतद्युम्नं
च मात्स्यो निरवसाययाञ्चकार ६

यो वै नक्षत्रियं प्रजापतिं वेद । उभयोरेनं लोकयोर्विदुः । हस्त एवास्य हस्तः । चित्रा शिरः । निष्ट्या हृदयम् । ऊरू विशाखे । प्रतिष्ठानूराधाः
। एष वै नक्षत्रियः प्रजापतिः । य एवं वेद । उभयोरेनं लोकयोर्विदुः ७

अस्मिँ श्चामुष्मिँ श्च । यां कामयेत दुहितरं प्रैया स्यादिति । तां निष्ट्यायां दद्यात् । प्रियैव भवति । नैव तु पुनरागच्छति । अभिजिन्नाम नक्षत्रम् । उपरिष्टादषाढानाम् । अवस्ताच्छ्रोणायै । देवासुराः संयत्ता आसन् । ते
देवास्तस्मिन्नक्षत्रेऽभ्यजयन् ८

यदभ्यजयन् । तदभिजितोऽभिजित्त्वम् । यं कामयेतानपजय्यं जयेदिति । तमेतस्मिन्नक्षत्रे यातयेत् । अनपजय्यमेव जयति । पापपराजितमिव तु । प्रजापतिः पशूनसृजत । ते नक्षत्रंनक्षत्रमुपातिष्ठन्त । ते समावन्त एवाभवन्
। ते रेवतीमुपातिष्ठन्त ९

ते रेवत्यां प्राभवन् । तस्माद्रे वत्यां पशूनां कुर्वीत । यत्किं चार्वाचीनँ सोमात् । प्रैव भवन्ति । सलिलं वा इदमन्तरासीत् । यदतरन् । तत्तारकाणां तारकत्वम् । यो वा इह यजते । अमुँ स लोकं नक्षते । तन्नक्षत्राणां
नक्षत्रत्वम् १०

देवगृहा वै नक्षत्राणि । य एवं वेद । गृह्येव भवति । यानि वा इमानि पृथिव्याश्चित्राणि । तानि नक्षत्राणि । तस्मादश्लीलनामँ श्चित्रे । नावस्येन्न यजेत । यथा पापाहे कुरुते । तादृगेव तत् । देवनक्षत्राणि वा अन्यानि
११

यमनक्षत्त्राण्यन्यानि । कृत्तिकाः प्रथमम् । विशाखे उत्तमम् । तानि देवनक्षत्राणि । अनूराधाः प्रथमम् । अपभरणीरुत्तमम् । तानि यमनक्षत्राणि । यानि देवनक्षत्राणि । तानि दक्षिणेन परियन्ति । यानि यमनक्षत्राणि
१२

तान्युत्तरेण । अन्वेषामरात्स्मेति । तदनूराधाः । ज्येष्ठमेषामवधिष्मेति । तज्ज्येष्ठघ्नी ।मूलमेषामवृक्षामेति । तन्मूलबर्हणी ।यन्नासहन्त । तदषाढाः
। यदश्लोणत् १३

तच्छ्रोणा । यदशृणोत् । तच्छ्रविष्ठाः । यच्छतमभिषज्यन् । तच्छतभिषक् । प्रोष्ठपदेषूदयच्छन्त । रेवत्यामरवन्त । अश्वयुजोरयुञ्जत । अपभर-णीष्वपावहन् । तानि वा एतानि यमनक्षत्राणि । यान्येव देवनक्षत्राणि ।
तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते १४


1.5.3.1

देवस्य सवितुः प्रातः प्रस्वः प्राणः । वरुणस्य सायमासवोऽपानः । यत्प्रती-चीनं प्रातस्तनात् । प्राचीनँ संगवात् । ततो देवा अग्निष्टोमं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः । मित्रस्य संगवः । तत्पुण्यं तेजस्व्यहः । तस्मा
तर्हि पशवः समायन्ति । यत्प्रतीचीनँ संगवात् १५

प्राचीनं मध्यंदिनात् । ततो देवा उक्थ्यं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः । बृहस्पतेर्मध्यंदिनः । तत्पुण्यं तेजस्व्यहः । तस्मात्तर्हि तेक्ष्णिष्ठं तपति । यत्प्रतीचीनं मध्यंदिनात् । प्राचीनमपराह्णात् । ततो देवाः षोडशिनं निरमिमत
। तत्तदात्तवीर्यं निर्मार्गः १६

भगस्यापराह्णः । तत्पुण्यं तेजस्व्यहः । तस्मादपराह्णे कुमार्यो भगमिच्छमानाश्चरन्ति । यत्प्रतीचीनमपराह्णात् । प्राचीनँ सायात् । ततो देवा अतिरात्रं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः । वरुणस्य सायम् ।
तत्पुण्यं तेजस्व्यहः । तस्मात्तर्हि नानृतं वदेत् १७

ब्राह्मणो वा अष्टाविँ शो नक्षत्राणाम् । समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्यश्लीलानि । तानि नव । यच्च परस्तान्नक्सात्राणां यच्चावस्तात् । तान्येकादश । ब्राह्मणो द्वादशः । य एवं विद्वान्संवत्सरं व्रतं चरति । संवत्सरेणैवास्य व्रतं गुप्तं भवति । समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्यश्लीलानि । तानि नव । आग्नेयी रात्रिः । ऐन्द्र महः । तान्येकादश । आदित्यो द्वादशः । य एवं विद्वान्संवत्सरं व्रतं चरति । संवत्सरेणैवास्य
व्रतं गुप्तं भवति १८


1.5.4.1

ब्रह्मवादिनो वदन्ति । कति पात्राणि यज्ञं वहन्तीति । त्रयोदशेति । ब्रूयात् । स यद्ब्रूयात् । कस्तानि निरमिमीतेति । प्रजापतिरिति ब्रूयात् । स यद्ब्रूयात् । कुतस्तानि निरमिमीतेति । आत्मन इति । प्राणापा-
नाभ्यामेवोपाँ श्वन्तर्यामौ निरमिमीत १९

व्यानादुपाँ शुसवनम् । वाच ऐन्द्र वायवम् । दक्षक्रतुभ्यां मैत्रावरुणम् । श्रोत्रादाश्विनम् । चक्षुषः शुक्रामन्थिनौ । आत्मन आग्रयणम् । अङ्गेभ्य उक्थ्यम् । आयुषो ध्रुवम् । प्रतिष्ठाया ऋतुपात्रे । यज्ञं वाव तं प्रजापतिर्निरमिमीत । स निर्मितो नाध्रियत समव्लीयत । स एतान्प्रजा-पतिरपिवापानपश्यत् । तान्निरवपत् । तैर्वै स यज्ञमप्यवपत् । यदपिवापा
भवन्ति । यज्ञस्य धृत्या असंव्लयाय २०


1.5.5.1

ऋतमेव परमेष्ठि । ऋतं नात्येति किं चन । ऋते समुद्र आहितः । ऋते भुमिरियँ श्रिता । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन
परिवर्तये २१

तपसास्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये । तदृतं तत्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् । यद्घर्मः पर्यवर्तयत् । अन्तान्पृथिव्या दिवः । अग्निरीशान ओजसा । वरुणो
धीतिभिः सह २२

इन्द्रो मरुद्भिः सखिभिः सह । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसास्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये
२३

तदृतं तत्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् । यो अस्याः पृथिव्यास्त्वचि । निवर्तयत्योषधीः । अग्निरीशान ओजसा । वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह । अग्निस्तिग्मेन शोचिषा
। तप आक्रान्तमुष्णिहा २४

शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसास्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये । तदृतं तत्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् २५

एकं मासमुदसृजत् । परमेष्ठी प्रजाभ्यः । तेनाभ्यो मह आवहत् । अमृतं मर्त्याभ्यः । प्रजामनु प्रजायसे । तदु ते मर्त्यामृतम् । येन मासा अर्धमासाः
। ऋतवः परिवत्सराः । येन ते ते प्रजापते । ईजानस्य न्यवर्तयन् २६

तेनाहमस्य ब्रह्मणा । निवर्तयामि जीवसे । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसास्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये । तदृतं तत्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं
तेन राध्यासम् २७


1.5.6.1

देवा वै यद्यज्ञेऽकुर्वत । तदसुरा अकुर्वत । तेऽसुरा ऊर्ध्वं पृष्ठेभ्यो नापश्यन् । ते केशानग्रेऽवपन्त । अथ श्मश्रूणि । अथोपपक्षौ । ततस्तेऽवाञ्च आयन्
। पराभवन् । यस्यैवं वपन्ति । अवाङेति २८

अथो परेव भवति । अथ देवा ऊर्ध्वं पृष्ठेभ्योऽपश्यन् । त उपपक्षावग्रेऽवपन्त । अथ श्मश्रूणि । अथ केशान् । ततस्तेऽभवन् । सुवर्गं लोकमायन् ।
यस्यैवं वपन्ति । भवत्यात्मना । अथो सुवर्गं लोकमेति २९

अथैतन्मनुर्वप्त्रे मिथुनमपश्यत् । स श्मश्रूण्यग्रेऽवपत । अथोपपक्षौ । अथ केशान् । ततो वै स प्राजायत प्रजया पशुभिः । यस्यैवं वपन्ति । प्र प्रजया पशुभिर्मिथुनैर्जायते । देवासुराः संयत्त आसन् । ते संवत्सरे
व्यायच्छन्त । तान्देवाश्चातुर्मास्यैरेवाभि प्रायुञ्जत ३०

वैश्वदेवेन चतुरो मासोऽवृञ्जतेन्द्र राजानः । ताञ्शीर्षन्नि चावर्तयन्त परि च । वरुणप्रघासैश्चतुरो मासोऽवृञ्जत वरुणराजानः । ताञ्शीर्षन्नि चावर्तयन्त परि च । साकमेधैश्चतुरो मासोऽवृञ्जत सोमराजानः । ताञ्शीर्षन्नि चावर्तयन्त परि च । या संवत्सर उपजीवासीत् । तामेषामवृञ्जत । ततो देवा अभवन्
। परासुराः ३१

य एवं विद्वाँ श्चातुर्मास्यैर्यजते । भ्रातृव्यस्यैव मासो वृक्त्वा । शीर्षन्नि च वर्तयते परि च । यैषा संवत्सर उपजीवा । वृङ्क्ते तां भ्रातृव्यस्य । क्षुधास्य भ्रातृव्यः पराभवति । लोहितायसेन निवर्तयते । यद्वा इमामग्निरृतावागते निवर्तयति । एतदेवैनाँ रूपं कृत्वा निवर्तयति । सा ततः श्वःश्वो भूयसी
भवन्त्येति ३२

प्रजायते । य एवं विद्वान्लोहितायसेन निवर्तयते । एतदेव रूपं कृत्वा निवर्तयते । स ततः श्वःश्वो भूयान्भवन्नेति । प्रैव जायते । त्रेण्या शलल्या निवर्तयेत । त्रीणित्रीणि वै देवानामृद्धानि । त्रीणि च्छन्दाँ सि । त्रीणि
सवनानि । त्रय इमे लोकाः ३३

ऋद्ध्यामेव तद्वीर्य एषु लोकेषु प्रतितिष्ठति । यच्चातुर्मास्ययाज्यात्मनो नावद्येत् । देवेभ्य आवृश्च्येत । चतृषुचतृषु मासेषु निवर्तयेत । परोक्षमेव तद्देवेभ्य आत्मनोऽवद्यत्यनाव्रस्काय । देवानां वा एष आनीतः । यश्चातुर्मास्ययाजी य एवं विद्वान्नि च वर्तयते परि च । देवता एवाप्येति । नास्य रुद्र ः! प्रजां
पशूनभिमन्यते ३४


1.5.7.1

आयुषः प्राणँ संतनु । प्राणादपानँ संतनु । अपानाद्व्यानँ संतनु । व्यानाच्चक्षुः संतनु । चक्षुषः श्रोत्रँ संतनु । श्रोत्रान्मनः संतनु । मनसो वाचँ संतनु । वाच आत्मानँ संतनु । आत्मनः पृथिवीँ संतनु । पृथिव्या अन्तरिक्षँ संतनु
। अन्तरिक्षाद्दिवँ संतनु । दिवः सुवः संतनु ३५


1.5.8.1

इन्द्रो दधीचो अस्थभिः । वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नव । इच्छन्नश्वस्य यच्छिरः । पर्वतेष्वपश्रितम् । तद्विदच्छर्यणावति । अत्राह गोरमन्वत । नाम त्वष्टुरपीच्यम् । इत्था चन्द्र मसो गृहे । इन्द्र मिद्गाथिनो
बृहत् ३६

इन्द्र मर्केभिरर्किणः । इन्द्रं वाणीरनूषत । इन्द्र इद्धर्योः सचा । संमिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः । इन्द्रो दीर्घाय चक्षसे । आ सूर्यँ रोहयद्दिवि । वि गोभिरद्रि मैरयत् । इन्द्र वाजेषु नो अव । सहस्रप्रधनेषु
च ३७

उग्र उग्राभिरूतिभिः । तमिन्द्रं वाजयामसि । महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् । इन्द्रः स दामने कृतः । ओजिष्ठः स बले हितः । द्युम्नी श्लोकी स सौम्यः । गिरा वज्रो न संभृतः । सबलो अनपच्युतः ।
ववक्षुरुग्रो अस्तृतः ३८


1.5.9.1

देवासुराः संयत्त आसन् । स प्रजापतिरिन्द्रं ज्येष्ठं पुत्रमप न्यधत्त । नेदेनमसुरा बलीयाँ सोऽहनन्निति । प्रह्रादो ह वै कायाधवः । विरोचनँ स्वं पुत्रमप न्यधत्त । नेदेनं देवा अहनन्निति । ते देवाः प्रजापतिमुपसमेत्योचुः । नाराजकस्य युद्धमस्ति । इन्द्र मन्विच्छामेति । तं यज्ञक्रतुभिरन्वैच्छन्
३९

तं यज्ञक्रतुभिर्नान्वविन्दन् । तमिष्टिभिरन्वैच्छन् । तमिष्टिभिरन्वविन्दन् । तदिष्टीनामिष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । तस्मा एतमाग्नावैष्णवमेकादशकपालं दीक्षनीयं
निरवपन् । तदपद्रुत्यातन्वत । तन्पत्नीसंयाजान्त उपानयन् ४०

ते तदन्तमेव कृत्वोदद्र वन् । ते प्रायणीयमभि समारोहन् । तदपद्रुत्यातन्वत । ताञ्शंय्वन्त उपानयन् । ते तदन्तमेव कृत्वोदद्र वन् । त आतिथ्यमभि समारोहन् । तदपद्रुत्यातन्वत । तानिडान्त उपानयन् । ते तदन्तमेव
कृत्वोदद्र वन् । तस्मादेता एतदन्ता इष्टयः संतिष्ठन्ते ४१

एवँ हि देवा अकुर्वत । इति देवा अकुर्वत । इत्यु वै मनुष्याः कुर्वते । ते देवा ऊचुः । यद्वा इदमुच्चैर्यज्ञेन चराम । तन्नोऽसुराः पाप्मानुविन्दन्ति । उपाँ शूपसदा चराम । तथा नोऽसुराः पाप्मा नानुवेत्स्यन्तीति । त
उपाँ शूपसदमतन्वत । तिस्र एव सामिधेनीरनूच्य ४२

स्रुवेणाघारमाघार्य । तिस्रः पराचीराहुतीर्हुत्वा । स्रुवेणोपसदं जुहवाञ्चक्रुः । उग्रं वचो अपावधीं त्वेषं वचो अपावधीँ स्वाहेति । अशनयापिपासे ह वा उग्रं वचः । एनश्च वैरहत्यं च त्वेषं वचः । एतँ ह वाव तच्चतुर्धाविहितं पाप्मानं देवा अपजघ्निरे । तथो एवैतदेवंविद्यजमानः । तिस्र एव
सामिधेनीरनूच्य । स्रुवेणाघारमाघार्य ४३

तिस्रः पराचीराहुतीर्हुत्वा । स्रुवेणोपसदं जुहोति । उग्रं वचो अपावधीं त्वेषं वचो अपावधीँ स्वाहेति । अशनयापिपासे ह वा उग्रं वचः । एनश्च वैरहत्यं च त्वेषं वचः । एतमेव तच्चतुर्धाविहितं पाप्मानं यजमानोऽपहते । तेऽभिनीयैवाहः पशुमालभन्त । अह्न एव तद्देवा अवर्तिं पाप्मानं मृत्युमपजघ्निरे । तेनाभिनीयेव रात्रेः प्राचरन् । रात्रिया एव तद्देवा अवर्तिं पाप्मानं
मृत्युमपजघ्निरे ४४

तस्मादभिनीयैवाहः पशुमालभेत । अह्न एव तद्यजमानोऽवर्तिं पाप्मानं भ्रातृव्यानपनुदते । तेनाभिनीयेव रात्रेः प्रचरेत् । रात्रिया एव तद्यजमानोऽवर्तिं पाप्मानं भ्रातृव्यानपनुदते । स एष उपवसथीयेऽहन्द्विदेवत्यः पशुरालभ्यते । द्वयं वा अस्मिँ ल्लोके यजमानः । अस्थि च माँ सं च । अस्थि चैव तेन माँ सं च यजमानः सँ स्कुरुते । ता वा एताः पञ्च देवताः ।
अग्नीषोमावग्निर्मित्रावरुणौ ४५

पञ्चपञ्ची वै यजमानः । त्वङ्माँ सँ स्नावास्थि मज्जा । एतमेव तत्पञ्चधा विहितमात्मानं वरुणपाशान्मुञ्चति । भेषजतायै निर्वरुणत्वाय । तँ सप्तभिश्छ-न्दोभिः प्रातरह्वयन् । तस्मात्सप्त चतुरुत्तराणि छन्दाँ सि प्रातरनुवाकेऽनूच्यन्ते । तमेतयोपसमेत्योपासीदन् । उपास्मै गायता नर इति । तस्मादेतया
वहिष्पवमान उपसद्यः ४६


1.5.10.1

स समुद्र उत्तरतः प्राज्वलद्भूम्यन्तेन । एष वाव स समुद्र ः! । यच्चात्वालः । एष उ वेव स भूम्यन्तः । यद्वेद्यन्तः । तदेतत्त्रिशलं त्रिपूरुषम् । तस्मात्तं त्रिवितस्तं खनन्ति । स सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् । तं
यदस्या अध्यजनयन् । तस्मादादित्यः ४७

अथ यत्सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् । सास्य कौशिकता । तं त्रिवृताभि प्रास्तुवत । तं त्रिवृताददत । तं त्रिवृताहरन् । यावती त्रिवृतो मात्रा । तं पञ्चदशेनाभि प्रास्तुवत । तं पञ्चदशेनाददत । तं पञ्चदशेनाहरन्
। यावती पञ्चदशस्य मात्रा ४८

तँ सप्तदशेनाभि प्रास्तुवत । तँ सप्तदशेनाददत । तँ सप्तदशेनाहरन् । यावती सप्तदशस्य मात्रा । तस्य सप्तदशेन ह्रियमाणस्य तेजो हरोऽपतत् । तमेकविँ शेनाभि प्रास्तुवत । तमेकविँ शेनाददत । तमेकविँ शेनाहरन् ।
यावत्येकविँ शस्य मात्रा । ते यत्त्रिवृता स्तुवते ४९

त्रिवृतैव तद्यजमानमाददते । तं त्रिवृतैव हरन्ति । यावती त्रिवृतो मात्रा । अग्निर्वै त्रिवृत् । यावद्वा अग्नेर्दहतो धूम उदेत्यानु व्येति । तावती त्रिवृतो मात्रा । अग्नेरेवैनं तत् । मात्राँ सायुज्यँ सलोकतां गमयन्ति । अथो
यत्पञ्चदशेन स्तुवते । पञ्चदशेनैव तद्यजमानमाददते ५०

तं पञ्चदशेनैव हरन्ति । यावती पञ्चदशस्य मात्रा । चन्द्र मा वै पञ्चदशः । एष हि पञ्चदश्यामपक्षीयते । पञ्चदश्यामापूर्यते । चन्द्र मस एवैनं तत् । मात्राँ सायुज्यँ सलोकतां गमयन्ति । अथ यत्सप्तदशेन स्तुवते । सप्तदशेन
वै! तद्यजमानमाददते । तँ सप्तदशेनैव हरन्ति ५१

यावती सप्तदशस्य मात्रा । प्रजापतिर्वै सप्तदशः । प्रजापतेरेवैनं तत् । मात्राँ सायुज्यँ सलोकतां गमयन्ति । अथ यदेकविँ शेन स्तुवते । एकविँ शेनैव तद्यजमानमाददते । तमेकविँ शेनैव हरन्ति । यावत्येकविँ शस्य मात्रा ।
असौ वा आदित्य एकविँ शः । आदित्यस्यैवैनं तत् ५२

मात्राँ सायुज्यँ सलोकतां गमयन्ति । ते कुश्यौ । व्यघ्नन् । ते अहोरात्रे अभवताम् । अहरेव सुवर्णाभवत् । रजता रात्रिः । स यदादित्य उदेति । एतामेव तत्सुवर्णां कुशीमनु समेति । अथ यदस्तमेति । एतामेव तद्र जतां कुशीमनु संविशति । प्रह्रादो ह वै कायाधवः । विरोचनँ स्वं पुत्रमुदास्यत्
। स प्रदरोऽभवत् । तस्मात्प्रदरादुदकं नाचामेत् ५३


1.5.11.1

ये वै चत्वारः स्तोमाः । कृतं तत् । अथ ये पञ्च । कलिः सः । तस्माच्चतुष्टोमः । तच्चतुष्टोमस्य चतुष्टोमत्वम् । तदाहुः । कतमानि तानि
ज्योतीँ षि । य एतस्य स्तोमा इति । त्रिवृत्पञ्चदशः सप्तदश एकविँ शः ५४

एतानि वाव तानि ज्योतीँ षि । य एतस्य स्तोमाः । सोऽब्रवीत् । सप्तदशेन ह्रियमाणो व्यलेशिषि । भिषज्यत मेति । तमश्विनौ धानाभिरभिषज्यताम् । पूषा करम्भेण । भारती परिवापेण । मित्रावरुणौ पयस्यया । तदाहुः
५५

यदश्विभ्यां धानाः । पूष्णः करम्भः । भारत्यै परिवापः । मित्रावरुणयोः पयस्याथ । कस्मादेतेषाँ हविषामिन्द्र मेव यजन्तीति । एता ह्येनं देवता इति ब्रूयात् । एतैर्हविर्भिरभिषज्यँ स्तस्मादिति । तं वसवोऽष्टाकपालेन प्रातःसवनेऽभिषज्यन् । रुद्रा एकादशकपालेन माध्यन्दिने सवने । विश्वे
देवा द्वादशकपालेन तृतीयसवने ५६

स यदष्टाकपालान्प्रातःसवने कुर्यात् । एकादश कपालान्माध्यन्दिने सवने । द्वादशकपालाँ स्तृतीयसवने । विलोम तद्यज्ञस्य क्रियेत । एकादशकपालानेव प्रातःसवने कुर्यात् । एकादशकपालान्माध्यन्दिने सवने । एकादशकपालाँ स्तृतीयसवने । यज्ञस्य सलोमत्वाय । तदाहुः । यद्वसूनां प्रातःसवनम् । रुद्रा णां माध्यन्दिनँ सवनम् । विश्वेषां देवानां तृतीयसवनम् । अथ कस्मादेतेषाँ हविषामिन्द्र मेव यजन्तीति । एता ह्येनं देवता इति ब्रूयात्
। एतैर्हविर्भिरभिषज्यँ स्तस्मादिति ५७


1.5.12.1

तस्यावाचोऽवपादादबिभयुः । तमेतेषु सप्तसु छन्दःस्वश्रयन् । यदश्रयन् । तच्छ्रायन्तीयस्य श्रायन्तीयत्वम् । यदवारयन् । तद्वारवन्तीयस्य वारवन्तीयत्वम् । तस्यवाच एवावपादादबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दाँ स्युपादधुः । तेषामति त्रीण्यरिच्यन्त । न त्रीण्युदभवन्
५८

स बृहतीमेवास्पृशत् । द्वाभ्यामक्षराभ्याम् । अहोरात्राभ्यामेव । तदाहुः । कतमा सा देवाक्षरा बृहती । यस्यां तत्प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः । द्वादशाष्टकाः । द्वादशामावास्याः । एषा वाव सा देवाक्षरा बृहती ५९

यस्यां तत्प्रत्यतिष्ठदिति । यानि च छन्दाँ स्यत्यरिच्यन्त । यानि च नोदभवन् । तानि निर्वीर्याणि हीनान्यमन्यन्त । साब्रवीद्बृहती ।मामेव भूत्वा । मामुप सँ श्रयतेति । चतुर्भिरक्षरैरनुष्टुग्बृहतीं नोदभवत् । चतुर्भिरक्षरैः पङ्क्तिर्बृहती-
मत्यरिच्यत । तस्यामेतानि चत्वार्यक्षराण्यपच्छिद्यादधात् ६०

ते बृहती एव भूत्वा । बृहतीमुप समश्रयताम् । अष्टाभिरक्षरैरुष्णिग्बृहतीं नोदभवत् । अष्टाभिरक्षरैस्त्रिष्टुग्बृहतीमत्यरिच्यत । तस्यामेतान्यष्टावक्षरा-ण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा । बृहतीमुप समश्रयताम् । द्वाद-शभिरक्षरैर्गायत्री बृहतीं नोदभवत् । द्वादशभिरक्षरैर्जगती बृहतीमत्यरिच्यत
। तस्यामेतानि द्वादशाक्षराण्यपच्छिद्यादधात् ६१

ते बृहती एव भूत्वा । बृहतीमुप समश्रयताम् । सोऽब्रवीत्प्रजापतिः । छन्दाँ सि रथो मे भवत । युष्माभिरहमेतमध्वानमनु संचराणीति । तस्य गायत्री च जगती च पक्षावभवताम् । उष्णिक्च त्रिष्टुप्च प्रष्ट्यौ । अनुष्टुप्च पङ्क्तिश्च धुर्यौ । बृहत्येवोद्धिरभवत् । स एतं छन्दोरथमास्थाय । एतमध्वा-नमनु समचरत् । एतँ ह वै छन्दोरथमास्थाय । एतमध्वानमनु संचरति ।
येनैष एतत्संचरति । य एवं विद्वान्सोमेन यजते । य उ चैनमेवं वेद
६२ ५