प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०२

< तैत्तिरीयब्राह्मणम् (विस्वरपाठः)‎ | काण्डः २

2.2.1.1 दशहोत्राख्य मन्त्र

प्रजापतिरकामयत प्रजाः सृजेयेति । स एतं दशहोतारमपश्यत् । तं मनसानुद्रुत्य दर्भस्तम्बेऽजुहोत् । ततो वै स प्रजा असृजत । ता अस्मात्सृष्टा अपाक्रामन् । ता ग्रहेणागृह्णात् । तद्ग्रहस्य ग्रहत्वम् । यः कामयेत प्रजायेयेति । स दशहोतारं मनसानुद्रुत्य दर्भस्तम्बे जुहुयात् । प्रजापतिर्वै दशहोता १

प्रजापतिरेव भूत्वा प्रजायते । मनसा जुहोति । मन इव हि प्रजापतिः । प्रजापतेराप्त्यै । पूर्णया जुहोति । पूर्ण इव हि प्रजापतिः । प्रजापतेराप्त्यै । न्यूनया जुहोति । न्यूनाद्धि प्रजापतिः प्रजा असृजत । प्रजानाँ सृष्ट्यै २

दर्भस्तम्बे जुहोति । एतस्माद्वै योनेः प्रजापतिः प्रजा असृजत । यस्मादेव योनेः प्रजापतिः प्रजा असृजत । तस्मादेव योनेः प्र जायते । ब्राह्मणो दक्षिणत उपास्ते । ब्राह्मणो वै प्रजानामुपद्र ष्टा । उपद्र ष्टुमत्येव प्रजायते । ग्रहो भवति । प्रजानाँ सृष्टानां धृत्यै । यं ब्राह्मणं विद्यां विद्वाँ सं यशो नर्च्छेत् ३

सोऽरण्यं परेत्य । दर्भस्तम्बमुद्ग्रथ्य । ब्राह्मणं दक्षिणतो निषद्य । चतुर्हो-तॄन्व्याचक्षीत । एतद्वै देवानां परमं गुह्यं ब्रह्म । यच्चतुर्होतारः । तदेव प्रकाशं गमयति । तदेनं प्रकाशं गतम् । प्रकाशं प्रजानां गमयति । दर्भस्तम्बमुद्ग्रथ्य व्याचष्टे ४

अग्निवान्वै दर्भस्तम्बः । अग्निवत्येव व्याचष्टे । ब्राह्मणो दक्षिणत उपास्ते । ब्राह्मणो वै प्रजानामुपद्र ष्टा । उपद्र ष्टुमत्येवैनं यश ऋच्छति । ईश्वरं तं यशोऽर्तोरित्याहुः । यस्यां ते व्याचष्ट इति । वरस्तस्मै देयः । यदेवैनं तत्रोपनमति । तदेवावरुन्धे ५

अग्निमादधानो दशहोत्रारणिमवदध्यात् । प्रजातमेवैनमाधत्ते । तेनैवोद्द्रुत्याग्निहोत्रं जुहुयात् । प्रजातमेवैनज्जुहोति । हविर्निर्वप्स्यन्दशहोतारं व्याचक्षीत । प्रजातमेवैनं निर्वपति । सामिधेनीरनुवक्ष्यन्दशहोतारं व्या-चक्षीत । सामिधेनिरेव सृष्ट्वारभ्य प्रतनुते । अथो यज्ञो वै दशहोता । यज्ञमेव तनुते ६

अभिचरन्दशहोतारं जुहुयात् । नव वै पुरुषे प्राणाः । नाभिर्दशमी ।सप्राणमेवैनमभिचरति । एतावद्वै पुरुषस्य स्वम् । यावत्प्राणाः । यावदेवास्यास्ति । तदभिचरति । स्वकृत इरिणे जुहोति प्रदरे वा । एतद्वा अस्यै निरृतिगृहीतम् । निरृतिगृहीत एवैनं निरृत्या ग्राहयति । यद्वाचः क्रूरम् । तेन वषट्करोति । वाच एवैनं क्रूरेण प्रवृश्चति । ता जगार्तिमार्च्छति ७


2.2.2.1 चतुर्होत्रादि मन्त्राणां --

प्रजापतिरकामयत दर्शपूर्णमासौ सृजेयेति । स एतं चतुर्होतारमपश्यत् । तं मनसानुद्रुत्याहवनीयेऽजुहोत् । ततो वै स दर्शपूर्णमासावसृजत । तावस्मात्सृष्टावपाक्रामताम् । तौ ग्रहेणागृह्णात् । तद्ग्रहस्य ग्रहत्वम् । दर्शपूर्णमासावालभमानः । चतुर्होतारं मनसानुद्रुत्याहवनीये जुहुयात् । दर्शपूर्णमासावेव सृष्ट्वारभ्य प्रतनुते ८

ग्रहो भवति । दर्शपूर्णमासयोः सृष्टयोर्धृत्यै । सोऽकामयत चातुर्मास्यानि सृजेयेति । स एतं पञ्चहोतारमपश्यत् । तं मनसानुद्रुत्याहवनीयेऽजुहोत् । ततो वै स चातुर्मास्यान्यसृजत । तान्यस्मात्सृष्टान्यपाक्रामन् । तानि ग्रहेणागृह्णात् । तद्ग्रहस्य ग्रहत्वम् । चातुर्मास्यान्यालभमानः ९

पञ्चहोतारं मनसानुद्रुत्याहवनीये जुहुयात् । चातुर्मास्यान्येव सृष्ट्वारभ्य प्रतनुते । ग्रहो भवति । चातुर्मास्यानाँ सृष्टानां धृत्यै । सोऽकामयत पशुबन्धँ सृजेयेति । स एतँ षड्ढोतारमपश्यत् । तं मन्सानुद्रुत्याहवनीयेऽजुहोत् । ततो वै स पशुबन्धमसृजत । सोऽस्मात्सृष्टोऽपाक्रामत् । तं ग्रहेणागृह्णात् १०

तद्ग्रहस्य ग्रहत्वम् । पशुबन्धेन यक्ष्यमाणः । षड्ढोतारं मनसानुद्रुत्याहवनीये जुहुयात् । पशुबन्धमेव सृष्ट्वारभ्य प्रतनुते । ग्रहो भवति । पशुबन्धस्य सृष्टस्य धृत्यै । सोऽकामयत सौम्यमध्वरँ सृजेयेति । स एतँ सप्तहो-तारमपश्यत् । तं मनसानुद्रुत्याहवनीयेऽजुहोत् । ततो वै स सौम्यमध्व-रमसृजत ११

सोऽस्मात्सृष्टोऽपाक्रामत् । तं ग्रहेणागृह्णात् । तद्ग्रहस्य ग्रहत्वम् । दीक्षि-ष्यमाणः । सप्तहोतारं मनसानुद्रुत्याहवनीये जुहुयात् । सौम्यमेवाध्वरँ सृष्ट्वारभ्य प्रतनुते । ग्रहो भवति । सौम्यस्याध्वरस्य सृष्टस्य धृत्यै । देवेभ्यो वै यज्ञो न प्राभवत् । तमेतावच्छस्समभरन् १२

यत्संभाराः । ततो वै तेभ्यो यज्ञः प्राभवत् । यत्संभारा भवनि । यज्ञस्य प्रभूत्यै । आतिथ्यमासाद्य व्याचष्टे । यज्ञमुखं वा आतिथ्यं ।मुखत एव यज्ञँ संभृत्य प्रतनुते । अयज्ञो वा एषः । योऽपत्नीकः । न प्रजाः । पत्नीर्व्याचष्टे । यज्ञमेवाकः । प्रजानां प्रजननाय । उपसत्सु व्याचष्टे । एतद्वै पत्नीनामायतनम् । स्व एवैना आयतनेऽवकल्पयति १३


2.2.3.1 चतुर्होतृपञ्चहोतृमन्त्रस्थ - -

प्रजापतिरकामयत प्रजायेयेति । स तपोऽतप्यत । स त्रिवृतँ स्तोममसृजत । तं पञ्चदशस्तोमो मध्यत उदतृणत् । तौ पूर्वपक्षश्चापरपक्षश्चाभवताम् । पूर्वपक्षं देवा अन्वसृज्यन्त । अपरपक्षमन्वसुराः । ततो देवा अभवन् । परासुराः । यं कामयेत वसीयान्त्स्यादिति १४

तं पूर्वपक्षे याजयेत् । वसीयानेव भवति । यं कामयेत पापीयान्त्स्यादिति । तमपरपक्षे याजयेत् । पापीयानेव भवति । तस्मात्पूर्वपक्षोऽपरपक्षा-त्करुण्यतरः । प्रजापतिर्वै दशहोता । चतुर्होता पञ्चहोता । षड्ढोता सप्तहोता । ऋतवः संवत्सरः १५ प्रजाः पशव इमे लोकाः । य एवं प्रजापतिं बहोर्भूयाँ सं वेद । बहोरेव भूयान्भवति । प्रजापतिर्देवासुरानसृजत । स इन्द्र मपि नासृजत । तं देवा अब्रुवन् । इन्द्रं नो जनयेति । सोऽब्रवीत् । यथाहं युष्माँ स्तपसासृक्षि । एवमिन्द्रं जनयध्वमिति १६

ते तपोऽतप्यन्त । त आत्मन्निन्द्र मपश्यन् । तमब्रुवन् । जायस्वेति । सोऽब्रवीत् । किम्भागधेयमभिजनिष्य इति । ऋतून्त्संवत्सरम् । प्रजाः प्रशून् । इमाँ ल्लोकानित्यब्रुवन् । तं वै माहुत्या प्रजनयतेत्यब्रवीत् १७

तं चतुर्होत्रा प्राजनयन् । यः कामयेत वीरो म आजायेतेति । स चतुर्होतारं जुहुयात् । प्रजापतिर्वै चतुर्होता । प्रजापतिरेव भूत्वा प्रजायते । जज-नदिन्द्र मिन्द्रि याय स्वाहेति ग्रहेण जुहोति । आस्य वीरो जायते । वीरँ हि देवा एतयाहुत्या प्राजनयन् । आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त । वयं पूर्वे सुवर्गं लोकमियाम वयं पूर्व इति १८

त आदित्या एतं पञ्चहोतारमपश्यन् । तं पुरा प्रातरनुवाकादाग्नीध्रेऽजुहवुः । ततो वै ते पूर्वे सुवर्गं लोकमायन् । यः सुवर्गकामः स्यात् । स पञ्चहोतारं पुरा प्रातरनुवाकादाग्नीध्रे जुहुयात् । संवत्सरो वै पञ्चहोता । संवत्सरः सुवर्गो लोकः । संवत्सर एवर्तुषु प्रतिष्ठाय । सुवर्गं लोकमेति । तेऽब्रुवन्नङ्गिरस आदित्यान् १९

क्व स्थ । क्व वः सद्भ्यो हव्यं वक्ष्याम इति । छन्दःस्वित्यब्रुवन् । गायत्रियां त्रिष्टुभि जगत्यामिति । तस्माच्छन्दःसु सद्भ्य आदित्येभ्यः । आङ्गीरसीः प्रजा हव्यं वहन्ति । वहन्त्यस्मै प्रजा बलिम् । ऐनमप्रतिख्यातं गच्छति । य एवं वेद । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविँ शः । एतस्मिन्वा एष श्रितः । एतस्मिन्प्रतिष्ठितः । य एवमेतँ श्रितं प्रतिष्ठितं वेद । प्रत्येव तिष्ठति २०


2.2.4.1 जगत्सृष्टिकथनमुखेन होतृमन्त्र

प्रजापतिरकामयत प्रजायेयेति । स एतं दशहोतारमपश्यत् । तेन दशधात्मानं विधाय । दशहोत्रातप्यत । तस्य चित्तिः स्रुगासीत् । चित्तमाज्यम् । तस्यैतावत्येव वागासीत् । एतावान्यज्ञक्रतुः । स चतुर्होतारमसृजत । सोऽनन्दत् २१

असृक्षि वा इममिति । तस्य सोमो हविरासित् । स चतुर्होत्रातप्यत । सोऽताम्यत् । स भूरिति व्याहरत् । स भूमिमसृजत । अग्निहोत्रं दर्शापूर्णमासौ यजूँ षि । स द्वितीयमतप्यत । सोऽताम्यत् । स भुव इति व्याहरत् २२

सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि । स तृतीयमतप्यत । सोऽता-म्यत् । स सुवरिति व्याहरत् । स दिवमसृजत । अग्निष्टोममुक्थ्य-मतिरात्रमृचः । एता वै व्याहृतय इमे लोकाः । इमान्खलु वै लोकाननु प्रजाः पशवश्छन्दाँ सि प्राजायन्त । य एवमेताः प्रजापतेः प्रथमा व्याहृतीः प्रजाता वेद २३

प्र प्रजया पशुभिर्मिथुनैर्जायते । स पञ्चहोतारमसृजत । स हविर्नाविन्दत । तस्मै सोमस्तनुवं प्रायच्छत् । एतत्ते हविरिति । स पञ्चहोत्रातप्यत । सोऽताम्यत् । स प्रत्यङ्ङबाधत । सोऽसुरानसृजत । तदस्याप्रियमासीत् २४

तद्दुर्वर्णँ हिरण्यमभवत् । तद्दुर्वर्णस्य हिरण्यस्य जन्म । स द्वितीयमतप्यत । सोऽताम्यत् । स प्राङबाधत । स देवानसृजत । तदस्य प्रियमसीत् । तत्सुवर्णँ हिरण्यमभवत् । तत्सुवर्णस्य हिरण्यस्य जन्म । य एवँ सुवर्णस्य हिरण्यस्य जन्म वेद २५

सुवर्ण आत्मना भवति । दुर्वर्णोऽस्य भ्रातृव्यः । तस्मात्सुवर्णँ हिरण्यं भार्यम् । सुवर्ण एव भवति । ऐनं प्रियं गच्छति नाप्रियम् । स सप्तहोतारमसृजत । स सप्तहोत्रैव सुवर्गं लोकमैत् । त्रिणवेन स्तोमेनैभ्यो लोकेभ्योऽसुरान्प्राणुदत । त्रयस्त्रिँ शेन प्रत्यतिष्ठत् । एकविँ शेन रुचमधत्त २६

सप्तदशेन प्राजायत । य एवं विद्वान्त्सोमेन यजते । सप्तहोत्रैव सुवर्गं लोकमेति । त्रिणवेन स्तोमेनैभ्यो लोकेभ्यो भ्रातृव्यान्प्रणुदते । त्रयस्त्रिँ शेन प्रतितिष्ठति । एकविँ शेन रुचं धत्ते । सप्तदशेन प्रजायते । तस्मात्सप्तदशः स्तोमो न निर्हृत्यः । प्रजापतिर्वै सप्तदशः । प्रजापतिमेव मध्यतो धत्ते प्रजात्यै २७


2.2.5.1 दक्षिणाप्रतिग्रहमन्त्राः

देवा वै वरुणमयाजयन् । स यस्यैयस्यै देवतायै दक्षिणामनयत् । तामव्लीनात् । तेऽब्रुवन् । व्यावृत्य प्रति गृह्णाम । तथा नो दक्षिणा न व्लेष्यतीति । ते व्यावृत्य प्रत्यगृह्णन् । ततो वै तान्दक्षिणा नाव्लीनात् । य एवं विद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति । नैनं दक्षिणा व्लीनाति २८

राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यमित्याह । आग्नेयं वै हिरण्यम् । स्वयैवैनद्देवतया प्रतिगृह्णाति । सोमाय वास इत्याह । सौम्यं वै वासः । स्वयैवैनद्देवतया प्रतिगृह्णाति । रुद्रा य गामित्याह । रौद्री वै गौः । स्वयैवैनां देवतया प्रतिगृह्णाति । वरुणायाश्वमित्याह २९

वारुणो वा अश्वः । स्वयैवैनं देवतया प्रतिगृह्णाति । प्राजापतये पुरुषमित्याह । प्राजापत्यो वै पुरुषः । स्वयैवैनं देवतया प्रतिगृह्णाति । मनवे तल्पमित्याह । मानवो वै तल्पः । स्वयैवैनं देवतया प्रतिगृह्णाति । उत्तानायाङ्गीरसायान इत्याह । इयं वा उत्तान आङ्गीरसः ३०

अनयैवैनत्प्रतिगृह्णाति । वैश्वानर्यर्चा रथं प्रतिगृह्णाति । वैश्वानरो वै देवतया रथः । स्वयैवैनं देवतया प्रतिगृह्णाति । तेनामृतत्वमश्यामित्याह । अमृतमेवात्मन्धत्ते । वयो दात्र इत्याह । वय एवैनं कृत्वा । सुवर्गं लोकं गमयति । मयो मह्यमस्तु प्रतिग्रहीत्र इत्याह ३१

यद्वै शिवम् । तन्मयः । आत्मन एवैषा परीत्तिः । क इदं कस्मा अदादित्याह । प्रजापतिर्वै कः । स प्रजापतये ददाति । कामः कामायेत्याह । कामेन हि ददाति । कामेन प्रतिगृह्णाति । कामो दाता कामः प्रतिग्रहीतेत्याह ३२

कामो हि दाता । कामः प्रतिग्रहीता । कामँ समुद्र माविशेत्याह । समुद्र इव हि कामः । नेव हि कामस्यान्तोऽस्ति । न समुद्र स्य । कामेन त्वा प्रतिगृह्णामीत्याह । येन कामेन प्रतिगृह्णाति । स एवैनममुष्मिँ ल्लोके काम आगच्छति । कामैतत्त एषा ते काम दक्षिणेत्याह । काम एव तद्यजमा-नोऽमुष्मिँ ल्लोके दक्षिणामिच्छ्ति । न प्रतिग्रहीतरि । य एवं विद्वान्दक्षिणां प्रतिगृह्णाति । अनृणामेवैनां प्रतिगृह्णाति ३३


2.2.6.1 दशमेऽहनि होत्रमन्त्राः

अन्तो वा एष यज्ञस्य । यद्दशममहः । दशमेऽहन्सर्पराज्ञिया ऋग्भिः स्तुवन्ति । यज्ञस्यैवान्तं गत्वा । अन्नाद्यमवरुन्धते । तिसृभिः स्तुवन्ति । त्रय इमे लोकाः । एभ्य एव लोकेभ्योऽन्नाद्यमवरुन्धते । पृश्निवतीर्भवन्ति । अन्नं वै पृश्नि ३४

अन्नमेवावरुन्धते । मनसा प्रस्तौति । मनसोद्गायति । मनसा प्रतिहरति । मन इव हि प्रजापतिः । प्रजापतेराप्त्यै । देवा वै सर्पाः । तेषामियँ राज्ञी ।यत्सर्पराज्ञिया ऋग्भिः स्तुवन्ति । अस्यामेव प्रतितिष्ठन्ति ३५

चतुर्होतॄन्होता व्याचष्टे । स्तुतमनुशँ सति शान्त्यै । अन्तो वा एष यज्ञस्य । यद्दशममहः । एतत्खलु वै देवानां परमं गुह्यं ब्रह्म । यच्चतुर्होतारः । दशमेऽहँ श्चतुर्होतॄन्व्याचष्टे । यज्ञस्यैवान्तं गत्वा । परमं देवानां गुह्यं ब्रह्मावरुन्धे । तदेव प्रकाशं गमयति ३६

तदेनं प्रकाशं गतम् । प्रकाशं प्रजानां गमयति । वाचं यच्छति । यज्ञस्य धृत्यै । यजमानदेवत्यं वा अहः । भ्रातृव्यदेवत्या रात्रिः । अह्ना रात्रिं ध्यायेत् । भ्रातृव्यस्यैव तल्लोकं वृङ्क्ते । यद्दिवा वाचं विसृजेत् । अहर्भ्रा-तृव्यायोच्छिँ षेत् । यन्नक्तं विसृजेत् । रात्रिं भ्रातृव्यायोच्छिँ षेत् । अधिवृ-क्षसूर्ये वाचं विसृजति । एतावन्तमेवास्मै लोकमुच्छिँ षति । यावदा-दित्योऽस्तमेति ३७


2.2.7.1 सप्तहोतृमन्त्राः

प्रजापतिः प्रजा असृजत । ताः सृष्टाः समश्लिष्यन् । ता रूपेणानुप्राविशत् । तस्मादाहुः । रूपं वै प्रजापतिरिति । ता नाम्नानुप्राविशत् । तस्मादाहुः । नाम वै प्रजापतिरिति । तस्मादप्यामित्रौ संगत्य । नाम्ना चेद्ध्वयेते ३८

मित्रमेव भवतः । प्रजापतिर्देवासुरानसृजत । स इन्द्र मपि नासृजत । तं देवा अब्रुवन् । इन्द्रं नो जनयेति । स आत्मन्निन्द्र मपश्यत् । तमसृजत । तं त्रिष्टुग्वीर्यं भूत्वानुप्राविशत् । तस्य वज्रः पञ्चदशो हस्त आपद्यत । तेनोदय्यासुरानभ्यभवत् ३९

य एवं वेद । अभि भ्रातृव्यान्भवति । ते देवा असुरैर्विजित्य । सुवर्गं लोकमायन् । तेऽमुष्मिँ ल्लोके व्यक्षुध्यन् । तेऽब्रुवन् । अमुतः प्रदानं वा उपजिजीविमेति । ते सप्तहोतारं यज्ञं विधायायास्यम् । आङ्गीरसं प्राहिण्वन् । एतेनामुत्र कल्पयेति ४०

तस्य वा इयं क्ळ्प्तिः । यदिदं किं च । य एवं वेद । कल्पतेऽस्मै । स वा अयं मनुष्येषु यज्ञः सप्तहोता । अमुत्र सद्भ्यो देवेभ्यो हव्यं वहति । य एवं वेद । उपैनं यज्ञो नमति । सोऽमन्यत । अभि वा इमेऽस्माल्लोकादमुं लोकं कमिष्यन्त इति । स वाचस्पते हृदिति व्याहरत् । तस्मात्पुत्त्रो हृदयम् । तस्मादस्माल्लोकादमुं लोकं नाभिकामयन्ते । पुत्रो हि हृदयम् ४१


2.2.8.1 होतृमन्त्राणां सोमयागाङ्गत्वम्

देवा वै चतुर्होतृभिर्यज्ञमतन्वत । ते वि पाप्मना भ्रातृव्येणाजयन्त । अभि सुवर्गं लोकमजयन् । य एवं विद्वाँ श्चतुर्होतृभिर्यज्ञं तनुते । वि पाप्मना भ्रातृव्येण जयते । अभि सुवर्गं लोकं जयति । षड्ढोत्रा प्रायणीयमासादयति । अमुष्मै वै लोकाय षड्ढोता । घ्नन्ति खलु वा एतत्सोमम् । यदभिषुण्वन्ति ४२

ऋजुधैवैनममुं लोकं गमयति । चतुर्होत्रातिथ्यम् । यशो वै चतुर्होता । यश एवात्मन्धत्ते । पञ्चहोत्रा पशुमुपसादयति । सुवर्ग्यो वै पञ्चहोता । यजमानः पशुः । यजमानमेव सुवर्गं लोकं गमयति । ग्रहान्गृहीत्वा सप्तहोतारं जुहोति । इन्द्रि यं वै सप्तहोता ४३

इन्द्रि यमेवात्मन्धत्ते । यो वै चतुर्होतॄननुसवनं तर्पयति । तृप्यति प्रजया पशुभिः । उपैनँ सोमपीथो नमति । बहिष्पवमाने दशहोतारं व्याचक्षीत । माध्यन्दिने पवमाने चतुर्होतारम् । आर्भवे पवमाने पञ्चहोतारम् । पितृयज्ञे षड्ढोतारम् । यज्ञायज्ञियस्य स्तोत्रे सप्तहोतारम् । अनुसवनमेवैनाँ स्तर्पयति ४४

तृप्यति प्रजया पशुभिः । उपैनँ सोमपीथो नमति । देवा वै चतुर्होतृभिः सत्त्रमासत । ऋद्धिपरिमितं यशस्कामाः । तेऽब्रुवन् । यन्नः प्रथमं यश ऋच्छात् । सर्वेषां नस्तत्सहासदिति । सोमश्चतुर्होत्रा । अग्निः पञ्चहोत्रा । धाता षड्ढोत्रा ४५

इन्द्रः सप्तहोत्रा । प्रजापतिर्दशहोत्रा । तेषाँ सोमँ राजानं यश आर्च्चत् । तन्न्यकामयत । तेनापाक्रामत् । तेन प्रलायमचरत् । तं देवाः प्रैषैः प्रैषमैच्छन् । तत्प्रैषाणां प्रैषत्वम् । निविद्भिर्न्यवेदयन् । तन्निविदां निवित्त्वम् ४६

आप्रीभिराप्नुवन् । तदाप्रीणामाप्रित्वम् । तमघ्नन् । तस्य यशो व्यगृह्णत । ते ग्रहा अभवन् । तद्ग्रहाणां ग्रहत्वम् । यस्यैवं विदुषो ग्रहा गृह्यन्ते । तस्य त्वेव गृहीताः । तेऽब्रुवन् । यो वै नः श्रेष्ठोऽभूत् ४७

तमवधिष्म । पुनरिमँ सुवामहा इति । तं छन्दोभिरसुवन्त । तच्छन्दसां छन्दस्त्वम् । साम्ना समानयन् । तत्साम्नः सामत्वम् । उक्थैरुदस्थापयन् । तदुक्थानामुक्थत्वम् । य एवं वेद । प्रत्येव तिष्ठति ४८

सर्वमायुरेति । सोमो वै यशः । य एवं विद्वान्त्सोममागच्छति । यश एवैनमृच्छति । तस्मादाहुः । यश्चैवं वेद यश्च न । तावुभौ सोममागच्छतः । सोमो हि यशः । तं त्वा व यश ऋच्छतीत्याहुः । यः सोमे सोमं प्राहेति । तस्मात्सोमे सोमः प्रोच्यः । यश एवैनमृच्छति ४९


2.2.9.1 होतृमन्त्रोत्पत्ति - जगत्सृष्टिः

इदं वा अग्रे नैव किं चनासीत् । न द्यौरासीत् । न पृथिवी ।नान्तरिक्षम् । तदसदेव सन्मनोऽकुरुत स्यामिति । तदतप्यत । तस्मात्तेपानाद्धूमोऽजायत । तद्भूयोऽतप्यत । तस्मात्तेपानादग्निरजायत । तद्भूयोऽतप्यत ५०

तस्मात्तेपानाज्ज्योतिरजायत । तद्भूयोऽतप्यत । तस्मात्तेपानादर्चिरजायत । तद्भूयोऽतप्यत । तस्मात्तेपानान्मरीचयोऽजायन्त । तद्भूयोऽतप्यत । तस्मात्तेपानादुदारा अजायन्त । तद्भूयोऽतप्यत । तदब्भ्रमिव समहन्यत । तद्वस्तिमभिनत् ५१

स समुद्रो ऽभवत् । तस्मात्समुद्र स्य न पिबन्ति । प्रजननमिव हि मन्यन्ते । तस्मात्पशोर्जायमानादापः पुरस्ताद्यन्ति । तद्दशहोतान्वसृज्यत । प्रजापतिर्वै दशहोता । य एवं तपसो वीर्यं विद्वाँ स्तप्यते । भवत्येव । तद्वा इदमा-पस्सलिलमासीत् । सोऽरोदीत्प्रजापतिः ५२

स कस्मा अज्ञि । यद्यस्या अप्रतिष्ठाया इति । यदप्स्ववापद्यत । सा पृथिव्यभवत् । यद्व्यमृष्ट । तदन्तरिक्षमभवत् । यदूर्ध्वमुदमृष्ट । सा द्यौरभवत् । यदरोदीत् । तदनयो रोदस्त्वम् ५३

य एवं वेद । नास्य गृहे रुदन्ति । एतद्वा एषां लोकानां जन्म । य एवमेषां लोकानां जन्म वेद । नैषु लोकेष्वार्तिमार्च्छति । स इमां प्रतिष्ठामविन्दत । स इमां प्रतिष्ठां वित्त्वाकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स जघनादसुरानसृजत ५४

तेभ्यो मृन्मये पात्रेऽन्नमदुहत् । यास्य सा तनूरासीत् । तामपाहत । सा तमिस्राभवत् । सोऽकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स प्रजननादेव प्रजा असृजत । तस्मादिमा भूयिष्ठाः । प्रजननाद्ध्येना असृजत ५५

ताभ्यो दारुमये पात्रे पयोऽदुहत । यास्य सा तनूरासीत् । तामपाहत सा जोत्स्नाभवत् । सोऽकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स उपपक्षाभ्यामेवर्तूनसृजत । तेभ्यो रजते पात्रे घृतमदुहत् । यास्य सा तनूरासीत् ५६

तमपाहत । सोऽहोरात्रयोः सन्धिरभवत् । सोऽकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽनतर्वानभवत् । स मुखाद्देवानसृजत । तेभ्यो हरिते पात्रे सोममदुहत । यास्य सा तनूरासीत् । तामपाहत । तदहरभवत् ५७

एते वै प्रजापतेर्दोहाः । य एवं वेद । दुह एव प्रजाः । दिवा वै नोऽभूदिति । तद्देवानां देवत्वम् । य एवं देवानां देवत्वं वेद । देववानेव भ्वति । एतद्वा अहोरात्राणां जन्म । य एवमहोरात्राणां जन्म वेद । नाहोरात्रेष्वा-र्तिमार्च्छति ५८

असतोऽधि मनोऽसृज्यत । मनः प्रजापतिमसृजत । प्रजापतिः प्रजा असृजत । तद्वा इदं मनस्येव परमं प्रतिष्ठितम् । यदिदं किं च । तदेतच्छ्वोवस्यसं नाम ब्रह्म । व्युच्छन्ती व्युच्छन्त्यस्मै वस्यसी वस्यसी व्युच्छति । प्रजायते प्रजया पशुभिः । प्र परमेष्ठिनो मात्रामाप्नोति । य एवं वेद ५९


2.2.10.1 इन्द्रस्य देवताधिपत्यम्

प्रजापतिरिन्द्र मसृजतानुजावरं देवानाम् । तं प्राहिणोत् । परेहि । एतेषां देवानामधिपतिरेधीति । तं देवा अब्रुवन् । कस्त्वमसि । वयं वै त्वच्छ्रेयाँ सः स्म इति । सोऽब्रवीत् । कस्त्वमसि वयं वै त्वच्छ्रेयाँ सः स्म इति मा देवा अवोचन्निति । अथ वा इदं तर्हि प्रजापतौ हर आसीत् ६०

यदस्मिन्नादित्ये । तदेनमब्रवीत् । एतन्मे प्रयच्छ । अथाहमेतेषां देवानामधिपतिर्भविष्यामीति । कोऽहँ स्यामित्यब्रवीत् । एतत्प्रदायेति । एतत्स्या इत्यब्रवीत् । यदेतद्ब्रवीषीति । को ह वै नाम प्रजापतिः । य एवं वेद ६१

विदुरेनं नाम्ना । तदस्मै रुक्मं कृत्वा प्रत्यमुञ्चत् । ततो वा इन्द्रो देवानामधिपतिरभवत् । य एवं वेद । अधिपतिरेव समानानां भवति । सोऽमन्यत । किंकिं वा अकरमिति । स चन्द्रं म आहरेति प्रालपत् । तच्चन्द्र मसश्चन्द्र मस्त्वम् । य एवं वेद ६२

चन्द्र वानेव भवति । तं देवा अब्रुवन् । सुवीर्यो मर्या यथा गोपायत इति । तत्सूर्यस्य सूर्यत्वम् । य एवं वेद । नैनं दभ्नोति । कश्च नास्मिन्वा इदमिन्द्रि यं प्रत्यस्थादिति । तदिन्द्र स्येन्द्र त्वम् । य एवं वेद । इन्द्रि याव्येव भवति ६३

अयं वा इदं परमोऽभूदिति । तत्परमेष्ठिनः परमेष्ठित्वम् । य एवं वेद । परमामेव काष्ठां गच्छति । तं देवाः समन्तं पर्यविशन् । वसवः पुरस्तात् । रुद्रा दक्षिणतः । आदित्याः पश्चात् । विश्वे देवा उत्तरतः । अङ्गिरसः प्रत्यञ्चम् ६४

साध्याः पराञ्चम् । य एवं वेद । उपैनँ समानाः संविशन्ति । स प्रजापतिरेव भूत्वा प्रजा आवयत् । ता अस्मै नातिष्ठन्तान्नाद्याय । ता मुखं पुरस्तात्पश्यन्तीः । दक्षिणतः पर्यायन् । स दक्षिणतः पर्यवर्तयत । ता मुखं पुरस्तात्पश्यन्तीः । मुखं दक्षिणतः ६५

पश्चात्पर्यायन् । स पश्चात्पर्यवर्तयत । ता मुखं पुरस्तात्पश्यन्तीः । मुखं दक्षिणतः । मुखं पश्चात् । उत्तरतः पर्यायन् । सा उत्तरतः पर्यवर्तयत । ता मुखं पुरस्तात्पश्यन्तीः । मुखं दक्षिणतः । मुखं पश्चात् ६६

मुखमुत्तरतः । ऊर्ध्वा उदायन् । स उपरिष्टान्न्यवर्तयत । ताः सर्वतोमुखो भूत्वावयत् । ततो वै तस्मै प्रजा अतिष्ठन्तान्नाद्याय । य एवं विद्वान्परि च वर्तयते नि च । प्रजापतिरेव भुत्वा प्रजा अत्ति । तिष्ठन्तेऽस्मै प्रजा अन्नाद्याय । अन्नाद एव भवति ६७


2.2.11.1 होतृमन्त्राणां पुरुषार्थाः

प्रजापतिरकामयत बहोर्भूयान्त्स्यामिति । स एतं दशहोतारमपश्यत् । तं प्रायुङ्क्त । तस्य प्रयुक्ति बहोर्भूयानभवत् । यः कामयेत बहोर्भूयान्त्स्यामिति । स दशहोतारं प्रयुञ्जीत । बहोरेव भूयान्भवति । सोऽकामयत वीरो म आजायेतेति । स दशहोतुश्चतुर्होतारं निरमिमीत । तं प्रायुङ्क्त ६८

तस्य प्रयुक्तीन्द्रो ऽजायत । यः कामयेत वीरो म आजायेतेति । स चतुर्होतारं प्रयुञ्जीत । आस्य वीरो जायते । सोऽकामयत पशुमान्त्स्यामिति । स चतुर्होतुः पञ्चहोतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्ति पशुमानभवत् । यः कामयेत पशुमान्त्स्यामिति । स पञ्चहोतारं प्रयुञ्जीत ६९

पशुमानेव भवति । सोऽकामयतर्तवो मे कल्पेरन्निति । स पञ्चहोतुः षड्ढोतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्त्यृतवोऽस्मा अकल्पन्त । यः कामयेतर्तवो मे कल्पेरन्निति । स षड्ढोतारं प्रयुञ्जीत । कल्पन्तेऽस्मा ऋतवः । सोऽकामयत सोमपः सोमयाजी स्याम् । आ मे सोमपः सोमयाजी जायेतेति ७०

स षड्ढोतुः सप्तहोतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्ति सोमपः सोमयाज्यभवत् । आस्य सोमपः सोमयाज्यजायत । यः कामयेत सोमपः सोमयाजी स्याम् । आ मे सोमपः सोमयाजी जायेतेति । स सप्तहोतारं प्रयुञ्जीत । सोमप एव सोमयाजी भवति । आस्य सोमपः सोमयाजी जायते । स वा एष पशुः पञ्चधा प्रतितिष्ठति ७१

पद्भिर्मुखेन । ते देवाः पशून्वित्त्वा । सुवर्गं लोकमायन् । तेऽमुष्मिँ ल्लोके व्यक्षुध्यन् । तेऽब्रुवन् । अमुतः प्रदानं वा उपजिजीविमेति । ते सप्तहोतारं यज्ञं विधायायास्यम् । आङ्गीरसं प्राहिण्वन् । एतेनामुत्र कल्पयेति । तस्य आ इयं क्ळ्प्तिः ७२

यदिदं किञ्च । य एवं वेद कल्पतेऽस्मै । स वा अयं मनुष्येषु यज्ञः सप्तहोता । अमुत्र सद्भ्यो देवेभ्यो हव्यं वहति । य एवं वेद । उपैनं यज्ञो नमति । यो वै चतुर्होतृणां निदानं वेद । निदानवान्भवति । अग्निहोत्रं वै दशहोतुर्निदानम् । दर्शपूर्णमासौ चतुर्होतुः । चातुर्मास्यानि पञ्चहोतुः । पशुबन्धः षड्ढोतुः । सौम्योऽध्वरः सप्तहोतुः । एतद्वै चतुर्होतृणां निदानम् । य एवं वेद । निदानवान्भवति ७३ २