प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ८

< तैत्तिरीयारण्यकम्(विस्वर)

8.1 हरिः ॐ ।

सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः इति ।

ॐ ब्रह्मविदाप्नोति परम्, इति । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान्कामान्त्सह । ब्रह्मणा विपश्चितेति, इति । तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः, इति । स वा एष पुरुषोऽन्नरसमयः, इति । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमु त्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा, इति ।

तदप्येष श्लोको भवति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके प्रथमोऽनुवाकः ।। १ ।।

8.2

अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपियन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नु- वन्ति । येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मा- त्सर्वौषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति, इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा, इति ।

तदप्येष श्लोको भवति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।

8.3 अथ तृतीयोऽनुवाकः ।

प्राणं देवा अनुप्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि श्रुतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा, इति ।

तदप्येष श्लोको भवति ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।

8.4 अथ चतुर्थोऽनुवाकः ।

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा, इति । तदप्येष श्लोको भवति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।

8.5 अथ पञ्चमोऽनुवाकः

विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद। तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्त्समश्नुत इति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽ- न्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविध ताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।

तदप्येष श्लोको भवति ।।

इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।

8.6(8.2?) अथाष्टमे षष्ठोऽनुवाकः ।

असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । अथातोऽनुप्रश्नाः इति । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता३ उ, इति । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत, इति । अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपियन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति, इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा, इति ।

तदप्येष श्लोको भवति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।

8.3(?) अथ तृतीयोऽनुवाकः ।

प्राणं देवा अनुप्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा, इति ।

तदप्येष श्लोको भवति ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।

8.4(8.6?) अथ चतुर्थोऽनुवाकः ।

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति, इति । यदिदं किंच । तत्सृष्ट्वा । तदेवानुप्राविशत्, इति । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किंच । तत्सत्यमित्याचक्षते ।

तदप्येष श्लोको भवति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।

8.7 अथ सप्तमोऽनुवाकः

असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदा- त्मानं स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । यद्वैतत्सुकृतम् । रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवाऽऽनन्दयाति । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अय तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य इति ।

तदप्येष श्लोको भवति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

8.8 अथाष्टमोनुवाकः

भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽ- स्वादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । सैषाऽऽनन्दस्य मीमांसा भवति, इति । युवा स्यात्साधुयुवाऽध्यायकः। आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुष आनन्दः, इति । ते ये शतं मानुषा आनन्दाः ( १) । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवग न्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितृणां चिरलो- कलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं पितृणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । ( २) । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽ- नन्दः ( ३) श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतमिन्द्रस्याऽऽनन्दाः । स एको बृहस्पतेरा- नन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजा- पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य (४), इति । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः, इति । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसंक्रामति । एतं प्राणमयमात्मानमुपसंक्रामति । एतं मनोमयमात्मानमुपसंक्रामति । एतं विज्ञानमयमात्मानमुपसंक्रामति । एतमानन्दमयमात्मानमुपसंक्रामति, इति । तदप्येष श्लोको भवति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।

8.9 अथ नवमोऽनुवाकः यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति, इति । एतं ह वाव न तपति । किमहं साधु नाकरवम् । किमहं पापमकरवमिति, इति । स य एवं विद्वानेते आत्मानं स्पृणुते, इति । उभे ह्येवैष एते आत्मानं स्पृणुते । य एव वेद, इति । इत्युपनिषत् ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके नवमोऽनुवाकः समाप्तः ।। ९ ।।

ब्रह्मविदिदमेकविंशतिरन्नादन्नरसमयात्प्राणो व्यानोऽपान आकाशः पृथिवी पुच्छं षड्विंशतिः प्राणं यजुर्ऋक्सामाऽऽदेशोऽथर्वाङ्गिरसः पुच्छं द्वाविंतिर्यतः श्रद्धर्तं सत्यं योगो महोऽष्टादश विज्ञानं प्रियं मोदः प्रमोद आनन्दो ब्रह्म पुच्छं द्वाविंशतिरसन्नेवाष्टाविंशतिरसत्षोडश भीषाऽस्मादेकपञ्चाशद्यतः कुतश्चैकादश । सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।। ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमोऽध्यायः समाप्तः ।। ८ ।।