प्रमुखा विकल्पसूचिः उद्घाट्यताम्
दत्तिलम्
रचयिता - दत्तिलमुनि
% dattilam
% dattilamuni
% Ed. K.Sambasiva Sastri
% Trivandrum Sanskrt Series No. XIV
% Trivandrum 1930
% Published under the authority of the Government of Her Highness the Maharani Regent of %Travancore
% Government Press , Trivandrum
%%Keyed in by : Vidya jayaraman


(प्रणम्य परमेशानं) ब्रह्माद्यांश्च गुरूंस्तथा ।
गान्धर्वशास्त्रसंक्षेपः सारतो’यम् मयोच्यते ॥१
गान्धर्वं नारदादिभ्यः प्रत्तमादौ स्वयम्भुवा ।
विधिवन्नारदेनाथ पृथिव्यामवतारितम् ॥२
पदस्थस्वरसंघातस्तालेन सुमितस्तथा ।
प्रयुक्तस्चावधानेन गान्धर्वमभिधीयते ॥३
लोकाद्विद्यात्पदा (हीनं? नीह) शब्दशास्त्राद्यनुग्रहात् ।
प्रसिद्धमवधानं तु सम्यग्बुद्ध्यादियोजनम् ॥४
द्वयमन्यदतो वाच्यमिह संक्षेपमिच्छता ।
तत्र स्वरगतं पूर्वं मेयत्वादुपदिश्यते ॥५
श्रुतयोऽथ स्वरा ग्रामौ मूर्छनास्तानसंयुताः ।
स्थानानि वृत्तयश्चैव शुष्कं साधारणे तथा ॥६
जातयश्चैव वर्णास्च नानालञ्कारसंयुताः ।
एष स्वरगतो(दे? द्दे)शः सम्क्षेपेणाथ निर्णयः ॥७
नृणामुरसि मन्द्रस्तु द्वाविम्शतिविधो ध्वनिः ।
स एव कण्तमध्ये स्यात् तारः शिरसि गीयते ॥८
उत्तरोत्तरतारस्तु वीणायांधरोत्तरः ।
इति ध्वनि(वि)शेषास्ते श्रवणाच्च्रुतिसंज्ञिताः ॥९
तेभ्यः कांश्चिदुपादाय गीयन्ते सर्वगीतिषु ।
आद्रीयन्ते च ये तेषु स्वरत्वमुपलभ्यते ॥१०
स्वराः षड्जादयः सप्त ग्रामौ द्वौ षद्जमध्यमौ ।
केचिद् गान्धारमप्याहुः स (तु) नेहोपलभ्यते ॥११
षड्जत्वेन गृहीतो यः षद्जग्रामे ध्वनिर्भवेत् ।
तत ऊर्ध्वं तृतीयः स्याद् ऋषभो नात्र संशयः ॥१२
ततो द्वितीयो गान्धारश्चतुर्थो मध्यमस्ततः ।
मध्यमात् पञ्चस्तद्वत् तृतीयो धैवतस्ततः ॥१३
निषादोऽतो (द्विती)यः (स्त?स्यात्) ततः षड्जश्चतुर्थकः ।
पञ्चमो मध्यमग्रामे मध्यमाद्यस्तृतीयकः ॥१४
एवं ध्वनिविशेषान् यः सर्वान् षड्जादिसंज्ञितान् ।
व्यवस्थितान्तरान् वेत्ति स वेत्ति स्वरमण्डलम् ॥१५
निषादः काकलीसंज्ञो द्विश्रु(त्युत्)कर्षणाद् भवेत् ।
गान्धारस्तद्वदेव स्यादन्तरस्वरसंज्ञितः ॥१६
अनंशत्वात्तु भेदेन स्वरता नोच्यते तयोः ।
अतो निशादगान्धारावे(दा? ता)वाप्तैरुदाहृतौ ॥१७
योऽत्यन्तबहुलो यत्र वादि वाम्शश्च तत्र सः ।
मि(थ)संह+नौ ज्ञेयौ त्रयोदशनवान्तरौ ॥१८
अतोऽनुवादिनः शेषा द्व्यन्तरौ तु विवादिनौ ।
स्वराम्श्चतुर्विधानेव जानियात् स्वरयोगवित् ॥१९
पञ्चमम् मध्यमग्रामे षड्जग्रामे तु धैवतम् ।
अनाशिनं विजानीयात् सर्वत्रैव तु मध्यमम् ॥२०
स्वरौ यावतिथौ स्यातां ग्रामयोः षड्जमध्यमौ ।
मूर्छना तावतिथ्येव तद्ग्रामावत एव तौ ॥२१
उत्तरमन्द्रा रजनी तृतीया चोत्तरायता ।
चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरी कृता ॥२२
अश्वक्रान्ता तु षश्टी स्यात् सप्तमी चाभिरुद्गता ।
स्वरक्रमगता विद्यात् सप्तैताः षड्जमूर्छना ॥२३
सौवीरी मध्यमग्रामे हरिणा(श्वा?ह्या) तथैव च ।
स्यात् कपोलनता चैव चतुर्थी शुद्धमध्यमा ॥२४
मान्दी च पौरवी चैव हृष्य(का) +++++ ।
+++ पञ्च षट् पूर्णसाधारणकृताः स्मृताः ॥२५
गान्धारं धैवतीकूर्याद् (व?द्वि) ष्रूत्यूत्कर्षणाद् यदि ।
तद्वशान्मध्यमादींश्च निषादादीन् यथास्थितान् ॥२६
ततोऽभूद् यावतिथ्येषा षड्जग्रामस्य मूर्छना ।
जायते तावतिथ्येव मध्यमग्राममूर्छना ॥२७
ष्रूतिद्वयापकर्षेण गान्धारीकृत्य धैवतम् ।
पूर्ववन्मध्यमाद्याश्च भावयेत् षद्जमूर्छना ॥२८
इत्येता मूर्छनाह् प्रोक्ताह् सरणाश्चैव वैशिकैः ।
संस्थाप्य मूर्छनामेवं +न्या वक्ष्यानुगः (?)क्रमः ॥२९
पङ्चस्वराः शट्स्वराश्च मूर्छना याः प्रकीर्तिताः ।
(तनाना?ताना) श्चतूरशीतिस्तू ता एवाप्तैरूदाहृताः ॥३०
अग्निष्टोमादिनामनस्त उक्ता नारदादिभिः ।
देवराघनयोगेन तत्पूण्योत्पादका यतः ॥३१
षड्जर्षभनिषादैश्च पञ्चमेन च षड्जगाः ।
षट्स्वरा मध्यमग्रामे गन्धारान्तैस्त्रिभिर्विना ॥३२
स्वग्राममूर्छना ह्येताः क्रियमाणाः पृथक् पृथक् ।
भवन्त्येकोनपञ्चाशदेवं पञ्चस्वरा अपि ॥३३
षड्जपञ्चमहीनश्च द्विश्रूतिभ्यां तथैव च ।
पञ्चमर्षभहीनश्च षड्जग्रामे त्रयः स्मृताः ॥३४
धैवतर्षभहीनश्च द्विश्रूतिभ्यां तथैव च ।
द्वावेतौ मध्यमग्रामे पञ्चत्रिंशदमी स्मृतः ॥३५
तानक्रिया द्विधा तन्त्र्यां प्रवेशान्निग्रहात् तथा ।
तत्र प्रवेशो ध्वन्यैक्यमसंस्पर्शस्तू निग्रहः ॥३६
एवं कृतेऽपि तानत्वे गणयित्वा विनाशिनम् ।
विद्वानेतावतिथ्येषा मूर्छनेत्यवधारयेत् ॥३७
क्रममूत्सृज्य तन्त्रीणां तननैर्मूर्छनास्तू याः ।
पूर्णाश्चाइवाप्यपूर्णाश्च कूटतानास्तू ते स्मृताः ॥३८
पूर्णाह् पञ्चसहस्राणि त्रयस्त्रिम्शच्च संख्यया ।
कथयन्ति प्रतिग्राममूपायो गणनेऽधूना ॥३९
हन्यादननन्तरायेण पूर्वा(या?य)स्य क्रमोत्क्रमात् ।
गूणकारसमास्तत्र क्रमाह् शेषाह् स्युरुत्क्रमाः ॥४०
साप्तस्व (र्यां ? र्यं)तू सप्तानामेकैका भजते यतः ।
अत एकोनपञ्चाशत् कैश्चित् कूटैः सहोदिताः ॥४१
अथ स्थानानि येषूक्तो द्वाविम्शतिविधो ध्वनिः ।
व्यस्तानि तानि षट्षष्टिं विद्यान्मन्द्रादिसिद्धये ॥४२
दक्षिणो वृत्तिचित्राश्च वृत्तयस्तास्वयं विधिः ।
प्रधानं गीतमुभयं वाद्यं चेति यथाक्रमम् ॥४३
यद् वृत्तिषू(त्त ? क्त) माचार्यैर्वीणावाद्यादिलक्षणम् ।
तद् ग्रन्थविस्तरभयादिह नोदाहृतं मया ॥४४
वाद्यं यद् गीतवृत्तिस्थमगीतं संप्रयुज्यते ।
वैचित्र्यार्थप्रयोगज्ञाइः शुष्कं तदभिधीयते ॥४५
साधारणे तू विज्ञेये स्वरजात्यूपलक्षिते ।
स्वरमध्ये तयोः पूर्वं तत्काकल्यन्तरऊ स्वरऊ ॥४६
जात्यन्तरेण सदृशं यज्जातावूपलभ्यते ।
एकग्रामे च बाहूल्याज्जातिसाधारणं तू तत् ॥४७
जातयोऽष्टादश ज्ञेयास्तासां सप्तस्वराख्यया ।
शूद्धाश्च विकृताश्चैव शेषास्तत्सञ्करोद्भवाः ॥४८
षड्जाया मध्यमायाश्च संसर्गात् षड्जमध्यमा ।
षड्जायास्त्वथ गान्धार्या जायते षड्जकैशिकी ॥४९
तयोरेव सधैवत्ये षड्जोदीच्यवती भवेत् ।
आसाम् समध्यमानां तू गान्धारोदीच्यवा भवेत् ॥५०
गान्धार्या मध्यमायाश्च पञ्चम्याश्चैव सञ्करात् ।
सधैवतीनामासां तू मध्यमोदीच्यवा भवेत् ॥५१
आसां स्याद् रक्तगान्धारी नैषादी चेच्चतूर्थिका ।
आर्षभ्यास्तू भवेदन्ध्री गान्धार्यास्चैव सञ्कगत् ॥५२
अनयोस्तू सपञ्चम्योर्नन्दयन्ती प्रजायते ।
सनिषादास्तु गान्धार्यः कूर्युः कार्मारवीमिमाः ॥५३
गान्धारी पञ्चमी चैव तथा गान्धारपञ्चमी ।
आर्षभीधैवतीवर्जाह् कैशिकीमिति सञ्करा ॥५४
ग्रहांशऊ तारमन्द्रऊ च षादवऊडूविते क्रमात् ।
अल्पत्वं च बहूत्वं च न्यासोऽपन्यास एव च ॥५५
एवमेतद् यथाजाति दशकं जातिलक्षणम् ।
लक्षणं दशकस्यास्य संक्षेपेणाभिधीयते ॥५६
तत्र ग्रहस्तू गीतादिस्वरोऽंशः पूर्वकीर्तितः ।
पञ्चस्वरपरस्तार ऊच्चैरंशादिहेष्यते ॥५७
आ षड्जान्नन्द्यन्त्यां तू वरो नातह् प्रशस्यते ।
मृदुरंशपरो मन्द्रो न्यासान्तस्तपरोऽपि वा ॥५८
षट्पञ्चस्वरके गीते षाडवौडुविते क्रमात् ।
अल्पत्वं च बहुत्वं च प्रयोगाल्पबहुत्वतः ॥५९
गीतकान्त्यस्वरो न्यासो विदारीमध्यगस्तथा ।
न्यासवत् स्यादपन्यासो यथाजाति ब्रवीम्यहम् ॥६०
यं विना हीनता यस्याः स्याच्चेत् तस्यां तु सोऽल्पक ।
अंशाड्यमन्यन्यासस्तु स्वरजातिषु नामकृत् ॥६१
तद्ग्रहा तदपन्यासा तदंशा च यदा भवेत् ।
मन्त्रन्यासा च पूर्णा च शुद्धा जातिस्तदोच्यते ॥६२
अंशाः स्युः पञ्च षड्जाया निषादर्षभवर्जिताः ।
अपन्यासस्तु (गान्धारः पञ्चमश्चाथ सङ्गतिः ॥६३
षड्ज) गान्धारयोस्तु स्यात् षड्ज धैवतयोस्तथा ।
षाडवत्वं निषा(दः?दे)स्यान्नास्यामौडुवितं भवेत् ॥६४
आर्षभ्यास्तु स्मृता अंशा निषादर्षभधैवताह् ।
षड्जपञ्चमहीने च षाडवे +++++ ॥६५
धैवत्यां गुरुभिः प्रोक्तावंशावृषभधैवतौ ।
समध्यमावपन्यासौ प्रागुक्ता हीनतोत्क्रमात् ॥६६
अंशौ निषादवत्यास्तु द्विश्रुती सर्षभौ स्मृतौ ।
धैवतीवद् भवे(च्छेषो न्यासो नामकृदेव तु) ॥६७
अंशाः स्युः षड्जकैशिक्यां षड्जगान्धारपञ्चमाः ।
सनिषादास्तु गान्धारा अपन्यासास्त एव तु ॥६८
ऋषभोऽल्पप्रयोगः स्यान्न्यासो गान्धार इष्यते ।
नित्यं पूर्णस्वरा चेयमाचार्यैः परिकीर्तिता ॥६९
स्यात् षड्जोदीच्यवत्यंशैः षड्जमध्यमधैवतैः ।
सनिषादैरपन्यासौ विज्ञेयौ षद्जधैवतौ ॥७०
ऋषभेण विहीनेयं द्वाभ्यां चेत् पञ्चमेन च ।
मन्द्रगान्धारभूयस्त्व*मस्या न्यासस्तु मध्यमः ॥७१
सप्तांशः षड्जमध्याया न्यासौ वै षड्जमध्यमौ ।
क्रमान्निषादगान्धारावस्यां हीनत्वकारिणौ ॥७२
यथेष्टं स्याच्च सञ्चारो यथा ग्रामाविरोधकृत् ।
षड्जग्रामे तु सप्तैताः शेषा मध्यमजातयः ॥७३
गान्धार्या द्वावनंशौ तु हेयावृषभधैवतौ ।
क्रमान्नित्यमपन्यासौ विज्ञेयौ षड्जपञ्चमौ ॥७४
धैवतादृषभं गच्छेदेवं स्यात् सर्वमेव तु ।
प्रायशो रक्तगान्धार्या अपन्यासस्तु मध्यमः ॥७५
बहुप्रयोगः कर्तवयो धैवतोऽथ निषादवान् ।
षड्जगान्धारसञ्चारः कार्याश्चासां प्रयोक्तृभिः ॥७६
गान्धारोदीच्यवा प्रायः षड्जोदीच्यवतीसमा ।
षड्जश्च मध्यमश्चांशौ नचौडुवितमिष्यते ॥७७
पञ्चांशा मध्यमायास्तु ज्ञे(यो?या)द्विश्रुतिवर्जिताः ।
क्रमात् ताभ्यां च हीनत्वं बहुलौ षड्जमध्यमौ ॥७८
गान्धारोदीच्यवावत् तु मध्यमोदीच्यवा भवेत् ।
साप्तस्वर्यं तु नित्यं स्यादस्यामंशश्च पञ्चमः ॥७९
पञ्चम्यां गुरुभिः प्रोक्तावंशा वृषभ* पञ्चमौ । --> 'मपन्यासस्तु' इति, मुद्रिता बृहद्देशी (पृष्ट ३१)
सनिषादावपन्यासौ मध्यमर्षभसञ्गतिः ॥८०
षड्जमध्यमगान्धारा अल्पास्तु परिकीर्तिताः ।
स्यान्नि(षादा)च्च गान्धारो मध्यमावच्च हीनता ॥८१
ज्ञे(यौ?यो)गान्धारपञ्चम्यां पञ्चमोंशः प्रयोक्तृभिः ।
सर्षभः स्यादपन्यासो न्यासो गान्धार इष्यते ॥८२
गान्धा(र्य?र्या) मथ पञ्च(म्या?म्यां)यत् सञ्चारादि कीर्तितम् ।
तदस्यामपि विज्ञेयं किन्तु पूर्णस्वरा सदा ॥८३
अन्ध्रयामनंशा विज्ञेयाः षड्जमध्यमधैवता ।
षाडवं षड्जहीनं तु न्यासो गान्धार इष्यते ॥८४
नन्द्यन्त्यामपन्यासौ ज्ञेयौ मध्यमपञ्चमौ ।
ग्रहो न्यासश्च गान्धारः पञ्चमोंशः प्रकीर्तितः ॥८५
अन्ध्रीवत् षाडवं ज्ञेयमनौडुवितमेव च ।
स्यान्मन्दर्षभसञ्चारो लञ्घनीयश्च स क्वचित् ॥८६
कर्मारव्यामनंशास्तु षड्जगान्धारपञ्चमाः ।
पूर्णता पञ्चमो न्यासो गान्धार (गमनं) बहु ॥८७
कैशिक्यामृषभोऽनंशो न्यासौ तु द्विश्रुती स्मृतौ ।
ऋषभो धैवतश्चैव हेयावस्यां यथाक्रमम् ॥८८
पञ्चमोऽपि भवेन्न्यासो निषादांशो (तथै?ऽथ धै)वते ।
ऋषभः स्यादपन्यासः कै(श्चि) दुक्तोऽंशवत् तथा ॥८९
पञ्चमो (ब)लवानस्यां स्यान्निषादस्तथैव च ।
इति त्रिषष्टिरंशा ये तेषामेकैकशोऽंशताम् ॥९०
---------------
ऽधैवतो । समध्यमावपऽ (पृष्त ६२) इति मुद्रिता बृहद्देशी
प्रकल्प्यापोद्यते प्राप्तं षाडवौडुवितं क्वचित् ।
अषाडवा निशादे’ंशे सति (स्यात्) षड्जमध्यमा ॥९१
गान्धारे च यतो लोपो नांशसंवादिनोर्मतः ।
कैशिकी रक्तगान्धारी (गान्धारी)चैव पञ्चमे ॥९२
तथा षाड्जी तु गान्धारे धैवते तदुदीच्यवा ।
गान्धारीरक्तगान्धार्योः षड्जमध्यमपञ्चमाः ॥९३
सनिषादाः स्मृता अंशा अनौडुवितभागिनः ।
षड्जमध्यमजातौ तु गान्धारोऽथ निषादवान् ॥९४
कैशिक्यामथ पञ्चम्यां क्रमशो धैवतर्षभौ ।
योज्यं सप्ताधिकेष्वेवं चत्वारिंशत्सु षाडवे ॥९५
अपवादिविनिर्मुक्तत्रिंशदौडुवितं भवेत् ।
सङ्करे रूपबाहुल्यं जातिनिर्देश इष्यते ॥९६
तस्माद् यद् गीयते किञ्चित् तत् सर्वं जातिषु स्थितम् ।
अथ वर्णास्तु चत्वारो ज्ञेया अन्वर्थसंज्ञया ॥९७
स्थायिसंचारिणौ चैव तथारोह्यवरोहिणौ ।
एकस्वरा पदे गीतिः स्थायिवर्णोऽभिधीयते ॥९८
सञ्चारी स्वरसञ्चाराद् यथार्थौ चोत्तरा(अ?व)पि ।
वर्णाश्रयास्तु विज्ञेया अलङ्कारास्त्रोयदश ॥९९
नामतो रूपतश्चैव संक्षेपेण ब्रवीमि तान् ।
प्रसन्नं पूर्वमुच्चार्य शनैः सन्दीपयेत् स्वरम् ॥१००
प्रसन्नादिर्भवेदेवं प्रसन्नान्तो विलोमतः ।
एवं प्रसन्नमध्यश्च प्रसन्नाद्यन्त एव च ॥१०१
एते स्थायिन्यलञ्काराश्चत्वारः परिकीर्तिताः ।
क्वचित् स्वरे चिरं स्थित्वा स्पृष्ट्वा (सा?ता)रं ततोऽग्निवत् ॥१०२
प्रत्यागच्छेत्तु तत्रैव बिन्दुरेषोऽभिधीयते ।
स्यान्निवृत्तप्रवृत्ताख्यस्तद्वन्मन्द्रं स्पृशेद् यदि ॥१०३
प्रेञ्खोलितं द्वयोर्विद्यात् तुल्यकालं गतागतम् ।
क्रमेण परमं (तरमन्तां?तारं) गत्वा मन्द्रपतेत् ततः ॥१०४
तारमन्द्रप्रसन्नो’यमलञ्कारोऽभिधीयते ।
मन्द्रादुत्पतितस्तारं क्रमेणैवावरोहति ॥१०५
मन्द्रतारप्रसन्नो’यम् सर्वसाम्यात् समो भवेत् ।
उरः कण्ठशिर (स्त? स्थ) त्रिश्रुतेः कम्पनाद्भवेत् ॥१०६
कम्पितं हरितं चैव रेचितं च यथाक्रमम् ।
एषां च पञ्च बि(म्बा?न्द्वा)द्या नित्यं सञ्चारि संश्रयाः ॥१०७
(आ?प्र) सन्नादिः प्रसन्नान्तो ++++ वरोहिणी ।
शेषा अपि यथायोगं सर्ववर्णाश्रयाः स्मृताः ॥१०८
इति श्लोकशतेनेदमुक्तं (स्वरगतं स्फुतम्) ।
अथ तालं प्रवक्ष्यामि ++++++++ ॥१०९
तालात् साम्यं भवेत् साम्यादिह सिद्धिः परत्र च ।
तत्र ज्ञेयाः कलाः पाताः पादभागास्तथैव च ॥११०
मात्रा च परिवर्तश्च वस्तु चैव विशेषतः ।
विदार्यञ्गुलयाः पाणिर्यतिः प्रक+++ ॥१११
+++++ वज्रा च गीतिमार्गश्च शास्त्रतः ।
इत्युद्देशः पदार्थानां ज्ञेयस्तालगतो बुधैः ॥११२
संक्षेपेणाथ वक्ष्यामि सूक्ष्ममेषां विनिर्ण्यम् ।
तत्रावापोऽथ निष्क्रामो (विक्षेपश्च प्रवेशनम्) ॥११३
श(म्या) तालश्च वि(ज्ञे)यः सन्निपातश्च सप्तमः ।
कैशिचिन्निमेषकाले+कला सप्तविधोदिता ॥११४
लयस्थित्या च मार्गेषु कल्पितं तैः कलान्तरम् ।
सर्वा चेयं कला येषां घण्टानादवता ++ ॥११५
(ते)षां म++ मार्गेषु विशेषोऽयं कलाश्रयः ।
द्विमात्रा स्यात् कला चित्रे चतुर्मात्रा तु वार्तिके ॥११६
अष्टमात्रा तु विद्वद्भिर्दक्षिणे समुदाहृता ।
मात्रा तु लौकिकी नेह किन्तु पञ्चगुणा(त्?)ततः ॥११७
तया कार्यं कलामानं प्रयोगोऽथ नियम्यते ।
आवापसंज्ञकं ज्ञेयमुत्तानाङ्गुलिकुञ्चनम् ॥११८
अधस्तलेन हस्तेन निष्क्रामाख्यं प्रासारणम् ।
तस्य दक्षिणतः क्षेपो विक्षेपः परिभाषितः ॥११९
अथ चाकुञ्चनं ज्ञेयं प्रवेशाख्यमधस्तलम् ।
शम्या दक्षिणापातस्तु तालो वामस्तु कीर्तितः ॥१२०
उभयोर्हस्तयोः पातः सन्निपात इति स्मृतः ।
एवमेते त्रयः पाताः कला++++++ ॥१२१
++++ प्तविध्येऽपि त्रिकलायां प्रयोजयेत् ।
कलानां समुदायोऽथ युग्मोऽयुग्मोऽथवा भवेत् ॥१२२
युग्मश्चच्चपुटस्थः स्यादयु(क्ता?क् चा) चपुटाश्रयः ।
तालाक्षराणामेतेषां संस्थाप्य गु(रुलाघवम्) ॥१२३
युग्मान्त्यं प्लुतवत् कृत्वा कलायोगं प्रकल्पयेत् ।
कलां गुरुणि युञ्जीत लघुन्यर्धकलां तथा ॥१२४
प्लुते सार्धकलामेवं भवेदेककलो विधिः ।
यथाक्षरेषु योक्तव्याः पाता एते(यथा)क्रमम् ॥१२५
सन्निपातश्च शम्या च तालः शम्या तथैव च ।
एष पातविधिर्ज्ञेयो युग्मे चायुग्म एव च ॥१२६
शम्याताल + युग्मे द्विस्तालः शम्यमथापि वा ।
उत्तरः पञ्चपाणयाख्यः षट्पिता पुत्रकाक्षरः ॥१२७
अयु(ग्म?ग्मो)त्थः प्लुता(त्य?द्य)न्तस्तथा चाहात्रकोहलः ।
द्वौ तु चाचपुटौ कृत्वा द्वितीयोपान्त्यके क्रमात् ॥१२८
आद्यन्तयोर्नियुज्यैनं षट्पितापुत्रकं विदुः ।
सन्निपातश्च तालश्च तस्याद्यन्तौ यथाक्रमम् ॥१२९
द्विर्मध्ये (?)तालशम्ये च ++ दिभ्यो +लाविधिः ।
गुरुप्लुतानि हित्वाथ द्विमात्रान् परिकल्पयेत् ॥१३०
पादभागांश्चतुर्भिर्स्तैर्मात्रेति परिभाष्यते ।
आद्यम् प्रकल्प्य निष्क्रामं द्वितीयं तु प्रवेशनम् ॥१३१
सर्वेषां पादभागानां ततः पा(दा?ता)न् प्रकल्पयेत् ।
शम्या द्वितीया कर्तव्या तालशम्ये तु मध्यमे ॥१३२
सन्निपातोऽवसाने च द्विककलो’यं विधिः स्मृतः ।
पञ्चपाणेश्चतुर्थीं तु शम्या कार्या तथाष्टमी ॥१३३
तृतीया षष्टनवमा(?) तालाः शेषं यथोचितम् ।
विन्यस्य मध्ये विक्षेपमादावावापमेव च ॥१३४
सर्वेषां पादभा(वा?गा)नां प्रयुङ्जीत चतुष्कलम् ।
आद्यद्वितीयमाद्यन्तात् पादभागाद् विदुः क्रमात् ॥१३५
++++मिकायुक्ता मध्यमाद् देशीनीगतान् ।
अयु+++हीनं स्यादाद्यन्ता+क उत्तरः ॥१३६
निष्क्रामश्च प्रवेशश्च द्विकले परिकीर्तितौ ।
एवं कालादि योक्तव्यं विशेषो यत्र नोच्यते ॥१३७
पादभागोऽथ मात्रा वा समस्तस्ताल एव वा ।
गीयते परिव++++ पत्तः स उच्यते ॥१३८
यथा+++षण्मात्रास्तिस्त्रोऽध्यर्धापि वा भवेत् ।
केचित् प्राधान्यमात्रेण वस्तुसंज्ञांप्रचक्षते ॥१३९
अपन्यासोऽथ वस्त्वन्ते स्यादंशो न्यास एव वा ।
सन्न्यासोवाथ तस्याद्ध्ररूपं वि(?)++++आ॒ ॥१४०
प्रथमा (पादे ? या विदा ) र्याया मध्ये न्यासत्वभाक् स्वरः ।
न चेदंशविवादी स्यात् सन्न्यासः सोऽभिधीयते ॥१४१
पदगीतिः समाप्तौ या पृथग्गीतिरिव स्थिता ।
गीतपेशीं विदारीं तामाहुर्गीतविदारणाम् ॥१४२
प्रमाणव(र्ज्यं?र्जं) तस्यास्तु रूपं वस्तुवदिष्यते ।
वक्ष्यमाणं मुखाद्यङ्गं विज्ञेयं(च)चतुर्विधम् ॥१४३
एककं चावगाढं च प्रवृत्तं विविधं तथा ।
न्यासान्तमपि वांशान्तं विदार्येकैकसं (स्मृ?श्रि)तम् ॥१४४
अवरोह्यवगाढं तु प्रायशोंऽशान्तमिष्यते ।
विदार्यो +++++ स्वरेष्वेकान्तरेषु वा ॥१४५
एवं न्यासान्तमारोहि प्रवृत्तमभिधीयते ।
आरोहणं तु विविधं तथा चैवावरोहणम् ॥१४६
न्यासापन्यासयोगेन भवेदन्तरमार्गतः ।
शुद्धास्वंशवशात् तत्रा ज्ञेय(म)न्तरमार्गतः ॥१४७
न्यासापन्यासयोगेन विकृतासु च जातिषु ।
सामुद्गोऽथार्धसामुद्गो विवृद्धश्च यथाभिधः ॥१४८
समो मध्योऽथ विषमो विविधास्त्रिविधः स्मृतः ।
वाङ्मात्रा सा महागीतिः समुद्गो विविधो भवेत् ॥१४९
(असं)पूर्णविदार्यादिसाम्यं चैव प्रकल्पयेत् ।
न्यासान्तो विविधः सर्वो मु(क्त्या?क्त्वा) द्वैगेयकं भवेत् ॥१५०
नित्यं च द्विविदारिका पूर्वो ज्ञेये तु षट्परे(?) ।
१५१अब्॒ अथ त्रयो लयाः सिद्धा दृतमध्यविलम्बिता
++++दिरेतेषां प्रयोगो दक्षिणादिषु ।
समोपर्यवपूर्वस्तु पाणिस्त्रिविध इष्यते ॥१५२
तत्र तालं च पाणिं च प्राहुरेकं मनीषिणा ।
समं चोपरिपातस्तु यद्वाधः संस्थितं भवेत् ॥१५३
+द्यां पदानि वर्णो वा तदेवमभिधीयते ।
लययातं यतिः प्रोक्ता चित्रादि(षु)यथाक्रमम् ॥१५४
समा स्रोतोगता चैव गोपुच्छा च यथाक्रमम् ।
अथ प्रकरणं नाम मद्रकाद्यभिधीयते ॥१५५
कुलकं छेद्यकं चैव द्विविधं तत् प्रचक्षते ।
(एकवाक्य)न्तु कुलकं त(द्) द्वर्थमपि वा पुनः ॥१५६
नानार्थं छेद्यकं ज्ञेयमेकैकं त्रिविधं पुनः ।
निर्युक्तं पदनिर्युक्तमनिर्युक्तं तथैव च ॥१५७
तत्र (स)र्वैस्तु नियमैर्युक्तं निर्युक्तमिष्यते ।
छन्दःपादादिनिर्योगात् पदनिर्युक्तसंज्ञितम् ॥१५८
वस्तुमात्रमनिर्युक्तमिदानीं विधिरुच्यते ।
अनादेशे तु सर्वत्र कर्तव्यः स चतुष्कलः ॥१५९
वस्त्वन्ते सन्निपातश्च सप्तरूपविधौ सदा ।
केचित्तु मद्रकादीनि विधिष्वेककलादिषु ॥१६०
आहुस्तालाक्षराण्येषां कल्पयन्त्यपराणि तु ।
त्रिमात्रं वस्तु संस्थाप्य मद्रकस्य प्रयोगवित् ॥१६१
एतेषु पादभागेषु पातानेतान् प्रकल्पयेत् ।
चतुर्थे चाष्टमे चैव पञ्चमे दशमे तथा ॥१६२
एकादशो च शम्यान्त्या द्वितीया नवमे स्मृता ।
षष्टसप्तमयो+++लोऽथ नवमस्य च ॥१६३
++स्तु द्वादशस्य स्याद् द्वितीयः पूर्वयोस्ततः ।
एवं त्रिचतुराणि स्युर्वस्तून्यन्तेऽथ शीर्षकम् ॥१६४
भवेद् अस्तु कलासंख्यं पञ्चपाणिस्थमेव वा ।
आदावष्टकलं कार्यं(य)थामार्गमुपो(ह?हनं) ॥१६५
त्रिकलं तु प्रयुञ्जीत म्द्रके द्विकले सदा ।
प्रत्युपोहनमप्येव ह्यवरं च चतुष्परम् ॥१६६
स्याद् द्वितीयादिवस्त्वादौ मद्रके तु चतुष्कले ।
अत्रैवांशादिरंशान्तः सामुद्गो विविधो भवेत् ॥१६७
+++न्ते तृतीये’थ स द्वैगेयकसंज्ञितः ।
मन्द्रांश प्रथमं वस्तु द्वितीयं तु यथाग्रहम् ॥१६८
तृतीयमाहुराचार्याः परिवर्तसमाप्तिकम् ।
१६८अब्॒ +++न्ते तृतीये’थ स द्वैगेयकसंज्ञितः
अस्यैवा+++++निष्क्राममेव च ॥१६९
प्रतिवस्तु विहाय स्या(शशे?च्छे)षं द्विकलम(त्रको?न्द्रके) ।
भवेदेककले तस्य पञ्चपाणौ तु शीर्षकम् ॥१७०
विविधैककसंयुक्तमुभयत्राञ्गकल्पनम्
इति मन्द्रके समाप्तम्
अथ वस्तूनि षट् सप्त पञ्च वाप्यपरान्तके ।
१७२अब्॒ स्याच्छाखाद्यर्धमात्राणि तेष्वेवं पातकल्पना
अष्टमी विंशिका चैव द्वे शम्ये परिकीर्तिते ॥१७२
द्वादशाष्टादशौ तालावेकविंशतिमस्तथा ।
उपोहनं (या? यथा) मार्गमादावाद्यस्य वस्तुनः ॥१७३
कला द्वादश कर्तव्याश्चतस्र इतरादिषु ।
वृत्त्मार्गे प्रयुञ्जीत द्वे वा दक्षिणमार्गके ॥१७४
नवाप्युपोहनानि स्युर्मध्ये स्रोतोगतायति ।
तत्रोपवर्तनं कार्यं गते वास्तुचतुष्टये ॥१७५
पूर्वातीतानिवृत्तैस्तु पदैस्तदुपपादयेत् ।
पूर्वतुल्यं तु गीत्या स्यादुत्तरे तद् यथा(स्ति?स्थि)ते ॥१७६
तस्यान्तेऽर्थसमाप्तिं च न्यासं चाह विशाखिलः ।
एवमेव शिरोन्ते स्यात् प्रतिशाखा ततः परम् ॥१७७
शाखावत् प्रतिशाखा च भवेदन्यपदा तु सा ।
तालिकाख्यस्तयोरन्त्यः कलाषट्को निवृत्तिमान् ॥१७८
अस्याङ्गेषु यथायोगं योक्तव्ये विविधैकके ।
इति अपरानतकं समाप्तं
अदावल्लोप्यकस्याथ मात्राभिपरितै(?)र्युता ॥१७९
चतुर्थदशमे शम्ये तालौ तु द्वादशाष्टमौ ।
सन्निपातो’वसाने च प्रस्तारओ यश्चतुष्कले ॥१८०
मात्रेयं द्विकले’पि स्याद् युक्ता पातैर्यथास्थितैः ।
कलाद्वादशकं चात्र वैहायसिकसंज्ञितम् ॥१८१
द्विकलैककलोन्मिश्रो युग्मपातैस्तु सप्तभिः ।
कृत्वा प्रवेशनिष्क्रामौ शम्यातलस्तृतीयकम् ॥१८२
कुर्यदुत्तमनिष्क्रमसन्निपातश्च पूर्ववत् ।
शम्यादिः सन्निपातान्तः प्रागुक्तैककलोद्भवे ॥१८३
शाखेयं प्रतिशा(खे?खा)च भवेदन्यपदानु(सा?गा) ।
अस्य संहरणं च स्यादुत्तरे तद्यथास्थिते ॥१८४
अन्ताहरणसंज्ञस्तु त्रयञ्गोऽन्तस्त्रिविधः स्मृतः ।
(त्रि?वि) विधो युग्युञ्भि (श्रा?श्र) स्त्रयंशोऽञ्गैरोभिरिष्यते ॥१८५
स्थितमञ्गं प्रवृत्तं च महाजनिकमेव च ।
तत्र स्याद् (वि?द्वि) कले चाङ्गे स्थितं त्र्यश्रस्य षट्कलम् ॥१८६
निस्शब्दा तु कला तत्र चतु (र्थद्य?र्थ्यन्य) द्यथोचितम् ।
युक्तमेकक(लो?ले)नात्र प्रवृत्तं पञ्चपाणिना ॥१८७
स्थितवत्तु निवृत्तयन्तं महाजनिकमिष्यते ।
तत्र स्याद् द्विकले योगे स्थितं चचच्चत्पुटाश्रयम् ॥१८८
निश्शब्दा पञ्चमी तत्र कला शेषं यथोदितम् ।
निष्क्राम एकः शम्ये द्वे तालादिर्युग्म एव च ॥१८९
आहार्यः सन्निपातश्च प्रवृत्तिमिह कीर्तितम् ।
इद++निवृत्त्यन्तं परं च स्थितवत्तु तत् ॥१९०
इति युग्मौजमिश्रत्वा(नु?दु)भयोर्मिश्रतोच्यते ।
आहुर्युग्मप्रवृत्ताख्यमुद्धट्टाख्यं कलात्रयम् ॥१९१
उपवर्तनसंज्ञं तत् प्रवृत्तं कैश्चिदिष्यते ।
अथाङ्गविधिरस्यादौ विविधो मुखसंज्ञितः ॥१९२
विविधो वा प्रवृत्तं वा नवप्रतिमुखं भवेत् ।
वैहायसिकमङ्गैः स्यादेकाद्यैः षट्पदैर्युतम् ॥१९३
विविधाः स्युरतोन्यानि समस्तान्येकका(नि)वा ।
एवमङ्गैरुपाङ्गैश्च विंशत्यंशमिदं परम् ॥१९४
षडङ्गमवरं ज्ञेयं तच्च तालसमाप्तिकम् ।
उल्लोप्यकं समाप्तम्
अथ वस्तु प्रकर्याः स्यात् षण्मात्रं वा तु शोभितम् ॥१९५
शम्यान्तास्त्र मात्राः स्युर्द्वितीयान्त्यविवर्जिताः ।
द्वितीयायाश्चतुर्थ्याश्च पञ्चम्याश्च यथाक्रमम् ॥१९६
ताला गुरुभिराख्याताः षोडशद्वादशाष्टमाः ।
ततो द्वैकलम्द्रक्यः कलाभ्यां तास्तु षोडश ॥१९७
इति वस्तूनि चत्वारि त्रीणि सार्धान्यथापि वा ।
त्रीणि चार्धानि चेदर्धमादौ दक्षिणमार्गके ॥१९८
यदा तदपि वृत्तौ स्यात् पूर्णमेवभवेत् तदा ।
उपोहनं च तत्राद्यं स्मृतं चार्थविवर्जितम् ॥१९९
उभयोः पक्षयोस्तत्र कर्तव्ये विविधेकके ।
वस्तुन्यन्त उपान्त्याया मात्रायां गमनान्तरम् ॥२००
आसारितं कनीयः स्यादिति सङ्ग्रहणं स्मृतम् ।
प्रकरी समाप्तम्
अथ नानापदौ पादौ तुल्यगीत्यादिलक्षणौ ॥२०१
पृथगोवेणकस्य स्यादपरान्तकवस्तुवत् ।
द्विकलो भाषघाताख्यः पञ्चपाणिरतः परम् ॥२०२
असमानत्वनित्यत्वे तस्य प्राधान्यकारणे ।
द्वितीया चाष्टमी चैव द्वे शम्ये परिकीर्तिते ॥२०३
चतुर्थषष्टनवमास्तालाः शेषं यथोदितम् ।
अपरान्तकवच्चात्र विज्ञेयमुपवर्तनम् ॥२०४
ऊर्ध्वम् संपिष्टकं वा स्यादुभयत्रापि वा पुनः ।
उपवर्तनवत् सन्दिस्तस्थः स्याच्चतुरश्चकः ॥२०५
युग्मप्रवृत्तवत् कार्यं सन्धिवद् वज्रसंज्ञितम् ।
संपिष्टकाख्यम(न्त्र?त्र) स्याद् वैहायसिकसम्मितम् ॥२०६
निष्क्राम एक(त्रि?स्त्रि) श्शम्यास्त्रितालोऽन्यद्यथोदितम् ।
प्रवेण्यामुप(दद?पात)श्च द्विकले स्युरिहोत्त(रः?रा) ॥२०७
उपपाते द्वितीयस्तु तालः कैश्चिदुदाहृतः ।
अन्ताहरणमप्यत्र भव्दन्यसमन्वितम् ॥२०८
एवं तु द्वादशाञ्गानि सप्त वास्योपपादयेत् ।
संपिष्टकप्रवेण्यौ च तथा चैवोपवर्तनम् ॥२०९
उपपातं च सप्ताञ्गे न प्रयुञ्जीत गीतवित् ।
प्रवृत्तं चावगाढं च प्रवेणोरिह तु क्रमात् ॥२१०
प्रायः शेषेषु विविध एकैकं चोपवर्तके ।
औवेणकं समाप्तम्
अथार्धान्ते च मात्राणां तालशम्ये यथाक्रमम् ॥२११
चतुर्दश्यां च पञ्चम्यां मात्रायां ताल इष्यते ।
षष्टी तु मन्द्रकान्त्यावन्मात्रा रोविन्दकस्य तु ॥२१२
तत्राष्टकलमाद्याया मात्रायाः स्यादुपोहनम् ।
पूर्ववत् त्रिकलं कार्यमन्यासां प्रत्युपोहनम् ॥२१३
पादः पूर्वोऽयमपरस्तद्वदन्यपदः स्मृतः ।
कलावष्टासु योऽन्यासु वर्णः पूर्वस्य गीयते ॥२१४
स च द्वितीयपादादौ स च प्रस्तार इष्यते ।
द्वितीयपादे प्रस्तारः शरीरद्विकलोत्तरे ॥२१५
तत्रोपवर्तनं कैश्चदिष्यते पूर्ववत्तु तत् ।
तत्रादौ विविधं कार्यं प्रवृत्तमपि वा भवेत् ॥२१६
निवृत्तयस्तथा (का) र्या मध्ये(तिऽत्रि) चतुराः स्मृताः ।
अवमर्शे निवृत्ते स्यादुत्तरान्ते च शीर्षकम् ॥२१७
अस्यादा(दे?वे)ककं नित्यं प्रवृत्तं चाप्यतः परम् ।
पादादिषु यथेष्टं च योक्तव्ये विविधैकके ॥२१८
रोविन्दकं समाप्तम्
अथादावुत्तरस्य स्यान्मुखं प्रतिमुखं तदा ।
उल्लोप्यकवदन्तश्च भवेदनियमस्तु सः ॥२१९
द्विकले पञ्च(पाणौ)तु शाखाक्लुप्तिस्तु (पू)र्ववत् ।
तयोर्मध्ये प्रयोक्तव्यं पञ्चपाणौ तु शीर्षकम् ॥२२०
परा(णि द्वा) दशाङ्गानि (स्युः) का(व्यान्य?र्याण्य) पराणि षट् ।
रोविन्दकवदत्रान्यत् पादा++विवर्जितम् ॥२२१
उत्तरं समाप्तम्
इत्येवमृषिभिर्गीतं सामवेदसमुद्भवम् ।
सप्तरूपमतो जातं गीतजातं पुरा किल ॥२२२
तत्र संक्षेपपक्षो यः शममार्गः स उच्यते ।
विस्तरं चात्र+++++वयवलक्षणम् ॥२२३
तत्र वाद्यादिको भेद उत्तरे खञ्जनत्कुटे ।
तत्रासारितकेष्वादौ शम्यादियुगथोत्तरौ ॥२२४
मुक्तिकः सन्निपाता(न्तके?न्ते क) निष्टेऽथ लयान्तरे ।
मध्यमे द्विकलः कार्यो++++चतुष्कलः ॥२२५
कार्यः पञ्चक(ला?लोऽ)न्येषामेकवृद्धमुपोहनम् ।
उत्तरे याः कला अन्त्या नव सप्त दशैव तु ॥२२६
क्रमे(ण सौ ? णास्व)न्त्ययोः कल्प्यस्तालः प्रथमवस्तुनः ।
आसारितसमूहेन वर्धमानं यथाविधि ॥२२७
आवृत्त्या पूर्वगीतानां खण्डिकानां तदुच्यते ।
नवाष्टौ द्विगुणास्ताश्च कलास्तद्द्विगुणाः क्रमात् ॥२२८
चतस्रः खण्डिका ज्ञेया विद्वद्भिर्वर्धमानके ।
तासामेतानि नामानि विज्ञेयानि यथाक्रमम् ॥२२९
विशाला सञ्गता चैव सुनन्दा सुमुखी तथा ।
पञ्चप्रभृत्येकवृद्धाः कलास्ता(सा)मुपोहनम् ॥२३०
पृथ(क्)प्रयोगे तालश्च कथ्यतेऽयं यथाक्रमम् ।
मध्यमासारिताद्यस्य वस्तुनो यदुदाहृतम् ॥२३१
द्विचतुष्कलयुग्मश्च युग्मौजश्च चतुष्कले ।
इति वर्धमानकं समाप्तम्
अथादौ पाणिकायाः स्या(द्) मुखं प्रतिमुखं तथा ॥२३२
मात्रा रोविन्दकस्य ++++ लः पृथक् पृथक् ।
आ (रा?का)रेण विदार्यः स्युः केवलेनान्तरान्तरा ॥२३३
अपि वा नान्तराः कार्याः (आकार) पदपूर्विकाः ।
अतः परं शरीरं तु पञ्चपाणिचतुष्टये ॥२३४
यथास्थिते प्रयोक्तव्यं शिरस्संपिष्टकैककम् ।
विद्यादुपोहनादीनि मुखादी(नि) यथाक्रमम् ॥२३५
(आ)सारितानां तद्वच्च वर्धमानस्य खण्डिकाः ।
अथेहानुक्ततालानां गीतावयवसम्भवः ॥२३६
तालः शा++++भ्यां संसाध्यो युक्तितः क्वचित् ।
गीतयोऽपि चतस्रस्तु मागध्याद्याः समासतः ॥२३७
तत्र स्यान्मागधी चित्रे पदैः समनिवृत्तकैः ।
अर्धकालनिवृत्तैस्तु वर्णाद्या चार्धमागधी ॥२३८
वृत्तौ लघ्वक्षरप्राया गीतिः सम्भाविता स्मृता ।
गुर्वक्षरैस्तु पृथुला वर्णाढ्या दक्षिणे सदा ॥२३९
मार्गेषु ता यथायोगं चतस्रो गीतयः स्मृताः ।
अथ मार्गा य उद्दिष्टस्तेषां मूलं ध्रुवः स्मृतः ॥२४०
मात्रिकः स प्रयोक्तव्यः सुविविक्तलयान्वितः ।
ततः स्याद् द्विगुणाश्चित्र उत्तरौ द्विगुणोत्तरौ ॥२४१
ज्ञात्वैवं सर्वगीतानि सर्वमार्गेषु योजयेत् ।
पूर्वाचार्यमतस्यैतद् दिङ्मात्रं समुदाहृतम् ॥२४२
तेषां दृष्टिं समालोक्य समाधेयस्तु साधुभिः ।
वे++++++मा ++++++++ ॥२४३
अकरोद् दत्तिलः शास्त्रं गीतं दत्तिलसंज्ञितम् ।
इति दत्तिलम् समाप्तम्
Appendix:
Emendations found in Dattilam, Mukund Lath, IGNCA, 1988 in place of +
मान्दी च पौरवी चैव हृष्य(का) +++++ ।
*च यथाक्रमम्
+++ पञ्च षट् पूर्णसाधारणकृताः स्मृताः ॥२५
सर्वास्ता
मि(थ)संह+नौ ज्ञेयौ त्रयोदशनवान्तरौ ॥१८
सम्वादिनौ
षड्जपञ्चमहीने च षाडवे +++++ ॥६५
*षाडवौडुविते क्रमात्
(आ?प्र) सन्नादिः प्रसन्नान्तो ++++ वरोहिणी ।
*प्रसन्नसन्नादिः तथारोहा
(ते)षां म++ मार्गेषु विशेषोऽयं कलाश्रयः ।
*चित्रादि
एवमेते त्रयः पाताः कला++++++ ॥१२१
*सु हतिसम्श्रयाः
++++ प्तविध्येऽपि त्रिकलायां प्रयोजयेत् ।
*एतासां सा
द्विर्मध्ये (?)तालशम्ये च ++ दिभ्यो +लाविधिः ।
*पाता
++++मिकायुक्ता मध्यमाद् देशीनीगतान् ।
*कनिष्टा
अयु+++हीनं स्यादाद्यन्ता+क उत्तरः ॥१३६
*ग्मः
गीयते परिव++++ पत्तः स उच्यते ॥१३८
*वृत्याचेत्परि
यथा+++षण्मात्रास्तिस्त्रोऽध्यर्धापि वा भवेत् ।
*क्रमेण
सन्न्यासोवाथ तस्याद्ध्ररूपं वि(?)++++आ॒ ॥१४०
*तस्यात्ररूपं विद्वद्भिरुच्यते
विदार्यो +++++ स्वरेष्वेकान्तरेषु वा ॥१४५
*ऽन्तरहीनेषु
++++दिरेतेषां प्रयोगो दक्षिणादिषु ।
*विलम्बिता
+द्यां पदानि वर्णो वा तदेवमभिधीयते ।
*वाद्यं
+++न्ते तृतीये’थ स द्वैगेयकसंज्ञितः ।
*वस्तुनोऽ
अस्यैवा+++++निष्क्राममेव च ॥१६९
*पविक्षेपमन्त्यं
रोविन्दकवदत्रान्यत् पादा++विवर्जितम् ॥२२१
*कार
विस्तरं चात्र+++++वयवलक्षणम् ॥२२३
छत्रं तु भूर्य
मध्यमे द्विकलः कार्यो++++चतुष्कलः ॥२२५
ज्येष्टे तालः

स्रोतःसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=दत्तिलम्&oldid=75713" इत्यस्माद् पुनः प्राप्तिः