प्रमुखा विकल्पसूचिः उद्घाट्यताम्

देव्या सुग्रीवदूताय स्वव्रतकथनम्

व्यास उवाच
एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः ।
स्वशरीरात्परं रूपं प्रादुर्भूतं चकार ह ॥ १ ॥
पार्वत्यास्तु शरीराद्वै निःसृता चाम्बिका यदा ।
कौशिकीति समस्तेषु ततो लोकेषु पठ्यते ॥ २ ॥
निःसृतायां तु तस्यां सा पार्वती तनुव्यत्ययात् ।
कृष्णरूपाथ सञ्जाता कालिका सा प्रकीर्तिता ॥ ३ ॥
मषीवर्णा महाघोरा दैत्यानां भयवर्धिनी ।
कालरात्रीति सा प्रोक्ता सर्वकामफलप्रदा ॥ ४ ॥
अम्बिकायाः परं रूपं विरराज मनोहरम् ।
सर्वभूषणसंयुक्तं लावण्यगुणसंयुतम् ॥ ५ ॥
ततोऽम्बिका तदा देवानित्युवाच ह सस्मिता ।
तिष्ठन्तु निर्भया यूयं हनिष्यामि रिपूनिह ॥ ६ ॥
कार्यं वः सर्वथा कार्यं विहरिष्याम्यहं रणे ।
निशुम्भादीन्वधिष्यामि युष्माकं सुखहेतवे ॥ ७ ॥
इत्युक्त्वा सा तदा देवी सिंहारूढा मदोत्कटा ।
कालिकां पार्श्वतः कृत्वा जगाम नगरे रिपोः ॥ ८ ॥
सा गत्वोपवने तस्थावम्बिका कालिकान्विता ।
जगावथ कलं तत्र जगन्मोहनमोहनम् ॥ ९ ॥
श्रुत्वा तन्मधुरं गानं मोहमीयुः खगा मृगाः ।
मुदञ्च परमां प्रापुरमरा गगने स्थिताः ॥ १० ॥
तस्मिन्नवसरे तत्र दानवौ शुम्भसेवकौ ।
चण्डमुण्डाभिधौ घोरौ रममाणौ यदृच्छया ॥ ११ ॥
आगतौ ददृशाते तु तां तदा दिव्यरूपिणीम् ।
अम्बिकां गानसंयुक्तां कालिकां पुरतः स्थिताम् ॥ १२ ॥
दृष्ट्वा तां दिव्यरूपाञ्च दानवौ विस्मयान्वितौ ।
जग्मतुस्तरसा पार्श्वं शुम्भस्य नृपसत्तम ॥ १३ ॥
तौ गत्वा तं समासीनं दैत्यानामधिपं गृहे ।
ऊचतुर्मधुरां वाणीं प्रणम्य शिरसा नृपम् ॥ १४ ॥
राजन् हिमालयात्कामं कामिनी काममोहिनी ।
सम्प्राप्ता सिंहमारूढा सर्वलक्षणसंयुता ॥ १५ ॥
नेदृशी देवलोकेऽस्ति न गन्धर्वपुरे तथा ।
न दृष्टा न श्रुता क्वापि पृथिव्यां प्रमदोत्तमा ॥ १६ ॥
गानञ्च तादृशं राजन् करोति जनरञ्जनम् ।
मृगास्तिष्ठन्ति तत्पार्श्वे मथुरस्वरमोहिताः ॥ १७ ॥
ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता ।
गृह्यतां राजशार्दूल तव योग्यास्ति कामिनी ॥ १८ ॥
ज्ञात्वाऽऽनय गृहे भार्यां कुरु कल्याणलोचनाम् ।
निश्चितं नास्ति संसारे नारी त्वेवंविधा किल ॥ १९ ॥
देवानां सर्वरत्‍नानि गृहीतानि त्वया नृप ।
कस्मान्नेमां वरारोहां प्रगह्णासि नृपोत्तम ॥ २० ॥
इन्द्रस्यैरावतः श्रीमान्पारिजाततरुस्तथा ।
गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल ॥ २१ ॥
विमानं वैधसं दिव्यं मरालध्वजसंयुतम् ।
त्वयात्तं रत्‍नभूतं तद्‌बलेन नृप चाद्‌भुतम् ॥ २२ ॥
कुबेरस्य निधिः पद्मस्त्वया राजन् समाहृतः ।
छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात् ॥ २३ ॥
पाशश्चापि निशुम्भेन भ्रात्रा तव नृपोत्तम ।
गृहीतोऽस्ति हठात्कामं वरुणस्य जितस्य च ॥ २४ ॥
अम्लानपङ्कजां तुभ्यं मालां जलनिधिर्ददौ ।
भयात्तव महाराज रत्‍नानि विविधानि च ॥ २५ ॥
मृत्योः शक्तिर्यमस्यापि दण्डः परमदारुणः ।
त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप ॥ २६ ॥
कामधेनुर्गहीताद्य वर्तते सागरोद्‌भवा ।
मेनकाद्या वशे राजंस्तव तिष्ठन्ति चाप्सराः ॥ २७ ॥
एवं सर्वाणि रत्‍नानि त्वयात्तानि बलादपि ।
कस्मान्न गृह्यते कान्तारत्‍नमेषा वराङ्गना ॥ २८ ॥
सर्वाणि ते गृहस्थानि रत्‍नानि विशदान्यथ ।
अनया सम्भविष्यन्ति रत्‍नभूतानि भूपते ॥ २९ ॥
त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया ।
तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम् ॥ ३० ॥
व्यास उवाच
इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम् ।
प्रसन्नवदनः प्राह सुग्रीवं सनिधौ स्थितम् ॥ ३१ ॥
गच्छ सुग्रीव दूतत्वं कुरु कार्यं विचक्षण ।
वक्तव्यञ्च तथा तत्र यथाभ्येति कृशोदरी ॥ ३२ ॥
उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः ।
सामदाने इति प्राहुः शृङ्गाररसकोविदाः ॥ ३३ ॥
भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते ।
निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः ॥ ३४ ॥
सामदानमुखैर्वाक्यैः श्लक्ष्णैर्नर्मयुतैस्तथा ।
का न याति वशे दूत कामिनी कामपीडिता ॥ ३५ ॥
व्यास उवाच
सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु ।
जगाम तरसा तत्र यत्रास्ते जगदम्बिका ॥ ३६ ॥
सोऽपश्यत्सुमुखीं कान्तां सिंहस्योपरिसंस्थिताम् ।
प्रणम्य मधुरं वाक्यमुवाच जगदम्बिकाम् ॥ ३७ ॥
दूत उवाच
वरोरु त्रिदशारातिः शुम्भः सर्वाङ्गसुन्दरः ।
त्रैलोक्याधिपतिः शूरः सर्वजिद्‌राजते नृपः ॥ ३८ ॥
तेनाहं प्रेषितः कामं त्वत्सकाशं महात्मना ।
त्वद्‌रूपश्रवणासक्तचित्तेनातिविदूयता ॥ ३९ ॥
वचनं तस्य तन्वङ्‌गि शृणु प्रेमपुरःसरम् ।
प्रणिपत्य यथा प्राह दैत्यानामधिपस्त्वयि ॥ ४० ॥
देवा मया जिताः सर्वे त्रैलोक्याधिपतिस्त्वहम् ।
यज्ञभागानहं कान्ते गह्णामीह स्थितः सदा ॥ ४१ ॥
हृतसारा कृता नूनं द्यौर्मया रत्‍नवर्जिता ।
यानि रत्‍नानि देवानां तानि चाहृतवानहम् ॥ ४२ ॥
भोक्ताहं सर्वरत्‍नानां त्रिषु लोकेषु भामिनि ।
वशानुगाः सुराः सर्वे मम दैत्याश्च मानवाः ॥ ४३ ॥
त्वद्‌गुणैः कर्णमागत्य प्रविश्य हृदयान्तरम् ।
त्वदधीनः कृतः कामं किङ्करोऽस्मि करोमि किम् ॥ ४४ ॥
त्वमाज्ञापय रम्भोरु तत्करोमि वशानुगः ।
दासोऽहं तव चार्वङ्‌गि रक्ष मां कामबाणतः ॥ ४५ ॥
भज मां त्वं मरालाक्षि तवाधीनं स्मराकुलम् ।
त्रैलोक्यस्वामिनी भूत्वा भुंक्ष्व भोगाननुत्तमान् ॥ ४६ ॥
तव चाज्ञाकरः कान्ते भवामि मरणावधि ।
अवध्योऽस्मि वरारोहे सदेवासुरमानुषैः ॥ ४७ ॥
सदा सौभाग्यसंयुक्ता भविष्यसि वरानने ।
यत्र ते रमते चित्तं तत्र क्रीडस्व सुन्दरि ॥ ४८ ॥
इति तस्य वचश्चित्ते विमृश्य मदमन्थरे ।
वक्तव्यं यद्‌भवेत्प्रेम्णा तद्‌ ब्रूहि मधुरं वचः ॥ ४९ ॥
शुम्भाय चञ्चलापाङ्‌गि तद्‌ब्रवीम्यहमाशु वै ।
व्यास उवाच
तद्दूतवचनं श्रुत्वा स्मितं कृत्वा सुपेशलम् ॥ ५० ॥
तं प्राह मधुरां वाचं देवी देवार्थसाधिका ।

देव्युवाच
जानाम्यहं निशुम्भं च शुम्भं चातिबलं नृपम् ॥ ५१ ॥
जेतारं सर्वदेवानां हन्तारञ्चैव विद्विषाम् ।
राशिं सर्वगुणानाञ्च भोक्तारं सर्वसम्पदाम् ॥ ५२ ॥
दातारं चातिशूरं च सुन्दरं मन्मथाकृतिम् ।
द्वात्रिंशल्लक्षणैर्युक्तमवध्यं सुरमानुषैः ॥ ५३ ॥
ज्ञात्वा समागतास्स्म्यत्र द्रष्टुकामा महासुरम् ।
रत्‍नं कनकमायाति स्वशोभाधिकवृद्धये ॥ ५४ ॥
तत्राहं स्वपतिं द्रष्टुं दूरादेवागतास्मि वै ।
दृष्टा मया सुराः सर्वे मानवा भुवि मानदाः ॥ ५५ ॥
गन्धर्वा राक्षसाश्चान्ये ये चातिप्रियदर्शनाः ।
सर्वे शुम्भभयाद्‌भीता वेपमाना विचेतसः ॥ ५६ ॥
श्रुत्वा शुम्भगुणानत्र प्राप्तास्म्यद्य दिदृक्षया ।
गच्छ दूत महाभाग ब्रूहि शुम्भं महाबलम् ॥ ५७ ॥
निर्जने श्लक्ष्णया वाचा वचनं वचनान्मम ।
त्वां ज्ञात्वा बलिनां श्रेष्ठं सुन्दराणां च सुन्दरम् ॥ ५८ ॥
दातारं गुणिनं शूरं सर्वविद्याविशारदम् ।
जेतारं सर्वदेवानां दक्षं चोग्रं कुलोत्तरम् ॥ ५९ ॥
भोक्तारं सर्वरत्‍नानां स्वाधीनं स्वबलोन्नतम् ।
पतिकामास्म्यहं सत्यं तव योग्या नराधिप ॥ ६० ॥
स्वेच्छया नगरे तेऽत्र समायाता महामते ।
ममास्ति कारणं किञ्चिद्विवाहे राक्षसोत्तम ॥ ६१ ॥
बालभावाद्व्रतं किञ्चित्कृतं राजन्मया पुरा ।
क्रीडन्त्या च वयस्याभिः सहैकान्ते यदृच्छया ॥ ६२ ॥
स्वदेहबलदर्पेण सखीनां पुरतो रहः ।
मत्समानबलः शूरो रणे मां जेष्यति स्फुटम् ॥ ६३ ॥
तं वरिष्याम्यहं कामं ज्ञात्वा तस्य बलाबलम् ।
जहसुर्वचनं श्रुत्वा सख्यो विस्मितमानसाः ॥ ६४ ॥
किमेतया कृतं क्रूरं व्रतमद्‌भुतमाशु वै ।
तस्मात्त्वमपि राजेन्द्र ज्ञात्वा मे हीदृशं बलम् । ६५ ॥
जित्वा मां स्वबलेनात्र वाञ्छितं कुरु चात्मनः ।
त्वं वा तवानुजो भ्राता समेत्य समराङ्गणे ।
जित्वा मां समरेणात्र विवाहं कुरु सुन्दर ॥ ६६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्या सुग्रीवदूताय स्वव्रतकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥