प्रमुखा विकल्पसूचिः उद्घाट्यताम्

नरकस्वरूपवर्णनम्

श्रीनारायण उवाच
तस्यानुभावं भगवान् ब्रह्मपुत्रः सनातनः ।
सभायां ब्रह्मदेवस्य गायमान उपासते ॥ १ ॥
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः
     सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् ।
यद्‌रूपं ध्रुवमकृतं यदेकमात्मन्-
     नानाधात्कथमुह वेद तस्य वर्त्म ॥ २ ॥
मूर्तिं नः पुरुकृपया बभार सत्त्वं
     संशुद्धं सदसदिदं विभाति यत्र ।
यल्लीलां मृगपतिराददेऽनवद्या-
     मादातुं स्वजनमनांस्युदारवीर्यः ॥ ३ ॥
यन्नाम श्रुतमनुकीर्तयेदकस्मा-
     दार्तो वा यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं
     कं शेषाद्‍भगवत आश्रयेत्युमुक्षुः ॥ ४ ॥
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
     भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनमितविक्रमस्य भूम्नः
     को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ ५ ॥
एवंप्रभावो भगवाननन्तो
     दुरन्तवीर्योरुगुणानुभावः ।
मूले रसायाः स्थित आत्मतन्त्रो
     यो लीलया क्ष्मां स्थितये बिभर्ति ॥ ६ ॥
एता ह्येवेह तु नृभिर्गतयो मुनिसत्तम ।
गन्तव्या बहुशो यद्वद्यथाकर्मविनिर्मिताः ॥ ७ ॥
यथोपदेशं च कामान्सदा कामयमानकैः ।
एतावतीर्हि राजेन्द्र मनुष्यमृगपक्षिषु ॥ ८ ॥
विपाकगतयः प्रोक्ता धर्मस्य वशगास्तथा ।
उच्चावचा विसदृशा यथाप्रश्नं निबोधत ॥ ९ ॥
नारद उवाच
वैचित्र्यमेतल्लोकस्य कथं भगवता कृतम् ।
समानत्वे कर्मणां च तन्नो ब्रूहि यथातथम् ॥ १० ॥
श्रीनारायण उवाच
कर्तुः श्रद्धावशादेव गतयोऽपि पृथग्विधाः ।
त्रिगुणत्वात्सदा तासां फलं विसदृशं त्विह ॥ ११ ॥
सात्त्विक्या श्रद्धया कर्तुः सुखित्वं जायते सदा ।
दुःखित्वं च तथा कर्तू राजस्या श्रद्धया भवेत् ॥ १२ ॥
दुःखित्वं चैव मूढत्वं तामस्या श्रद्धयोदितम् ।
तारतम्यात्तु श्रद्धानां फलवैचित्र्यमीरितम् ॥ १३ ॥
अनाद्यविद्याविहितकर्मणां परिणामजाः ।
सहस्रशः प्रवृत्तास्तु गतयो द्विजपुङ्गव ॥ १४ ॥
तद्‍भेदान्वर्णयिष्यामि प्राचुर्येण द्विजोत्तम ।
त्रिजगत्या अन्तराले दक्षिणस्यां दिशीह वै ॥ १५ ॥
भूमेरधस्तादुपरि त्वतलस्य च नारद ।
अग्निष्वात्ताः पितृगणा वर्तन्ते पितरश्च ह ॥ १६ ॥
वसन्ति यस्यां स्वीयानां गोत्राणां परमाशिषः ।
सत्याः समाधिना शीघ्रं त्वाशासानाः परेण वै ॥ १७ ॥
पितृराजोऽपि भगवान् सम्परेतेषु जन्तुषु ।
विषयं प्रापितेष्वेषु स्वकीयैः पुरुषैरिह ॥ १८ ॥
सगणो भगवत्प्रोक्ताज्ञापरो दमधारकः ।
यथाकर्म यथादोषं विदधाति विचारदृक् ॥ १९ ॥
स्वान्गणान्धर्मतत्त्वज्ञान्सर्वानाज्ञाप्रवर्तकान् ।
सदा प्रेरयति प्राज्ञो यथादेशनियोजितान् ॥ २० ॥
नरकानेकविंशत्या संख्यया वर्णयन्ति हि ।
अष्टाविंशमितान्केचित्ताननुक्रमतो ब्रुवे ॥ २१ ॥
तामिस्र अन्धतामिस्रो रौरवोऽपि तृतीयकः ।
महारौरवनामा च कुम्भीपाकोऽपरो मतः ॥ २२ ॥
कालसूत्रं तथा चासिपत्रारण्यमुदाहृतम् ।
सूकरस्य मुखं चान्धकूपोऽथ कृमिभोजनः ॥ २३ ॥
संदंशस्तप्तमूर्तिश्च वज्रकण्टक एव च ।
शाल्मली चाथ देवर्षे नाम्ना वैरतणी तथा ॥ २४ ॥
पूयोदः प्राणरोधश्च तथा विशसनं मतम् ।
लालाभक्षः सारमेयादनमुक्तमतः परम्॥ २५ ॥
अवीचिरप्ययः पानं क्षारकर्दम एव च ।
रक्षोगणाख्यसम्भोजः शूलप्रोतोऽप्यतः परम् ॥ २६ ॥
दन्दशूकोऽवटारोधः पर्यावर्तनकः परम् ।
सूचीमुखमिति प्रोक्ता अष्टाविंशतिनारकाः ॥ २७ ॥
इत्येते नारका नाम यातनाभूमयः पराः ।
कर्मभिश्चापि भूतानां गम्याः पद्मजसम्भव ॥ २८ ॥

इति श्रीमद्देवीभागवतेमहापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
नरकस्वरूपवर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥