प्रमुखा विकल्पसूचिः उद्घाट्यताम्
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।
हिमवद्गिरिमासाद्य किं चकार महीपतिः ।।
कथमानीतवान्गङ्गामेतन्मे वक्तुमर्हसि ।। १६-१ ।।

सनक उवाच ।।
भगीरथो महाराजो जटाचीरधरो मुने ।।
गच्छन्हिमाद्रिं तपसे प्राप्तो गोदावरी तटम् ।। १६-२ ।।

तत्रापश्यन्महारण्ये भृगोराश्रममुत्तमम् ।।
कृष्णसारसमाकीर्णं मातङ्गगणसेवितम् ।। १६-३ ।।

भ्रमद्भ्रमरसंघुष्टं कूजद्विहगसंकुलम् ।।
व्रजद्वराहनिकरं चमरीपुच्छवीजितम् ।। १६-४ ।।

नृत्यन्मयूरनिकरं सारङ्गादिनिषेवितम् ।।
प्रवर्द्धितमहावृक्षं मुनिकन्याभिरादरात् ।। १६-५ ।।

शालतालतमालाढ्यं नूनहिन्तालमण्डितम् ।।
मालतीयूथिकाकुन्दचम्पकाशअवत्थभूषितम् ।। १६-६ ।।

उत्पुल्लकुसुमोपेत मृषिसङ्घनिषेवितम् ।।
वेदशास्त्रमहाघोषमाश्रमं प्राविशद्भुगोः ।। १६-७ ।।

गृणन्तं परम ब्रह्म वृत्तं शिष्यगणैर्मुनिम् ।।
तेजसा सूर्यसदृशं भृगुं तत्र ददर्श सः ।। १६-८ ।।

प्रणनामाथ विप्रेन्द्रं पादसंग्रहणादिना ।।
आतिथ्यं भृगुरप्यस्य चक्रे सन्मानपूर्वकम् ।। १६-९ ।।

कृतातिथ्यक्रियो राजा भृगुणा परमर्षिणा ।।
उवाच प्राञ्जलिर्भूत्वा विनयान्मुनिपुङ्गवम् ।। १६-१० ।।

भगीरथ उवाच ।।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।।
पृच्छामि भवभीतोऽहं नृणामुद्धारकारणम् ।। १६-११ ।।

भगवांस्तुष्यते येन कर्मणा मुनिसत्तम ।।
तन्ममाख्याहि सर्वज्ञ अनुग्राह्योऽस्मि ते यति ।। १६-१२ ।।

भृगुरुवाच ।।
राजंस्तवेप्सितं ज्ञातं त्वं हि पुण्यवतां वरः ।।
अन्यथा स्वकुलं सर्वं कथमुद्धर्त्तुमर्हसि ।। १६-१३ ।।

यो वा को वापि भूपाल स्वकुलं शुभकर्मणा ।।
उद्धर्त्तकामस्तं विद्यान्नररुपधरं हरिम् ।। १६-१४ ।।

कर्मणा येन देवेशो नृणामिष्टफलप्रदः ।।
तत्प्रवक्ष्यामि राजेन्द्र श्रृणुष्व सुसमाहितः ।। १६-१५ ।।

भव सत्यपरो राजन्न हिंसानिरतस्तथा ।।
सर्वभूतहितो नित्यं मानृतं वद वै क्वचित् ।। १६-१६ ।।

त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।।
कुरु पुण्यमहोरात्रं स्मर विष्णुं सनातनम् ।। १६-१७ ।।

कुरु पूजां महाविष्णोर्याहि शान्ति मनुत्तमाम् ।।
द्वादशाष्टाक्षरं मन्त्रं जय श्रेयो भविष्यति ।। १६-१८ ।।

भगीरथ उवाच ।।
सत्यं तु कीदृशं प्रोक्तं सर्वभूतहितं मुने ।।
अनृतं कीदृशं प्रोक्तं दुर्जनाश्चापि कीदृशाः ।। १६-१९ ।।

साधवः कीदृशाः प्रोक्तास्तथा पुण्यं च कीदृशम् ।।
स्मर्तव्यस्च कथं विष्णुस्तस्य पूजा च कीदृशी ।। १६-२० ।।

शान्तिश्च कीदृशी प्रोक्ता को मंत्रोऽष्टाक्षरो मुने ।।
को वा द्वादशवर्णश्च मुने तत्त्वार्थकोविद ।। १६-२१ ।।

कृपां कृत्वा मयि परां सर्वं व्याख्यातुमर्हसि ।।
भृगुरुवाच ।।
साधु साधुमहाप्राज्ञ तव बुद्धिरनुत्तमा ।। १६-२२ ।।

यत्पृष्टोऽहं त्वया भूप तत्सर्वं प्रवदामि ते ।।
यथार्थकथनं यत्तत्सत्यमाहुर्विपश्चितः ।। १६-२३ ।।

धर्माविरोधतो वाच्यं तद्धि धर्मपरायणैः ।।
देशकालादि विज्ञाय स्वयमस्याविरोधतः ।। १६-२४ ।।

यद्वचः प्रोच्यते सद्भिस्तस्तत्यमभिधीयते ।।
सर्वेषामेव जंतूनामक्लेषजननं हि तत् ।। १६-२५ ।।

अहिंसा सा नृप प्रोक्ता सर्वकामप्रदायिनी ।।
कर्मकार्यसहायत्वमकार्यपरिपन्थिता ।। १६-२६ ।।

सर्वलोकहितत्वं वै प्रोच्यते धर्मकोविदैः ।।
इच्छानुवृत्तकथनं धर्माधर्मविवेकिनः ।। १६-२७ ।।

अनृतं तद्धि विज्ञेय सर्वश्रेयोविरोधि तत् ।।
ये लोके द्वेषिणो मूर्खाः कुमार्गरतबुद्धयः ।। १६-२८ ।।

ते राजन्दुर्ज्जना ज्ञेयाः सर्वधर्मबहिष्कृताः ।।
धर्माधर्मविवेकेन वेदमार्गानुसारिणः ।। १६-२९ ।।

सर्वलोकहितासक्ताः साधवः परिकीर्त्तिताः ।।
हरि भक्तिकरं यत्तत्सद्भिश्च परिरञ्चितम् ।। १६-३० ।।

आत्मनः प्रीतिजनकं तत्पुण्यं परिकीर्त्तितम् ।।
सर्वं जगदिदं विष्णुर्विष्णुः सर्वस्य कारणम् ।। १६-३१ ।।

अहं च विष्णुर्यज्ज्ञानं तद्विष्णुस्मरणं विदुः ।।
सर्वदेवमयो विष्णुर्विधिना पूजयामि तम् ।। १६-३२ ।।

इति या भवति श्रद्धा सा तद्भक्तिः प्रकीर्तिताः ।।
सर्वभूतमयो विष्णुः परिपूर्णः सनातनः ।। १६-३३ ।।

इत्यभेदेन या बुद्धिः समता सा प्रकीर्त्तिता ।।
समता शत्रुमित्रेषु वशित्वं च तथा नृप ।। १६-३४ ।।

यदृच्छालाभसंतुष्टिः सा शान्तिः परिकीर्तिता ।।
एते सर्वे समाख्यातास्तपः सिद्धिप्रदा नृणाम् ।। १६-३५ ।।

समस्तपापराशीनां तरसा नाशहेतवः ।।
अष्टाक्षरं महामन्त्रं सर्वपापप्रणाशनम् ।। १६-३६ ।।

वक्ष्यामि तव राजेन्द्र पुरुषार्थैकसाधनम् ।।
विष्णोः प्रियकरं चैव सर्वसिद्धिप्रदायकम् ।। १६-३७ ।।

नमो नारायणायेति जपेत्प्रणवपूर्वकम् ।।
नमो भगवते प्रोच्य वासुदेवाय तत्परम् ।। १६-३८ ।।

प्रणवाद्यं महाराज द्वादशार्णमुदाहृतम् ।।
द्वयोः समं फलं राजन्नष्टद्वादशवर्णयोः ।। १६-३९ ।।

प्रवृत्तौ च निवृत्तौ च साम्यमुद्दिष्टमेतयोः ।।
शङ्खचक्रधरं शान्तं नारायणमनामयम् ।। १६-४० ।।

लक्ष्मीसंश्रितवामाङ्कं तथाभयकरं प्रभुम् ।।
किरीटकुण्डलधरं नानामण्डनशोभितम् ।। १६-४१ ।।

भ्राजत्कौस्तुभमालाढ्यं श्रीवत्साङ्कितवक्षसम् ।।
पीताम्बरधरं देवं सुरासुरनमस्कृतम् ।। १६-४२ ।।

ध्यायेदनादिनिधनं सर्वकामफलप्रदम् ।।
अन्तर्यामी ज्ञानरुपी परिपूर्णः सनातनः ।। १६-४३ ।।

एतत्सर्वं समाख्यातं यत्तु पुष्टं त्वया नृप ।।
स्वस्ति तेऽस्तु तपः सिद्धिं गच्छ लब्धुं यथासुखम् ।। १६-४४ ।।

एवमुक्तो महीपालो भृगुणा परमर्षिणा ।।
परमां प्रीतिमापन्नः प्रपेदेतपसे वनम् ।। १६-४५ ।।

हिमवद्गिरिमासाद्य पुण्यदेशे मनोहरे ।।
नादेश्वरे महाक्षेत्रे तपस्तेपेऽतिदुश्चरम् ।। १६-४६ ।।

राजा त्रिषवणस्नायी कन्दमूलफलाशनः ।।
कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः ।। १६-४७ ।।

सर्वभूतहितः शान्तो नारायणपरायणः ।।
पत्रैः पुष्पैः फलैस्तोयैस्त्रिकालं हरिपूजकः ।। १६-४८ ।।

एवं बहुतिथं कालं नीत्वा चात्यन्तधैर्यवान् ।।
ध्यायन्नारायणं देवं शीर्णपर्णाशनोऽभवत् ।। १६-४९ ।।

प्राणायामपरो भूत्वा राजा परमधार्मिकः ।।
निरुच्छ्वासस्तपस्तप्तुं ततः समुपचक्रमे ।। १६-५० ।।

ध्यायन्नारायणं देवमनंतमपराजितम् ।।
षष्टिवर्षसहस्ताणि निरुच्छ्वासपरोऽभवत् ।। १६-५१ ।।

तस्य नान्मापुटाद्राज्ञो वह्निर्जज्ञं भयंकरः ।।
तं दृष्ट्वा देवताः सर्वे वित्रस्ता वह्निता पिताः ।। १६-५२ ।।

अभिजग्मुर्महाविष्णुं यत्रास्ते जगतां पतिः ।।
क्षीरोदस्योत्तरं तीर संप्राप्य त्रिदशेश्वराः ।।
अस्तुवन्देवदेवेशं शरणागतपालकम् ।। १६-५३ ।।

देवा ऊचुः ।।
नताः स्म विष्णुं जगदेकनाथं स्मरत्समस्तार्तिहरं परेशम् ।।
स्वभावशुद्धं परिपूर्णभावं वदन्ति यज्ज्ञानतनुं च तज्ज्ञाः ।। १६-५४ ।।

ध्येयः सदा योगिवरैर्महात्मा स्वेच्छाशरीरैः कुतदेवकार्यः ।।
जगत्स्वरुपो जगदादिनाथस्तस्मै नताः स्मः पुरुषोत्तमाय ।। १६-५५ ।।

यनन्नामसंकीर्त्तनतो खलानां समस्त पापानि लयं प्रयान्ति ।।
तमीशमीड्यं पुरुषं पुराणं नताः स्म विष्णुं पुरुषार्थसिद्ध्यै ।। १६-५६ ।।

यत्तेजसा भान्ति दिवाकराद्या नातिक्रमंत्यस्य कदापि शिक्षाः ।।
कालात्मकं तं त्रिदशाधिनाथं नमामहे वै पुरुषार्थरुपम् ।। १६-५७ ।।

जगत्करोऽत्यब्जभवोऽत्ति रुद्रः पुनाति लोकाञ्श्रुतिभिश्च विप्राः ।।
तमादिदेवं गुणसन्निधानं सर्वोपदेष्टारमिताः शरण्यम् ।। १६-५८ ।।


वरं वरेण्यं मधुकैटभारिं सुरासुराभ्यर्चितपादपीठम् ।।
सद्भक्तिसंकल्पितासिद्धिहेतुं ज्ञानैकवेद्यं प्रणताः स्म देवम् ।। १६-५९ ।।

अनादिमध्यान्तमजं परेशमनाद्यविद्याख्यतमोविनाशम् ।।
सच्चित्परानन्दघनस्वरुपं रुपादिहीनं प्रणताः स्म देवम् ।। १६-६० ।।

नारायणं विष्णुमनन्तमीशं पीताम्बरं पद्मभवादिसेव्यम् ।।
यज्ञप्रियं यज्ञकरं विशुद्धं नताः स्म सर्वोत्तममव्ययं तम् ।। १६-६१ ।।

इति स्तुतो महाविष्णुर्देवैरिन्द्रादिभिस्तदा ।।
चरितं तस्य राजर्षेर्देवानां संन्यवेदयत् ।। १६-६२ ।।

ततो देवान्समाश्वास्य दत्त्वाभयमनञ्जनः ।।
जगाम यत्र राजर्षिस्तपस्तपति नारद ।। १६-६३ ।।

शङ्खचक्रधरो देवः सच्चिदानन्दविग्रहः ।।
प्रत्यक्षतामगात्तस्य राज्ञः सर्वजगद्गुरुः ।। १६-६४ ।।

तं दुष्ट्वा पुण्डरीकाक्षं भासितदिगन्तरम् ।।
अतसीपुष्पंसंकाशं स्फुरत्कुण्डलमण्डितम् ।। १६-६५ ।।

स्निग्ध कुन्तलवक्राब्जं विभ्राजन्मुकुटोज्ज्वलम् ।।
श्रीवत्सकौस्तुभधरं वनमालाविभूषितम् ।। १६-६६ ।।

दीर्घबाहुमुदाराङ्गं लोकेशार्चितपंत्कजम् ।।
ननाम दण्डवद्भूमौ भूपतिर्नम्रकंधरः ।। १६-६७ ।।

अत्यन्तहर्षसंपूर्णः सरोमाञ्चः सगद्गदः ।।
कृष्ण कृष्णेति श्रीकृष्णेति समुच्चरन् ।। १६-६८ ।।

तस्य विष्णुः प्रसन्नात्मा ह्यन्तर्यामी जगद्गुरुः ।।
उवाच कृपयाविष्टो भगवान्भूतभावनः ।। १६-६९ ।।

श्रीभगवानुवाच ।।
भगीरथ महाभाग तवाभीष्टं भविष्यति ।।
आगमिष्यन्ति मल्लोकं तव पूर्वपितामहाः ।। १६-७० ।।

मम मूर्त्यन्तरं शम्भुं राजन्स्तोत्रैः स्वशक्तितः ।।
स्तुहि ते सकलं कामं सवै सद्यः करिष्यंति ।। १६-७१ ।।

यस्तु जग्राह शशिनं शरणं समुपागतम् ।।
तस्मादाराधयेशानं स्तोत्रैः स्तुत्यं सुखप्रदम् ।। १६-७२ ।।

अनादिनिधनो देवः सर्वकाम फलप्रदः ।।
त्वया संपुजितो राजन्सद्यः श्रेयो विधास्यति ।। १६-७३ ।।

इत्युक्त्वा देवदेवेशो जगतां पतिरच्युतः ।।
अन्तर्दधे मुनिश्रेष्ट उत्तस्थौसोऽपि भूपतिः ।। १६-७४ ।।

किमिदं स्वप्न् आहोस्वित्सत्यं साक्षाद्विजोत्तम् ।।
भूपतिर्विस्मयं प्राप्तः किं करोमीति विस्मितः ।। १६-७५ ।।

अथान्तरिक्षे वागुच्चैः प्राह तं भ्रान्तचेतसम् ।।
सत्यमेतदिति व्यक्तं न चिन्तां कर्तुमर्हसि ।। १६-७६ ।।

तन्निशम्यावनीपाल ईशानं सर्वकारणम् ।।
समस्तदेवताराजमस्तौषीद्भक्तितत्परः ।। १६-७७ ।।

भगीरथ उवाच ।।
प्रणमामि जगन्नाथं प्रणतार्तिप्रणाशनम् ।।
प्रमाणागोचरं देवमीशानं प्रणवात्मकम् ।। १६-७८ ।।

जगद्रूपमजं नित्यं सर्गस्थित्यंतकारणम् ।।
विश्वरुपं विरुपाक्ष प्रणतोऽस्म्युग्ररेतसम् ।। १६-७९ ।।

आदिमध्यान्तरहितमनन्तमजमव्ययम् ।।
समामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ।। १६-८० ।।


नमो लोकाधिनाथाय वञ्चते परिवञ्चते ।।
नमोऽस्तु नीलग्रीवाय पशूनां पतये नमः ।। १६-८१ ।।

नमः कपालहस्ताय पाशपतये नमः ।।
नमोऽकल्पप्रकल्पाय भूतानां पतये नमः ।। १६-८२ ।।

नमः पिनाकहस्ताय शूलहस्ताय ते नमः ।।
नमः कपालहस्ताय पाशमुद्गरधारिणे ।। १६-८३ ।।

नमस्ते सर्वभूताय घण्टाहस्ताय ते नमः ।।
नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः ।। १६-८४ ।।

नमः समस्तभूतानामादिभृताय भूभृते ।।
अनेकरुपरुपाय निर्गुणाय परात्मने ।। १६-८५ ।।

नमो गणाधिदेवाय गणानां पतये नमः ।।
नमो हिरण्यगर्भाय हिरण्यपतये नमः ।। १६-८६ ।।

हिरण्यरेतसे तुभ्यंनमो हिरण्यबाहवे ।।
नमो ध्यानस्वरुपाय नमस्ते ध्यानसाक्षिणे ।। १६-८७ ।।

नमस्ते ध्यानसंस्थाय ध्यानगम्याय ते नमः ।।
येनेदं विश्वमखिलं चराचरविराजितम् ।। १६-८८ ।।

वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना ।। १६-८९ ।।

स्वप्रकाशं महात्मानं परं ज्योतिः सनातनम् ।।
यमामनन्ति तत्त्वज्ञाः सवितारं नृचक्षुषाम् ।। १६-९० ।।

उमाकान्तनन्दिकेशंतं नीलकण्ठं सदाशिवम् ।।
मृत्युंजयं महादेवं परात्परतरं विभुम् ।। १६-९१ ।।

परं शब्दब्रह्मरुपं तं वन्देऽखिलकारणम् ।।
कपर्द्दिने नमस्तुभ्यं सद्यो जाताय वै नमः ।। १६-९२ ।।

भवोद्भवाय शुद्धाय ज्येष्ठाय च कनीयसे ।।
मन्यवे त इषे त्रघय्याः पतये यज्ञतन्तवे ।। १६-९३ ।।

ऊर्जे दिशां च पतये कालायाघोररुपिणे ।।
कृशानुरेतसे तुभ्यं नमोऽस्तु सुमाहात्मने ।। १६-९४ ।।

यतः समुद्राः सरितोऽद्रयश्च गन्धर्वयक्षासुरसिद्धसङ्घाः ।।
स्थाणुश्चरिष्णुर्महदल्पकं च असञ्च सज्जीवमजीवमास ।। १६-९५ ।।

नतोऽस्मि तं योगिनतांघ्रिपद्मं सर्वान्तरात्मानमरुपमीशम् ।।
स्वतन्त्रमेकं गुणिनां गुणं च नमामि भूयः प्रणमामि भूयः ।। १६-९६ ।।

इत्थं स्तुतो महादेवः शंकरो लोकशंकरः ।।
आविर्बभूव भृपस्य संतप्ततपसोग्रतः ।। १६-९७ ।।

पञ्चवक्रं दशभुजं चन्द्रार्ध्दकृतशेखरम् ।।
त्रिलोचनमुदाराङ्गं नागयज्ञोपवीतिनम् ।। १६-९८ ।।

विशालवक्षसं देवं तुहिनाद्रिसमप्रभम् ।।
गजचर्माम्बरधरं सुरार्चितपदाम्बुजम् ।। १६-९९ ।।

दृष्ट्वा पपात पादाग्रे दण्डवद्भुवि नारद ।।
तत उत्थाय सहसा शिवाग्रे विहिताञ्जलिः ।। १६-१०० ।।

प्रणनाम महादेवं कीर्तयञ्शंकराह्वयम् ।।
विज्ञाय भक्तिं भूपस्य शंकरः शशिशेखरः ।। १६-१ ।।

उवाच राज्ञे तुष्टोऽस्मि वरं वरय वाञ्छितम् ।।
तोषितोऽस्मि त्वया सम्यक् स्तोत्रेण तपसा तथा ।। १६-२ ।।

एवमुक्तः स देवेन राजा संतुष्टमानसः ।।
उवाच प्राञ्जलिर्भूत्वा जगतामीश्वरेश्वरेश्वरम् ।। १६-३ ।।

भगीरथ उवाच ।।
अनुग्राह्योऽस्मि यदि ते वरदानान्महेश्वर ।।
तदा गङ्गां प्रयच्छास्मत्पितॄणां मुक्तिहेतवे ।। १६-४ ।।

श्रीशिव उवाच ।।
दत्ता गङ्गा मया तुभ्यं पितॄणां ते गतिः परा ।।

तुभ्यं मोक्षं परश्चेति तमुक्त्वान्तर्दधे शिवः ।। १६-५ ।।
परर्दिनो जटास्त्रस्ता गङ्गा लोकैकपाविर्नी ।।

पावयन्ती जगत्सर्वमन्वगच्छद्भगीरथम् ।। १६-६ ।।

ततः प्रभृति सा देवी निर्मला मलहारिणी ।।
भागीरथीति विख्याता त्रिषु लोकेष्वभून्मुने ।। १६-७ ।।

सगरस्यात्मजाः पूर्वं यत्र दग्धाः स्वपाप्मना ।।
तं देशं प्लावयामास गङ्गा सर्वसरिद्वरा ।। १६-८ ।।

यदा संप्लावितं भस्म सागराणां तु गङ्गाया ।।
तदैव नरके मग्ना उद्धृताश्च गतैनसः ।। १६-९ ।।

पुरा संक्रुश्यमानेन ये यमेनातिपूडिताः ।।
त एव पूचितास्तेन गङ्गाजलपरिप्लुताः ।। १६-१० ।।

गतपापान्‌ सविज्ञाय यमः सगरसंभवान् ।।
प्रणम्याभ्यर्च्य विधिवत्प्राह तान्प्रीतमानसः ।। १६-११ ।।

भो भो राजसुता यूयं नरकाद् भृशदारुणात् ।।
मुक्ता विमानमारुह्य गच्छध्वं विष्णुमन्दिरम् ।। १६-१२ ।।

इत्युक्तास्ते महात्मानो यमेन गतकल्मषाः ।।
दिव्यदेहधरा भूत्वा विष्णुलोकं प्रपेदिरे ।। १६-१३ ।।

एवंप्रभावा सा गङ्गा विष्णुपादाग्रसंभवा ।।
सर्वलोकेषु विख्याता महापातकनाशिनी ।। १६-१४ ।।

य इदं पुण्यमाख्यानं महापातकनाशनम् ।।
पठेच्च श्रृणुयाद्वापि गङ्गास्नानफलं लभेत् ।। १६-१५ ।।

यस्त्वे तत्पुण्यमाख्यानं कथयेद्ब्राह्यणाग्रतः ।।
स याति विष्णुभवनं पुनरावृत्तिवर्जितम् ।। १६-१६ ।।

इति श्रूबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्ये भगीरथगङ्गानयनं नाम षोडषोऽध्यायः ।।