नारदपुराणम्- पूर्वार्धः/अध्यायः ४६
सूत उवाच ।।
तच्छृत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् ।।
पुनः पप्रच्छ तं प्रीत्या सनंदनमुदारधीः ।। ४६-१ ।।
नारद उवाच ।।
आध्यात्मिकादित्रिविधं तापं नानुभवेद्यथा ।।
प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे ।। ४६-२ ।।
सनंदन उवाच ।।
तदस्य त्रिविधं दुःखमिह जातस्य पंडित ।।
गर्बे जन्मजराद्येषुस्थानेषु प्रभविष्यतः ।। ४६-३ ।।
निरस्तातिशयाह्लादसुखभावैकलक्षणा ।।
भेषजं भगवत्प्राप्तिरैका चात्यंतिकी मता ।। ४६-४ ।।
तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पंडितैर्नरैः ।।
तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने ।। ४६-५ ।।
आगमोत्थं विवेकाञ्च द्विधा ज्ञानं तथोच्यते ।।
शब्दब्रह्मागममयं परं ब्रह्मविवेकजम् ।। ४६-६ ।।
मनुरप्याह वेदार्थं स्मृत्वायं मुनिसत्तमः ।।
तदेतच्छ्रूयतामत्र सुबोधं गदतो मम ।। ४६-७ ।।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।। ४६-८ ।।
द्वे विद्ये वेदितव्ये चेत्याह चाथर्वणी श्रुतिः ।।
परमा त्वक्षरप्राप्तिर्ऋग्वेदादिमया परा ।। ४६-९ ।।
यत्तदव्यक्तमजरमनीहमजमव्ययम् ।।
अनिर्देश्यमरूपं च पाणिपादादिसंयुतम् ।। ४६-१० ।।
विभुं सर्वगतं नित्यं भूतयोनिमकारणम् ।।
व्याप्यं व्याप्तं यतः सर्वं तं वै पश्यंति सूरयः ।। ४६-११ ।।
तद्बूह्य तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः ।।
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ।। ४६-१२ ।।
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।।
वाचको भगवच्छब्दस्तस्योद्दिष्टोऽक्षयात्मनः ।। ४६-१३ ।।
एवं निगदितार्थस्य यत्तत्वं तस्य तत्त्वतः ।।
ज्ञायते येन तज्ज्ञानं परमन्यत्रयीमयम् ।। ४६-१४ ।।
अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विजा ।।
पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ।। ४६-१५ ।।
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते ।।
भगवन्भगवच्छब्दः सर्वकारणकारणे ।। ४६-१६ ।।
ज्ञेयं ज्ञातेति तथा भकारोऽर्थद्वयात्मकः ।।
तेनागमपिता स्रष्टा गकारोऽयं तथा मुने ।। ४६-१६ ।।
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।। ४६-१७ ।।
वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ।।
सर्वभूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ।। ४६-१८ ।।
एवमेव महाशब्दो भगवानिति सत्तम ।।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ।। ४६-१९ ।।
तत्र पूज्यपदार्थोक्तिः परिभाषासमन्वितः ।।
शब्दोऽयं नोपचारेण चान्यत्र ह्युपचारतः ।। ४६-२० ।।
उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ।। ४६-२१ ।।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।। ४६-२२ ।।
सर्वाणि तत्र भूतानि वसंति परमात्मनि ।।
भूतेषु वसनादेव वासुदेवस्ततः स्मृतः ।। ४६-२३ ।।
खांडिक्यं जनकं प्राह पृष्टः केशिध्वजः पुरा ।।
नामव्याख्यामनंतस्य वासुदेवस्य तत्त्वतः ।। ४६-२४ ।।
भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् ।।
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ।। ४६-२५ ।।
स सर्वभूतप्रकृतिं विकारं गुणादिदोषांश्च मुने व्यतीतः ।।
अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनांतरालम् ।। ४६-२६ ।।
समस्तकल्याणगुणं गुणात्मको हित्वातिदुःखावृतभूतसर्गः ।।
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ।। ४६-२७ ।।
तेजोबलैश्वर्यमहावबोधं स्ववीर्यशक्त्यादुगुणैकराशिः ।।
परः पराणां सकला न यत्र क्लेशादयः संति परावरेशे ।। ४६-२८ ।।
स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः ।।
सर्वेश्वरः सर्वनिसर्गवेत्ता समस्तशक्तिः परमेश्वराख्यः ।। ४६-२९ ।।
स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेव रूपम् ।।
संदृश्यते चाप्यवगम्यते च तज्ज्ञानमतोऽन्यदुक्तम् ।। ४६-३० ।.
स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः ।।
तत्प्राप्तिकारणं ब्रह्म तवेतत्प्रतिपद्यते ।। ४६-३१ ।।
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् ।।
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ।। ४६-३२ ।।
तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथापरम् ।।
न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ।। ४६-३३ ।।
।। नारद उवाच ।।
भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ।।
ज्ञाते यन्नाखिलाधारं पश्येयं परमेश्वरम् ।। ४६-३४ ।।
सनंदन उवाच ।।
केशिध्वजो यथा प्राह खांडिक्याय महात्मने ।।
जनकाय पुरा योगं तथाहं कथयामि ते ।। ४६-३५ ।।
नारद उवाच ।।
खांङिक्यः कोऽभवद्बह्यन्को वा केशिध्वजोऽभवत् ।।
कथं तयोश्च संवादो योगसंबन्धवानभूत् ।। ४६-३६ ।।
सनंदन उवाच ।।
धर्मध्वजो वै जनक तस्य पुशेऽमितध्वजः ।।
कृतध्वजोऽस्य भ्राताभूत्सदाध्यात्मरतिर्नृपः ।। ४६-३७ ।।
कृतध्वजस्य पुत्रोऽभूद्धन्यः केशिध्वजो द्विजः ।।
पुत्रोऽमितव्वजस्यापि खांडिक्यजनकाभिधः ।। ४६-३८ ।।
कर्ममार्गे हि खांडिक्यः स्वराज्यादवरोपितः ।।
पुरोधसा मंत्रिभिश्च समवेतोऽल्पसाधनः ।। ४६-३८ ।।
राज्यान्निराकृतः सोऽथ दुर्गारण्यचरोऽभवत् ।।
इयाज सोऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः ।। ४६-३९ ।।
ब्रह्मविद्यामधिष्टाय तर्तुं मृत्युमपि स्वयम् ।।
एकदा वर्तमानस्य यागे योगविदां वर ।। ४६-४० ।।
तस्य धेनुं जघानोग्रः शार्दूलो विजने वने ।।
ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण चर्त्विजः ।। ४६-४१ ।।
प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् ।।
ते चोचुर्नवयंविद्मः कशेरुः पृच्छ्यतामिति ।। ४६-४२ ।।
कशेरुरपि तेनोक्तस्तथेति प्राह नारद ।।
शुनकं पृच्छ राजेन्द्र वेद स वेत्स्यति ।। ४६-४३ ।।
स गत्वा तमपृच्छञ्च सोऽप्याह नृपतिं मुने ।।
न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि ।। ४६-४४ ।।
वेत्त्येक एव त्वच्छत्रुः खांडिक्यो यो जितस्त्वया ।।
स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने ।। ४६-४५ ।।
प्राप्त एव मया यज्ञे यदि मां स हनिष्यति ।।
प्रायश्चित्तं स चेत्पृष्टो वदिष्यति रिपुर्मम ।। ४६-४६ ।।
ततश्चाविकलो योगो मुनिश्रेष्ट भविष्यति ।।
इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः ।। ४६-४७ ।।
वनं जगाम यत्रास्ते खांडिक्यः स महीपतिः ।।
तमायांतं समालोक्य खांजडिक्यो रिपुमात्मनः ।। ४६-४८ ।।
प्रोवाच क्रोधताम्राक्षः समारोपितकार्मुकः ।।
खांडिक्य उवाच ।।
कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि ।। ४६-४९ ।।
कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ।।
मृगानां वद पृष्टेषु मूढ कृष्णाजिनं न किम् ।। ४६-५० ।।
येषां मत्वा वृथा चोग्राः प्रहिताः शितसायकाः ।।
स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ।। ४६-५१ ।।
आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ।।
केशिध्वज उवाच ।।
खांडिक्य संशयं प्रष्टुं भवंतमहमागतः ।। ४६-५२ ।।
न त्वां हंतुं विचार्यतैत्कोपं बाणं च मुंच वा ।।
ततः स मंत्रिभिः सार्द्धमेकांते सपुरोहितः ।। ४६-५३ ।।
मंत्रयामास खांडिक्यः सर्वैरेव महामतिः ।।
तमूर्मंत्रिणो वध्यो रिपुरेष वशंगतः ।। ४६-५४ ।।
हतेऽत्र पृथिवी सर्वा तव वश्या भविष्यति ।।
खांडिक्यश्चाह तान्सर्वानेवमेव न संशयः ।। ४६-५५ ।।
हते तु पृथिवी सर्वा मम वश्या भविष्यति ।।
परलोकजयस्तस्य पृथिवी सकला मम ।। ४६-५६ ।।
न हन्मि चेल्लोकजयो मम वयत्वस्सुंधरा ।।
परलोकजयोऽनंतः स्वल्पकालो महीजयः ।। ४६-५७ ।।
तस्मान्नैनं हनिष्येऽहं यत्पृच्छति वदामि तत् ।।
ततस्तमभ्युपेत्याह खांडिक्यो जनको रिपुम् ।। ४६-५८ ।।
प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छ त्वं वदाम्यहम् ।।
ततः प्राह यथावृत्तं होमधेनुवधं मुने ।। ४६-५९ ।।
ततश्च तं स पप्रच्छ प्रायश्चित्तं हि तद्रूतम् ।।
स चाचष्ट यथान्यायं मुने केशिध्वजाय तत् ।। ४६-६० ।।
प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते ।।
विदितार्थः स तेनैवमनुज्ञातो महात्मना ।। ४६-६१ ।।
यागभूमिमुपागत्य चक्रे सर्वां क्रियां क्रमत् ।।
क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः ।। ४६-६२ ।।
कृतकृत्यस्ततो भूत्वा चिंतयामास पार्थिवः ।।
पूजिता ऋत्विजः सर्वे सदस्या मानिता मया ।। ४६-६३ ।।
तथैवार्थिजनोऽप्यर्थोजितोऽभिमतैर्मया ।।
यथाहं मर्त्यलोकस्य मया सर्वं विचष्टितम् ।। ४६-६४ ।।
अनिष्पन्नक्रियं चेतस्तथा न मम किं यथा ।।
इत्थं तु चिंतयन्नेव सम्मार स महीपतिः ।। ४६-६५ ।।
खांडिक्याय न दत्तेति मया वैगुरुदक्षिणा ।।
स जगाम ततो भूयो रथमारुह्य पार्थिवः ।। ४६-६६ ।।
स्वायंभुवः स्थितो यत्र खांडिक्योऽरण्यदुर्गमम् ।।
खांडिक्योऽपि पुनर्द्दष्ट्वा तमायान्तं धृतायुधः ।। ४६-६७ ।।
तस्थौ हंतुं कृतमतिस्ममाह स पुनर्नृपः ।।
अहं तु नापकाराय प्राप्तः खांडिक्य मा क्रुधः ।। ४६-६८ ।।
गुरोर्निष्कृतिदानाय मामवेहि सेमागतम् ।।
निष्पादितो मया यागः सम्यक् त्वदुपदेशतः ।। ४६-६९ ।।
सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ।।
इत्युक्तो मंत्रयामास स भूयो मंत्रिभिः सह ।। ४६-७० ।।
गुरोर्निष्कृतिकामोऽय किमयं प्रार्थ्यतां मया ।।
तमूचुर्मंत्रिणो राज्यमशेषं याच्यतामयम् ।। ४६-७१ ।।
कृताभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ।।
प्राहस्य तानाह नृपः स खांडिक्यो महापतिः ।। ४६-७२ ।।
स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् ।।
एतमेतद्भंवतोऽत्र स्वार्थ साधनमंत्रिणः ।। ४६-७३ ।।
परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ।।
इत्युक्त्वा समुपेत्यैंनं स तु केशिध्वजं नृपम् ।। ४६-७४ ।।
उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणाम् ।।
बाढमित्येव तेनोक्तः खांडिक्यस्तमथाब्रवीत् ।। ४६-७५ ।।
भवानध्यात्मविज्ञानपरमार्थविचक्षणः ।।
यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः ।। ४६-७६ ।।
तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ।।
केशिध्वज उवाच ।।
न प्रार्थितं त्वया कस्मान्मम राज्यमकंटकम् ।। ४६-७७ ।।
राज्यलाभाः द्धि नास्त्यन्यत्क्षत्रियाणामतिप्रियम् ।।
खांडिक्य उवाच ।।
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ।। ४६-७८ ।।
राज्यमेतदशेषेण यन्न गृघ्रंति पंडिताः ।।
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ।। ४६-७९ ।।
वधश्च धर्मयुद्धेन स्वराज्यपरिपंथिनाम् ।।
यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया ।। ४६-८० ।।
बंधायैव भवत्येषा ह्यविद्या चाक्रमोज्झिता ।।
जन्मोपभोगलिप्सार्थमियं राज्यस्पृहा मम ।। ४६-८१ ।।
अन्येषां दोपजानेव धर्ममेवानुरुध्यते ।।
न याच्ञा क्षत्रबंधूनां धर्मायैतत्सतां मतम् ।। ४६-८२ ।।
अतो न याचित राज्यमविद्यांतर्गतं तव ।।
राज्यं गृध्नंति विद्वांसो ममत्वाकृष्टचेतसः ।। ४६-८३ ।।
अहंमानमह्य पानमदमत्ता न मादृशाः ।।
केशिध्वज उवाच ।।
अहं च विद्यया मृत्युं तर्तुकामः करोमि वै ।। ४६-८४ ।।
राज्यं यज्ञांश्च विविधान्भोगे पुण्यक्षयं तथा ।।
तदिदं ते मनो दिष्ट्या विवेकैश्चर्यतां गतम् ।। ४६-८५ ।।
श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनंदन ।।
अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः ।। ४६-८६ ।।
अविद्यातरुसंन्भूतं बीजमेतद्द्विधा स्थितम् ।।
पंचभूतात्मके देहे देही मोहतमोवृत्तः ।। ४६-८७ ।।
अहमेतदितीत्युञ्चैः कुरुते कुमतिर्मतिम् ।।
आकाशवाय्वग्रिजलपृथिवीभिः पृथक् स्थिते ।। ४६-८८ ।।
आत्मन्यात्ममयं भावं कः करोति कलेवरे ।।
कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत् ।। ४६-८९ ।।
अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ।।
इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च ।। ४६-९० ।।
करोति पंडितः स्वाम्यमनात्मनि कलेवरे ।।
सर्वदेहोपभोगाय कुरुते कर्म मानवः ।। ४६-९१ ।।
देहं चान्यद्यदा पुंसस्सदा बंधाय तत्परम् ।।
मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा ।। ४६-९२ ।।
पार्थिवोऽयं तथा देहो मृदंभोलेपनस्थितिः ।।
पंचभोगात्मकैर्भोगैः पंचभोगात्मकं वपुः ।। ४६-९३ ।।
आप्यायते यदि ततः पुंसो गर्वोऽत्र किंकृतः ।।
अनेकजन्मसाहस्त्रं ससारपदवीं व्रजन् ।। ४६-९४ ।।
मोहश्रमं प्रयातोऽसौ वासनारेणुगुंठितः ।।
प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा ।। ४६-९५ ।।
तदा संसारपांथस्य याति मोहश्रमः शमम् ।।
मोहश्रमे शमं याते स्वच्छांतःकरणः पुमान् ।। ४६-९६ ।।
अनन्यातिशयाधारः परं निर्वाणमृच्छति ।।
निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ।। ४६-९७ ।।
दुःखाज्ञानमया धर्माः प्रकृतेस्ते तुनात्मनः ।।
जलस्य नाग्निना संगः स्थालीसंगात्तथापि हि ।। ४६-९८ ।।
शब्दोद्रेकादिकान्धर्मान्करोति हि यथा बुधः ।।
तथात्मा प्रकृतेः संगादहंमानादिदूषितः ।। ४६-९९ ।।
भजते प्राकृतान्धर्मान्न्यस्तस्तंभो हि सोऽव्ययः ।।
तदेतत्कथितं बीजमविद्याया मया तव ।। ४६-१०० ।।
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ।। ४६-१०१ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे षट्चत्वारिंशत्तमोऽध्यायः ।।