← अष्टमोध्यायः निरुक्तशास्त्रम्
नवमोध्यायः
[[लेखकः :|]]
दशमोध्यायः →

अथ नवमोऽध्यायः
अथ यानि पृथिव्यायतनानि सत्त्वानि स्तुतिं लभन्ते तान्यतोऽनुक्रमिष्यामः । तेषामश्वः प्रथमागामी भवति । अश्वो व्याख्यातः । तस्यैषा भवति ९.१

[१]अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः ।
शेपो रोम॑ण्वन्तौ भेदौ वारिन्मण्डूक इच्छति इन्द्रायेन्दो परि स्रव ॥
अश्वो वोळ्हा । सुखं वोळ्हा रथं वोळ्हा । सुखमिति कल्याणनाम । कल्याणं पुण्यं सुहितं भवति । सुहितं गम्यतीति वा । हसैता वा पाता वा पालयिता वा । शेषमृच्छतीति । वारि वारयति ।
मा नो व्याख्यातः । तस्यैषा भवति ९.२

[२]मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् ।
यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामे विदथे वीर्याणि ॥
यद्वाजिनो देवैर्जातस्य सप्तेः सरणस्य प्रवक्ष्यामो यज्ञे विदथे वीर्याणि । मा नस्त्वं मित्रश्च वरुणश्चार्यमा चायुश्च वायुरयन इन्द्रश्चोरुक्षयण ऋभूणां राजेति वा मरुतश्च परिख्यन् । शकुनिः शक्नोत्युन्नेतुमात्मानम् । शक्नोति नदितुमिति वा । शक्नोति तकितुमिति वा । सर्वतः शङ्करोऽस्त्विति वा । शक्नोतेर्वा । तस्यैषा भवति ९.३

[३]कनिक्रदज्जनुषं प्र ब्रुवाण इयर्ति वाचमरितेव नाव॑म् ।
सुमङ्गलश्च शकुने भवासि मा त्वा काचिदभिभा विश्व्या विदत् ॥
न्यक्रन्दीज्जन्म प्रब्रुवाणः । यथास्य शब्दस्तथा नामेरयति वाचम् । ईरयितेव नावम् । सुमङ्गलश्च शकुने भव । कल्याणमङ्गलः
। मङ्गलं गिरतेर्गृणात्यर्थे । गिरत्यनर्थानिति वा । अङ्गलमङ्गवत् । मज्जयति पापकमिति नैरुक्ताः । मां गच्छत्विति वा । मा च त्वा काचिदभिभूतिः सर्वतो विदत् । गृत्समदमर्थमभ्युत्थितं कपिञ्जलोऽभिववाशे । तदभिवादिन्येषर्भ्तवति ९.४

[४]भद्रं वद दक्षिणतो भद्रमुत्तरतो वद ।
भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जलः ॥
इति सा निगदव्याख्याता ।
गृत्समदो गृत्समदनः । गृत्स इति मेधाविनाम । गृणातेः स्तुतिकर्मणः ।
मण्डूका मज्जूका मज्जनात् । मदतेर्वा मोदतिकर्मणः । मन्दतेर्वा तृप्तिकर्मणः । मण्डयतेरिति वैयाकरणाः । मण्ड एषामोक इति वा । मण्डो मदेर्वा मुदेर्वा । तेषामेषा भवति ९.५

[५]संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥
संवत्सरं शिश्याना ब्राह्मणा व्रतचारिणोऽब्रुवाणाः । अपि वोपमार्थे स्यात् । ब्राह्मणा इव व्रतचारिण इति । वाचं पर्जन्यप्रीतां प्रावादिषुर्मण्डूकाः ।
वसिष्ठो वर्षकामः पर्जन्यं तुष्टाव । तं मण्डूका अन्वमोदन्त । स मण्डूकाननुमोदमानान्दृष्ट्वा तुष्टाव । तदभिवादिन्येषर्भ्सवति ९.६

[६]उप प्र वद मण्डूकि वर्ष मा वद तादुरि ।
मध्ये हृदस्य॑ प्लवस्व विगृह्य चतुरः पदः ॥ इति सा निगदव्याख्याता ।
अक्षा अश्नुवत एनानिति वा । अभ्यश्नुवत एभिरिति वा । तेषामेषा भवति ९.७

[७]प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः ।
सोमस्येव मौजव॒तस्य॑ भक्षो विभीदको जागृविर्मह्यमच्छान् ॥
प्रवेपिणो मा महतो विभीदकस्य फलानि मादयन्ति । प्रवातेजाः प्रवतेजाः ।
इरिणे वर्तमानाः । इरिणं निर्ऋणम् । ऋणातेः । अपार्णं भवति । अपरता अस्मादोषधय इति वा । सोमस्येव मौजवतस्य भक्षः । मौजवतो मूजवति जातः । मूजवान्पर्वतो मुञ्जवान् । मुञ्जो विमुच्यत इषीकया । इषीकेषतेर्गतिकर्मणः ।
इयमपीतरेषीकैतस्मादेव । विभीदको विभेदनात् ।
जागृविर्जागरणात् । मह्यमचच्छदत् । प्रशंसत्येनान्प्रथमया ।
निन्दत्युत्तराभिः । ऋषेरक्षपरिद्यूनस्यैतदार्षं वेदयन्ते ।
ग्रावाणो हन्तेर्वा । गृणातेर्वा । गृह्णातेर्वा । तेषामेषा भवति ९.८

[८]प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः ।
यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः ॥
प्रवदन्त्वेते । प्रवदाम वयम् । ग्रावभ्यो वाचं वदत वदद्भ्यः ।
यदद्रयः पर्वता अदरणीयाः सह सोममाशवः क्षिप्रकारिणः ।
श्लोकः शृणोतेः । घोषो घुष्यतेः । सोमिनो यूयं स्थेति वा ।
सोमिनो गृहेष्विति वा ।
येन नराः प्रशस्यन्ते स नाराशंसो मन्त्रः ।
तस्यैषा भवति । ९.९

[९]अमन्दान्त्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य॑ ।
यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥
अमन्दान्त्स्तोमानबालिशाननल्पान्वा । बालो बलवर्ती भर्तव्यो भवति । अम्बास्मा अलं भवतीति वा । अम्बास्मै बलं भवतीति वा । बलो वा प्रतिषेधव्यवहितः । प्रभरे मनीषया मनस ईषया स्तुत्या प्रज्ञया वा । सिन्धावधि निवसतो भावयव्यस्य राज्ञः । यो मे सहस्रं निरमिमीत सवानतूर्तो राजातूर्ण इति वा । अत्वरमाण इति वा । प्रशंसामिच्छमानः ९.१०
 
यज्ञसंयोगाद्राजा स्तुतिं लभेत । राजसंयोगाद् युद्धोपकरणानि । तेषां रथः प्रथमागामी भवति । रथो रंहतेर्गतिकर्मणः ।
स्थिरतेर्वा स्याद्विपरीतस्य । रममाणोऽस्मिंस्तिष्ठतीति वा ।
रपतेर्वा । तस्यैषा भवति ९.११

[१०]वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥
वनस्पते दृळ्हाङ्गो हि भव । अस्मत्सखा प्रतरणः सुवीरः कल्याणवीरः । गोभिः सन्नद्धो असि । वीळयस्वेति संस्तम्भस्व । आस्थाता ते जयतु जेतव्यानि ।
दुन्दुभिरिति शब्दानुकरणम् । द्रुमो भिन्न इति वा । दुन्दुभ्यतेर्वा स्याच्छब्दकर्मणः । तस्यैषा भवति ९.१२

[११]उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ।।
उपश्वासय पृथिवीं च दिवं च । बहुधा ते घोषं मन्यताम् ।
विष्ठितं स्थावरं जङ्गमं च यत् । स दुन्दुभे सहजोषण इन्द्रेण च देवैश्च ।
दूराद्दूरतरमपसेध शत्रून् । इषुधिरिषूणां निधानम् । तस्यैषा भवति ९.१३

[१२]बह्वीनां पिता बहुर॑स्य पुत्रश्चिश्चा कृणोति सम॑नावगत्यं ।
इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
बह्वीनां पिता बहुरस्य पुत्र इतीषूनभिप्रेत्य । प्रस्मयत इवापाव्रियमाणः । शब्दानुकरणं वा । सङ्काः सचतेः ।
संपूर्वाद्वा किरतेः । पृष्ठे निनद्धो जयति प्रसूत इति व्याख्यातम् ।
हस्तघ्नो हस्ते हन्यते । तस्यैषा भवति ९.१४

[१३]अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥
अहिरिव भोगैः परिवेष्टयति बाहुम् ।
ज्याया वधात्परित्रायमाणः । हस्तघ्नः सर्वाणि प्रज्ञानानि प्रजानन् । पुमान्पुरुमना भवति ।
पुंसतेर्वा ।
अभीशवो व्याख्याताः । तेषामेषा भवति ९.१५

[१४]रथे तिष्ठन्नयति वाजिनः पुरो यत्र यत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥
रथे तिष्ठन्नयति वाजिनः पुरस्तात्सतो यत्र यत्र कामयते ।
सुषारथिः कल्याणसारथिः । अभीशूनां महिमानं पूजयामि ।
मनः पश्चात्सन्तोऽनुयच्छन्ति रश्मयः ।
धनुर्धन्वतेर्गतिकर्मणः । वधकर्मणो वा । धन्वन्त्यस्मादिषवः । तस्यैषा भवति ९.१६

[१५]धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥
इति सा निगदव्याख्याता समदः समदो वात्तेः । सम्मदो वा मदतेः ।
ज्या जयतेर्वा । जिनातेर्वा । प्रजावयतीषूनिति वा । तस्या एषा भवति ९.१७

[१६]वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती ॥
वक्ष्यन्तीवागच्छति कर्णं प्रियमिव सखायमिषुं परिष्वजमाना ।
योषे वशिङ्क्ते शब्दं करोति । वितताधि धनुषि ज्येयं समने संग्रामे पारयन्ती । इषुरीषतेर्गतिकर्मणः । वधकर्मणो वा । तस्यैषा भवति ९.१८

[१७]सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्य॒मिषवः शर्म यंसन् ॥
सुपर्णं वस्त इति वाजानभिप्रेत्य । मृगमयोऽस्या दन्तः । मृगयतेर्वा । गोभिः सन्नद्धा पतति प्रसूतेति व्याख्यातम् । यत्र नराः संद्रवन्ति च विद्रवन्ति च तत्रास्मभ्यमिषवः शर्म यच्छन्तु शरणं संग्रामेषु ।
अश्वाजनीं कशेत्याहुः । कशा प्रकाशयति भयमश्वाय ।
कृष्यतेर्वाणूभावात् । वाक्पुनः प्रकाशयत्यर्थान् । खशया ।
क्रोशतेर्वा । अश्वकशाया एषा भवति ९.१९

[१८]आ जङ्घन्ति सान्वेषां जघनाँ उप जिघ्नते ।
अश्वाजनि प्रचेतसोऽश्वान्त्स॒मत्सु चोदय ॥
आघ्नन्ति सानून्येषां सरणानि सक्थीनि । सक्थि सचतेः ।
आसक्तोऽस्मिन् कायः । जघनानि चोपघ्नति । जघनं जङ्घन्यतेः । अश्वाजनि प्रचेतसः प्रवृद्धचेतसोऽश्वान्त्समत्सु समरणेषु संग्रामेषु चोदय ।
उलूखलमुरुकरं वा । ऊर्ध्वखं वा । ऊर्क्करं वा ।
उरु मे कुरु । इत्यब्रवीत् । तदुलूखलमभवत् ।
उरुकरं वैतदुलूखलमित्याचक्षते परोक्षेण । इति च ब्राह्मणम् ।
तस्यैषा भवति ९.२०

[१९]यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे ।
इह द्युमत्तमं वद जय॑तामिव दुन्दुभिः ॥
इति सा निगदव्याख्याता ९.२१

वृषभः प्रजां वर्षतीति वा । अतिबृहति रेत इति वा । तद्वर्षकर्मा
वर्षणाद्वृषभः । तस्यैषा भवति ९.२२

[२०]न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः ।
तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥
न्यक्रन्दयन्नुपयन्त इति व्याख्यातम् । अमेहयन्वृषभं मध्ये ।
आजयनस्याजवनस्येति वा । तेन सूभर्वं राजानम् ।
भर्वतिरत्तिकर्मा । तद्वा सूभर्वं सहस्रं गवां मुद्गलः प्रधने जिगाय । प्रधन इति सङ्ग्रामनाम । प्रकीर्णान्यस्मिन् धनानि भवन्ति ।
द्रुघणो द्रुममयो घनः । तत्रेतिहासमाचक्षते । मुद्गलो भार्म्यश्व ऋषिर्वृषभं च द्रुघणं च युक्त्वा सङ्ग्रामे व्यवहृत्याजिं जिगाय । तदभिवादिन्येषर्ग्भवति ९.२३

[२१]इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् ।
येन ज़िगाय॑ शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥
इमं तं पश्य वृषभस्य सहयुजं काष्ठाया मध्ये द्रुघणं शयानम् ।
येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ।
पृतनाज्यमिति सङ्ग्रामनाम । पृतनानामजनाद्वा । जयनाद्वा ।
मुद्गलो मुद्गवान् । मुद्गगिलो वा । मदनं गिलतीति वा । मदंगिलो वा । मुदंगिलो वा । भार्म्याश्वो भृम्यश्वस्य पुत्रः ।
भृम्यश्वो भृमयोऽस्याश्वाः । अश्वभरणाद्वा ।
पितुरित्यन्ननाम । पातेर्वा । पिबतेर्वा । प्यायतेर्वा । तस्यैषा भवति ९.२४

[२२]पितुं नु स्तोषं महो धर्माणं तविषीम् ।
यस्य॑ त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥
तं पितुं स्तौमि महतो धारयितारं बलस्य । तविषीति बलनाम ।
तवतेः वा वृद्धिकर्मणः । यस्य त्रित ओजसा बलेन ।
त्रितस्त्रिस्थान इन्द्रो वृत्रं विपर्वाणं व्यर्दयति ।
नद्यो व्याख्याताः । तासामेषा भवति ९.२५

[२३]इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ।
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥
इमं मे गङ्गे यमुने सरस्वति शुतुद्रि परुष्णि स्तोममासेवध्वम् ।
असिक्न्या च सह मरुद्वृधे वितस्तया चार्जीकीय आशृणुहि सुषोमया चेति समस्तार्थः । अथैकपदनिरुक्तम् । गङ्गा गमनात् । यमुना प्रयुवती गच्छतीति वा । प्रवियुतं गच्छतीति वा ।
सरस्वती । सर इत्युदकनाम । सर्तेः । तद्वती । शुतुद्री शुद्राविणी । क्षिप्रद्राविणी । आशु तुन्नेव द्रवतीति वा ।
इरावतीं परुष्णीत्याहुः । पर्ववती कुटिलगामिनी ।
असिक्न्यशुक्लासिता । सितमिति वर्णनाम ।
तत्प्रतिषेधोऽसितम् । मरुद्वृधाः सर्वा नद्यो मरुत एना वर्धयन्ति ।
वितस्ताविदग्धा विवृद्धा महाकूला । आर्जीकीयां विपाडित्याहुः। ऋजीकप्रभवा वा । ऋजुगामिनी वा । विपाड् विपाटनाद्वा । विपाशनाद्वा । विप्रापणाद्वा । पाशा अस्यां व्यपाश्यन्त वसिष्ठस्य मुमूर्षतः । तस्माद्विपाडुच्यते । पूर्वमासीदुरुञ्जिरा ।
सुषोमा सिन्धुः । यदेनामभिप्रसुवन्ति नद्यः । सिन्धुः स्यन्दनात् ।
आप आप्नोतेः । तासामेषा भवति ९.२६

[२४]आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय॒ चक्षसे ॥
आपो हि स्थ सुखभुवस्ता नोऽन्नाय धत्त । महते च नो रणाय रमणीयाय च दर्शनाय ।
ओषधय ओषद्धयन्तीति वा । ओषत्येना धयन्तीति वा । दोषं धयन्तीति वा । तासामेषा भवति ९.२७

[२५]या ओषधीः पूर्वा जाता देवेभ्य॑स्त्रियुगं पुरा ।
मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥
या ओषधयः पूर्वा जाता देवेभ्यस्त्रीणि युगानि पुरा मन्ये नु
तद्बभ्रूणामहं बभ्रुवर्णानां हरणानां भरणानामिति वा । शतं धामानि सप्त च । धामानि त्रयाणि भवन्ति । स्थानानि । नामानि । जन्मानीति । जन्मान्यत्राभिप्रेतानि । सप्तशतं पुरुषस्य मर्मणां तेष्वेना दधतीति वा ।
रात्रिर्व्याख्याता । तस्या एषा भवति ९.२८

[२६]आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः ।
दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥
आपूपुरस्त्वं रात्रि पार्थिवं रजः । स्थानैर्मध्यमस्य । दिवः सदाँसि । बृहती महती वितिष्ठस आवर्तते त्वेषं तमो रजः ।
अरण्यान्यरण्यस्य पत्नी । अरण्यमपार्णम् । ग्रामादरमणं भवतीति वा । तस्या एषा भवति ९.२९

[२७]अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि ।
कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती ३ ॥
अरण्यानीत्येनामामन्त्रयते । यासावरण्यानि वनानि पराचीव नश्यसि कथं ग्रामं न पृच्छसि । न त्वा भीर्विन्दतीवेति । इवः परिभयार्थे वा । श्रद्धा श्रद्धानात् । तस्या एषा भवति ९.३०

[२८]श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः ।
श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥
श्रद्धयाग्निः साधु समिध्यते । श्रद्धया हविः साधु हूयते । श्रद्धां भगस्य भागधेयस्य मूर्धनि प्रधानाङ्गे वचनेनावेदयामः ।
पृथिवी व्याख्याता । तस्या एषा भवति ९.३१

[२९]स्योना पृथिवि भवानृक्षरा निवेशनी ।
यच्छा नः शर्म सप्रथः ॥
सुखा नः पृथिवि भव । अनृक्षरा निवेशनी । ऋक्षरः कण्टक ऋच्छतेः । कण्टकः कन्तपो वा । कृन्ततेर्वा । कण्टतेर्वा स्याद्गतिकर्मणः । उद्गततमो भवति । यच्छ नः शर्म । यच्छन्तु शरणं सर्वतः पृथु ।
अप्वा व्याख्याता । तस्या एषा भवति ९.३२

[३०]अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तम॑सा सचन्ताम् ॥
अमीषां चित्तानि प्रज्ञानानि प्रतिलोभयमाना गृहाणाङ्गान्यप्वे परेहि
। अभिप्रेहि । निर्दहैषां हृदयानि शोकैः । अन्धेनामित्रास्तमसा संसेव्यन्ताम् ।
अग्नाय्यग्नेः पत्नी । तस्या एषा भवति ९.३३

[३१]इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये ।
अग्नायीं सोमपीतये ॥
इति सा निगदव्याख्याता ९.३४

अथातोऽष्टौ द्वन्द्वानिः । उलूखलमुसले । उलूखलं व्याख्यातम् । मुसलं मुहुः सरम् । तयोरेषा भवति ९.३५

[३२]आयजी वाजसातमा ता ह्युच्चा विजर्भृतः ।
हरी इवान्धाँसि बप्सता ॥
आयष्टव्ये अन्नानां संभक्ततमे ते ह्युच्चैर्विह्रियेते हरी इवान्नानि भुञ्जाने ।
हविर्धाने हविषां निधाने । तयोरेषा भवति ९.३६

[३३]आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः ।
इहाद्य सोमपीतये ॥
आसीदन्तु वामुपस्थमुपस्थानम् अद्रोग्धव्ये इति वा यज्ञिया देवा यज्ञसंपादिन इहाद्य सोमपानाय ।
द्यावापृथिव्यौ व्याख्याते । तयोरेषा भवति ९.३७

[३४]द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् ।
यज्ञं देवेषु यच्छताम् ॥
द्यावापृथिव्यौ न इमं साधनमद्य दिविस्पृशं यज्ञं देवेषु नियच्छताम्
विपाट्छुतुद्र्यौ व्याख्याते । तयोरेषा भवति ९.३८

[३५]प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
गावैव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पय॑सा जवेते ॥
पर्वतानामुपस्थादुपस्थानात् । उशत्यौ कामयमाने । अश्वे इव विमुक्ते इति वा । विषण्णे इति वा । हासमाने । हासतिः स्पर्धायां । हर्षमाणे वा । गावाविव शोभने मातरौ संरिहाणे । विपाट्छुतुद्री पयसा प्रजवेते ।
आर्त्नी अर्तन्यौ वा । अरण्यौ वा । अरिषण्यौ वा ।
तयोरेषा भवति ९.३९

[३६]ते आचर॑न्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे ।
अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥
ते आचरन्त्यौ समनसाविव योषे मातेव पुत्रं बिभृतामुपस्थ उपस्थाने । अपविध्यतां शत्रून्त्संविदाने आर्त्र्याविमे विघ्नत्यावमित्रान् ।
शुनासीरौ । शुनो वायुः । शु एत्यन्तरिक्षे । सीर आदित्यः सरणात् । तयोरेषा भवति ९.४०

[३७]शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः ।
तेनेमामुप॑ सिञ्चतम् ॥
इति सा निगदव्याख्याता ।
देवी जोष्ट्री देव्यौ जोषयित्र्यौ । द्यावापृथिव्याविति वा ।
अहोरात्रे इति वा । सस्यं च समा चेति कात्थक्यः । तयोरेष संप्रेषो भवति ९.४१

देवी जोष्ट्री वसुधीती ययोरन्याघा द्वेषाँसि यूयवदान्यावक्षद्वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज ॥
देवी जोष्ट्री । देव्यौ जोषयित्र्यौ । वसुधान्यौ । ययोरन्याघानि द्वेषांस्यवयावयत्यावहत्यन्या वसूनि वननीयानि यजमानाय ।
वसुवननाय च । वसुधानाय च । वीतां पिबेतां कामयेतां वा । यजेति संप्रैषः ।
देवी ऊर्जाहुती । देव्या ऊर्जाह्वान्यौ । द्यावापृथिव्याविति वा । अहोरात्र इति वा । सस्यं च समा चेति कात्थक्यः । तयोरेष संप्रैषो भवति ९.४२

देवी ऊर्जाहुती इषमूर्जमन्या वक्षत्सग्धिं सपीतिमन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज ॥
देवी ऊर्जाहुती । देव्या ऊर्जाह्वान्यौ । अन्नं च रसं चावहति अन्या । सहजग्धिं च सहपीतिं चान्या । नवेन पूर्वं दयमानाः स्याम । पुराणेन नवम् । तामूर्जमूर्जाहुती ऊर्जयमाने अधाताम् । वसुवननाय च । वसुधानाय च । वीतां पिबेतां कामयेतां वा । यजेति संप्रैषो यजेति संप्रैषः ९.४३

अथ यान्यश्वो वोळ्हा मा नो मित्रः कनिक्रदद् भद्रं वद संवत्सरमुप प्र वद प्रावेपा मा प्रैते वदन्त्वमन्दान्यज्ञसंयोगाद्वनस्पत उप श्वासय बह्वीनामहिरिव भोगै रथे तिष्ठन्धन्वना गा वक्ष्यन्तीवेदा सुपर्णं वस्त आ जङ्घन्ति यच्चिद्धि त्वं वृषभो न्यक्रन्दयन्निमं तं पितुं न्विमं म आपोहिष्ठा या ओषधीरा रात्र्यरण्यानि श्रद्धयाग्निः स्योनामीषां चित्तमिहेन्द्राण्यथातोऽष्टावायज्या वां द्यावा नः प्र पर्वतानां ते आचरन्ती शुनासीरौ देवी जोष्ट्री देवी ऊर्जाहुती त्रिचत्वारिंशत् ॥
इत्युत्तरषट्के तृतीयोऽध्यायः
इति निरुक्ते नवमोऽध्यायः




सम्पाद्यताम्

टिप्पणी

९.२८ धामानि त्रयाणि भवन्ति --

धाम उपरि संक्षिप्त टिप्पणी

  1. ९.११२.४
  2. १.१६२.१
  3. २.४२.१
  4. खिल सूक्तानि अध्याय २
  5. ७.१०३.१
  6. शौअ. ४.१५.१४
  7. १०.३४.१
  8. १०.९४.१
  9. १.१२६.१
  10. ६.४७.२६
  11. ६.४७.२९
  12. ६.७५.५
  13. ६.७५.१४
  14. ६.७५.६
  15. ६.७५.२
  16. ६.७५.३
  17. ६.७५.११
  18. ६.७५.१३
  19. १.२८.५
  20. १०.१०२.५
  21. १०.१०२.९
  22. १.१८७.१
  23. १०.७५.५
  24. १०.९.१
  25. १०.९७.१
  26. शौअ १९.४७.१
  27. १०.१४६.१
  28. १०.१५१.१
  29. १.२२.१५
  30. १०.१०३.१२
  31. १.२२.१२
  32. १.२८.७
  33. २.४१.२१
  34. २.४१.२०
  35. ३.३३.१
  36. ६.७५.४
  37. ४.५७.५