पूर्वपुटम्


अपि च ।
आवर्तः संशयानामविनयभवनं पत्तनं साहसानां
दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् ।
दुर्ग्राह्यं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्डं
स्त्रीयन्त्रं केन लोके विषममृतयुतं धर्मनाशाय सृष्टम् ।। २०१ ।।
कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे दृश्यते
कौटिल्यं कचसंचये प्रवचने मान्द्यं त्रिके स्थूलता ।
भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये
यासां दोषगणो गुणा मृगदृशां ताः किं नराणां प्रियाः ।। २०२ ।।
एता हसन्ति च रुदन्ति च कार्यहेतो-
र्विश्वासयन्ति च परं न च विश्वसन्ति ।
तस्मान्नरेण कुलशीलवेता सदैव
नार्यः श्मशानघटिका इव वर्जनीयाः ।। २०३ ।।
तस्मान् नरेण कुलशीलवता सदैव
नार्यः श्मशान-वटिका इव वर्जनीयाः।
व्यकीर्ण-केसर-कराल-मुखा मृगेन्द्रा
नागाश् च भूरि-मद-राज-विराजमानाः॥पञ्च_१.२०४॥
कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् ।
ज्ञात्वाथ तं मन्मथपाशबद्धं ग्रस्तामिषं मीनमिवोद्धरन्ति ।। २०५ ।।
किंच ।
समुद्रवीचीव चलस्वभावाः संध्याभ्ररेखेव मुहूर्तरागाः ।
स्त्रियः कृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ।। २०६ ।।
अनृतं साहसं माया मूर्खत्वमतिलोभता ।
अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ।। २०७ ।।
एताः प्रविश्य सरलं हृदयं नराणां
किं वा न वाम-नयना न समाचरंति॥पञ्च_१.२०८॥
अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः ।
गुञ्जाफलसमाकारा योषितः केन निर्मिताः ।। २०९।।
एवं चिन्तयतस्तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम ।
सा च दूतिका हस्तगतछिन्ननासिकाग्रा स्वगृहं गत्वा चिन्तयामास - किमिदानीं कर्तव्यम् । कथमेतन्महच्छिद्रं स्थगयितव्यम्।

अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्यवशाद्राजकुले पर्युषितः प्रत्यूषे स्वगृहमभ्युपेत्य द्वारदेशस्थो विविधपौरकृत्योत्सुकतया तामाह-भद्रे शीघ्रमानीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि । सापि छिन्ननासिका गृहमध्यस्थितैव कार्यकरणापेक्षया क्षुरभाण्डात्क्षुरमेकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितोऽप्युत्सुकतयाऽभाण्डं क्षुरमवलोक्य कोपाविष्टः संस्तदभिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टोर्ध्वबाहु विधाय फूत्कुर्वती गृहान्निश्चक्राम । अहो पापेनानेन मम सदाचारवर्तिन्याः पश्यत नासिकाच्छेदो विहितः । तत्परित्रायतां परि- त्रायताम् ।
 
अत्रान्तरे राजपुरुषाः समभ्युपेत्य तं नापितं लगुडप्रहारैर्जजरीकृत्य दृढबन्धनैर्बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरणस्थानं नीत्वा सभ्यानूचुः - शृण्वन्तु भवन्तः सभासदो अनेन नापितेनापराधं विना स्त्रीरत्नमेतद्व्यङ्गितम् । तदस्य यद्युज्यते तत्क्रियताम् ।
इत्यभिहिते सभ्या ऊचुः - रे नापित किमर्थं त्वया भार्या व्यङ्गिता । किमनया परपुरुषोऽभिलषित उतस्वित्प्राणद्रोहः कृतः किंवा चौर्यकर्माचरितम् । तत्कथ्यतामस्या अपराधः । नापितोऽपि प्रहारपीडिततनुर्वक्तुं न शशाक ।
अथ तं तूष्णीभूतं दृष्ट्वा पुनः सभ्या ऊचुः -अहो सत्यमेतद्राजपुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च-

भिन्नस्वरमुखवर्णः शङ्कितदृष्टिः समुत्पतिततेजाः ।
भवति हि पापं कृत्वा स्वकर्मसंत्रासितः पुरुषः ।। २१० ।।
तथा च । आयाति स्खलितैः पादैर्मुखवैवर्ण्यसंयुतः ।
ललाटस्वेदभाग्भूरि गद्गदं भाषते वचः ।। २११ ।।
अधोदृष्टिर्भवेत्कृत्वा पापं प्राप्तः सभां नरः ।
तस्माद्यत्नात्परिज्ञेयश्चिह्नैरेतैर्विचक्षणैः ।। २१२ ।।
अन्यच्च । प्रसन्नवदनो हृष्टः स्पष्टवाक्यः सरोषदृक् ।
सभायां वक्ति सामर्षः सावष्टम्भो नरः शुचिः ।। २१३ ।।

तदेष दुष्टचरित्रलक्षणो दृश्यते । स्त्रीधर्षणाद्वध्य इति । तच्छूलायामारोप्य - तामिति ।
अथ वध्यस्थाने नीयमानं तमवलोक्य देवशर्मा तान्धर्माधिकृतान्गत्वा प्रोवाच-भो भोः सभासदः अन्यायेनैष वराको वध्यते नापितः । साधुसमाचारोयम् । तच्छ्रूयतां मे वाक्यम्-जम्बुको हुडुयुद्धेन इति ।
 
अथ ते सभ्या ऊचुः-भो भगवन् कथमेतत् । ततो देवशर्मा तेषां त्रयाणामपि वृत्तान्तं विस्तरेणाकथयत् । तदाकर्ण्य सुविस्मितमनसस्ते नापितं विमोच्य मिथः प्रोचुः – अहो

अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगभाक् ।
विहिता व्यङ्गिता तेषामपराधे महत्यपि ।। २१४ ।।

तदस्या नासिकाच्छेदः स्वकर्मणा हि संवृत्तः । ततो राजनिग्रहस्तु कर्णच्छेदः कार्यः । तथानुष्ठिते देवशर्मापि वित्तनाशसमुद्भूतशोकरहितः पुन- रपि स्वकीयं मठायतनं जगाम । अतोऽहं ब्रवीमि-जम्बुको हुडुयुद्धेन इति ।।

देवशर्मा - आषाढभूति कथोपरि टिप्पणी
 
करटक आह-एवं-विधे व्यतिकरे किं कर्तव्यम् आवयोः?
दमनको ब्रवीत्-एवं-विधेपि समये मम बुद्धि-स्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर् विश्लेषयिष्यामि। उक्तं च, यतः-

एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद् गर्भ-गतान् अपि॥पञ्च_१.२१५॥

तद् अह माया-प्रपञ्चेन गुप्तम् आश्रित्य तं स्फोटयिष्यामि।

करटक आह-भद्र, यदि कथम् अपि तव माया-प्रवेशं पिंगलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव।

सो ब्रवीत्-तात, मैवं वद। गूढ-बुद्धिभिर् आपत्-काले विधुरेपि दैवे बुद्धिः प्रयोक्तव्या। नोद्यमस् त्याज्यः। कदाचिद् घुणाक्षर-न्यायेन बुद्धे- साम्राज्यं भवति। उक्तं च-

त्याज्यं न धैर्यं विधुरेपि दैवे
धैर्यात् कदाचित् स्थितिमाप्नुयात् सः।
याते समुद्रेपि हि पोत-भंगे
सांयात्रिको वाञ्छति कर्म एव॥पञ्च_१.२१६॥

तथा च-
उद्योगिनं सततम् अत्र समेति लक्ष्मीर्
दैवं हि दैवम् इति कापुरुषा वदंति।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या
यत्ने कृते यदि न सिध्यति को त्र दोषः॥पञ्च_१.२१७॥

तद् एवं ज्ञात्वा सुगूढ-बुद्धि-प्रभावेण यथा तौ द्वाव् अपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि। उक्तं च-

सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति ।
कौलिको विष्णुरूपेण राजकन्यां निषेवते ।। २१८ ।।
करटक आह--भ्रातः कथमेतत् । सोऽब्रवीत्-

कथा ५ कौलिक-रथकार-कथासम्पाद्यताम्


कस्मिंश्चिद् अधिष्ठाने कौलिक-रथकारौ मित्रे प्रतिवसतः स्म। तत्र च बाल्यात्-प्रभृति सहचारिणौ परस्परम् अतीव स्नेह-परौ सदैक-स्थान-विहारिणौ कालं नयतः। अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद् देवायतने यात्रा-महोत्सवः संवृत्तः। तत्र च नट-नर्तक-चारण-संकुले नाना-देशागत-जनावृते तौ सहचरौ भ्रमंतौ काञ्चिद् राज-कन्यां करेणुकारूढां सर्व-लक्षण-सनाथां कञ्चुकि-वर्ष-धर-परिवारितां देवता-दर्शनार्थं समायातां दृष्टवंतौ। अथासौ कौलिकस् तां दृष्ट्वा विषार्दित इव दुष्ट-ग्रह-गृहीत इव काम-शरैर् हन्यमानः सहसा भूतले निपपात। अथ तं तद्-अवस्थम् अवलोक्य रथकारस् तद्-दुःख-दुःखित आप्त-पुरुषैस् तं समुत्क्षिप्य स्वगृहम् आनाययत्। तत्र च विविधैः शीतोपचारैश् चिकित्सकोपदिष्टैर् मंत्र-वादिभिर् उपचर्यमाणैश् चिरात् कथंचित् स-चेतनो बभूव।

ततो रथकारेण पृष्टः-भो मित्र! किम् एवं त्वम् अकस्माद् विचेतनः सञ्जातः? तत् कथ्यताम् आत्म-स्वरूपम्?

स आह-वयस्य! यद्य् एवं तच् छृणु मे रहस्यं येन सर्वाम् आत्म-वेदनां ते वदामि। यदि त्वं मां सुहृदं मन्यसे ततः काष्ठ-प्रदानेन प्रसादः क्रियताम्। क्षम्यतां यद् वा किञ्चित् प्रणय अतिरेकाद् अयुक्तं तव मयानुष्ठितम्।

सोऽपि तद् आकर्ण्य बाष्प-पिहित-नयनः स-गद्गदम् उवाच-वयस्य, यत् किञ्चिद् दुःख-कारणं तद् वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम्। उक्तं च-

औषधार्थ-सुमंत्राणां बुढेश् चैव महात्मनाम्।
असाध्यं नास्ति लोकेत्र यद् ब्रह्मांडस्य मध्यगम्॥पञ्च_१.२१९॥

तद् एषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि।

कौलिक आह-वयस्य, एतेषाम् अन्येषाम् अपि सहस्राणाम् उपायानाम् असाध्यं तन् मे दुःखम्। तस्मान् मम मरणे मा काल-क्षेपं कुरु।

रथकार आह-भो मित्र! यद्यप्य् असाध्यं तथापि निवेदय येनाहम् अपि तद् असाध्यं मत्वा त्वया समं वह्नौ प्रविशामि। न क्षणम् अपि त्वद्-वियोगं सहिष्ये। एष मे निश्चयः।

कौलिक आह-वयस्य, यासौ राजकन्या करेणुम् आरूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानंतरं मकर-ध्वजेन ममेयम् अवस्था विहिता। तन् न शक्नोमि तद्-वेदनां सोढुम्। तथा चोक्तम्-

मत्तेभ-कुंभ-परिणाहिनि कुंकुमार्द्रे
तस्याः पयोधर-युगे रति-खेद-खिन्नः।
वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती
स्वप्स्ये कदा क्षणम् अवाप्य तदीय-संगम्॥पञ्च_१.२२०॥

तथा च-
रागी बिंबाधरो सौ स्तन-कलश-युगं यौवनारूढ-गर्वं
नीचा नाभिः प्रकृत्या कुटिलकम् अलकं स्वल्पकं चापि मध्यम्।
कुर्वत्व् एतानि नाम प्रसभम् इह मनश् चिंतितांय् आशु खेदं
यन् मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम्॥पञ्च_१.२२१॥

रथकारो प्य् एवं स-कामं तद्वचनम् आकर्ण्य स-स्मितम् इदम् आह-वयस्य! यद्य् एवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम्। तद् अद्यैव तया सह समागमः क्रियताम् इति।

कौलिक आह-वयस्य, यत्र कन्यांतःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः? तत् किं माम् असत्य-वचनेन विडंबयसि?

रथकार आह-मित्र, पश्य मे बुद्धि-बलम्।

एवम् अभिधाय तत्-क्षणात् कील-सञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शंख-चक्र-गदा-पद्मांवितं स-किरीट-कौस्तुभम् अघटयन्। ततस् तस्मिन् कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच-वयस्य, अनेन विष्णु-रूपेण गत्वा कंयांतःपुरे निशीथे तां राजकंयाम् एकाकिनीं सप्त-भूमिक-प्रासाद-प्रांत-गतां मुग्ध-स्वभावां त्वां वासुदेवं मंयमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज।

कौलिको पि तद् आकर्ण्य तथा-रूपस् तत्र गत्वा ताम् आह-राज-पुत्रि, सुप्ता किं वा जागर्षि? अहं तव कृते समुद्रात् सानुरागो लक्ष्मीं विहायैवागतः। तत् क्रियतां मया सह समागमः इति।

सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतम् अवलोक्य स-विस्मया शयनाद् उठाय प्रोवाच-भगवन्! अहं मानुषी कीटिकाशुचिः। भगवांस् त्रैलोक्य-पावनो वंदनीयश् च। तत् कथम् एतद् युज्यते।

कौलिक आह-सुभगे, सत्यम् अभिहितं भवत्या। परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत्। सा त्वम् अत्रावतीर्णा। तेनाहम् अत्रायातः।

इत्य् उक्ता सा प्राह-भगवन्, यद्य् एवं तन् मे तातं प्रार्थय। सो प्य् अविकल्पं मां तुभ्यं प्रयच्छति।

कौलिक आह-सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि। किं पुनर् आलाप-करणम्। त्वं गांधर्वेण विवाहेन आत्मानं प्रयच्छ। नो चेच् छापं दत्त्वा सान्वयं ते पितरं भस्मसात् करिष्यामि इति। एवम् अभिधाय गरुडाद् अवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायाम् आनयत्। ततश् च रात्रि-शेषं यावद् वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहम् अलक्षितो जगाम।

एवं तस्य तां नित्यं सेवमानस्य कालो याति। अथ कदाचित् कञ्चुकिनस् तस्या अधरोष्ठ-प्रवाल-खंडनं दृष्ट्वा मिथः प्रोचुः-अहो! पश्यतास्या राज-कंयायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यंते। तत् कथम् अयं सुरक्षितेप्य् अस्मिन् ग्ढ़ एवंविधो व्यवहारः। तद् राज्ञे निवेदयामः।

एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः-देव! वयं न विद्मः। परं सुरक्षितेपि कन्यांतः-पुरे कश्चित् प्रविशति। तद् देवः प्रमाणम् इति। तच् छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिंतयत्-

पुत्रीति जाता महतीह चिंता
कस्मै प्रदेयेति महान् वितर्कः।
दत्त्वा सुखं प्राप्स्यति वा न वेति
कंया-पितृत्वं खलु नाम कष्टम्॥पञ्च_१.२२२॥

नद्यश् च नार्यश् च सदृक्-प्रभावास्
तुल्यानि कूलानि कुलानि तासाम्।
तोयैश् च दोषैश् च निपातयंति
नद्यो हि कूलानि कुलानि नार्यः॥पञ्च_१.२२३॥

जननी-मनो हरति जातवती
परिवर्धते सह शुचा सुहृदाम्।
पर-सात्कृतापि कुरुते मलिनं
दुरित-क्रमा दुहितरो विपदः॥पञ्च_१.२२४॥

एवं बहु-विधं विचिंत्य देवीं रहःस्थां प्रोवाच-देवि, ज्ञायतां किम् एते कञ्चुकिनो वदंति? तस्य कृतांतः कुपितो येनैतद् एवं क्रियते।

देव्य् अपि तद् आकर्ण्य व्याकुली-भूता सत्वरं कंयांतःपुरे गत्वा तां खंडिताधरां नख-विलिखित-शरीरावयवां दुहितरम् अपश्यत्। आह च-आः पापे! कुल-कलंक-कारिणि! किम् एव शील-खंडनं कृतम्। को यं कृतांतावलोकितस् त्वत्-सकाशम् अभ्येति। तत् कथ्यतां ममाग्रे सत्यम्।

इति कोपाटोप-विसंकटं वदत्यां मातरि राज-पुत्री भय-लज्जानताननं प्रोवाच-अंब, साक्षान् नारायणः प्रत्यहं गरुडारूढो निशि समायाति। चेद् असत्यं मम वाक्यम्, तत् स्व-चक्षुषा विलोकयतु निगूढतरा निशीथे भगवंतं रमा-कांतम्।

तच् छ्रुत्वा सापि प्रहसित-वदना पुलकांकित-सर्वांगी सत्वरं राजानम् ऊचे-देव, दिष्ट्या वर्धसे। नित्यम् एव निशीथे भगवान् नारायणः कंयका-पार्श्वेभ्येति। तेन गांधर्व-विवाहेन सा विवाहिता। तद् अद्य त्वया मया च रात्रौ वातायन-गताभ्यां निशीथे द्रष्टव्यः। यतो न स मानुषैः सहालापं करोति।

तच् छ्रुत्वा हर्षितस्य राज्ञस् तद् दिनं वर्ष-शत-प्रायम् इव कथञ्चिज् जगाम। ततस् तु रात्रौ निभृतो भूत्वा राज्ञी-सहितो राजा वातायनस्-स्थो गगनासक्त-दृष्टिर् यावत् तिष्ठति, तावत् तस्मिन् समये गरुडारूढं तं शंक-चक्र-गदा-पद्म-हस्तं यथोक्त-चिह्नांकितं व्योम्नो वतरंतं नारायणम् अपश्यत्। ततः सुधा-पूर-प्लावितम् इवात्मानं मंयमानस् ताम् उवाच-प्रिये! नास्त्य् अन्यो धंयतरो लोके मत्तस् त्वत्तश् च। तत् प्रसूतिं नारायणो भजते। तत्-सिढाः सर्वेस्माकं मनोरथाः। अधुना जामातृ-प्रभावेण सकलाम् अपि वसुमतीं वश्यां करिष्यामि।

एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादा-व्यतिक्रमम् अकरोत्। ते च तं मर्यादा-व्यतिक्रमेण वर्तमानम् आलोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः।

अत्रांतरे स राजा देवी-मुखेन तां दुहितरम् उवाच-पुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत् किम् एवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वंति। तत् संबोध्यो द्य त्वया निज-भर्ता, यथा मम शत्रून् व्यापादयति।

ततस् तया स कौलिको रात्रौ स-विनयम् अभिहितः-भगवन्, त्वयि जामातरि स्थिते मम तातो यच् छत्रुभिः परिभूयते तन् न युक्तम्। तत् प्रसादं कृत्वा सर्वांस् तान् शत्रून् व्यापादय।

कौलिक आह-सुभगे! कियन्-मात्रास् त्व् एते तव पितुः शत्रवः। तद्-विश्वस्ता भव। क्षणेनापि सुदर्शन-चक्रेण सर्वांस् तिलशः खंडयिष्यामि।

अथ गच्छता कालेन सर्व-देशं शत्रुभिर् उद्वास्य स राजा प्राकार-शेषः कृतः। तथापि वासुदेव-रूप-धरं कौलिकम् अजानन् राज नित्यम् एव विशेषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशेषान् नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पेयांश् च प्रेषयन् दुहितृ-मुखेन तम् ऊचे-भगवन्, प्रभाते नूनं स्थान-भंगो भविष्यति। यतो यवसेंधन-क्षयः सञ्जातस् तथा सर्वोऽपि जनः प्रहारैर् जर्जरित-देहः संवृत्तो योद्धुम् अक्षमः प्रचुरो मृतश् च। तद् एवं ज्ञात्वात्र काले यद् उचितं भवति तद् विधेयम् इति।

तच् छ्रुत्वा कौलिकोप्य् अचिंतयत्-स्थान-भंगे जाते ममानया सह वियोगो भविष्यति, तस्माद् गरुडम् आरुह्य सायुधम् आत्मानम् आकाशे दर्शयामि। कदाचिन् मां वासुदेवं मन्यमानास् ते साशंका राज्ञो योद्धृभिर् हन्यते। उक्तं च-

निर्विषेणापि सर्पेण कर्तव्या महती फणा।
विषं भवतु वा माभूत् फणाटोपो भयंकरः॥पञ्च_१.२२५॥

अथ यदि मम स्थानार्थम् उद्यतस्य मृत्युर् भविष्यति तद् अपि सुंदरतरम्। उक्तं च-

गवाम् अर्थे ब्राह्मणार्थे स्वाम्य्-अर्थे स्वीकृतेथवा।
स्थानार्थे यस् त्यजेत् प्राणांस् तस्य लोकाः सनातनाः॥पञ्च_१.२२६॥
चंद्रे मंडल-संस्थे विगृह्यते राहुणा दिनाधीशः।
शरणागतेन सार्धं विपद् अपि तेजस्विना श्लाघ्या॥पञ्च_१.२२७॥

एवं निश्चित्य प्रत्यूषे दंत-धावनं कृत्वा तां प्रोवाच-सुभगे! समस्तैः शत्रुभिर् हतैर् अन्नं पानं चास्वादयिष्यामि। किं बहुना, त्वयापि सह संगमं ततः करिष्यामि। परं वाच्यस् त्वयात्म-पिता यत् प्रभाते प्रभूतेन सैन्येन सह नगरान् निष्क्रम्य योद्धव्यम्। अहं चाकाश-स्थित एव सर्वांस् तान् निस्तेजसः करिष्यामि। पश्चात् सुखेन भवता हंतव्याः यदि पुनर् अहं तान् स्वयम् एव सूदयामि तत् तेषां पापात्मनां वैकुंठीया गतिः स्यात्। तस्मात् ते तथा कर्तव्या यथा पलायंतो हन्यमानाः स्वर्गं न गच्छंति।

सापि तद् आकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तांतं अन्यवेदयत्। राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्ध-सैन्यो युद्धार्थं निश्चक्राम। कौलिको पि मरणे कृत-निश्चयश् चाप-पाणिर् गगन-गतिर् गरुडारूढो युद्धाय प्रस्थितः।

अत्रांतरे भगवता नारायणेनातीतानागत-वर्तमान-वेदिना, स्मृत-मात्रो वैनतेयः संप्राप्तो विहस्य प्रोक्तः-भो गरुत्मन्! जानासि त्वं यन् मम रूपेण कौलिको दारु-मय-गरुडे समारूढो राज-कन्यां कामयते।

सो ब्रवीत्-देव, सर्वं ज्ञायते तच् चेष्टितम्। तत् किं कुर्मः सांप्रतम्?

श्री-भगवान् आह-अद्य कौलिको मरणे कृत-निश्चयो विहित-नियमो युद्धार्थे विनिर्गतः स नूनं प्रधान-क्षत्रियैर् मिलित्वा वासुदेवो गरुडश् च निपातितः। ततः परं लोकोयम् आवयोः पूजां न करिष्यति। ततस् त्वं द्रुततरं तत्र दारु-मय-गरुडे संक्रमणं कुरु। अहम् अपि कौलिक-शरीरे प्रवेशं करिष्यामि। येन स शत्रून् व्यापादयति। ततश् च शत्रु-वधाद् आवयोर् माहात्म्य-वृद्धि- स्यात्।

अथ गरुडे तथेति प्रतिपन्ने श्री-भगवन्-नारायणस् तच्-छरीरे संक्रमणम् अकरोत्। ततो भगवन्-माहात्म्येन गगनस्थः स कौलिकः शंख-चक्र-गदा-चाप-चिह्नितः क्षणाद् एव लीलयैव समस्तान् अपि प्रधान-क्षत्रियान् निस्तेजसश् चकारर्। ततस् तेन राज्ञा स्व-सैन्य-परिवृतेन संग्रामे जिता निहताश् च ते सर्वेपि शत्रवः। जातश् च लोक-मध्ये प्रवादो, यथा-अनेन विष्णु-जामातृ-प्रभावेण सर्वे शत्रवो निहता इति।

कौलिकोपि तान् हतान् दृष्ट्वा प्रमुदितमना गगनाद् अवतीर्णः सन्, यावद् राजामात्य-पौर-लोकास् तं नगर-वास्तव्यं कौलिकं पश्यंति ततः पृष्टः किम् एतद् इति। ततः सोपि मूलाद् आरभ्य सर्वं प्राग्-वृत्तांतं न्यवेदयत्। ततश् च कौलिक-साहसानुरञ्जित-मनसा शत्रु-वधाद् अवाप्त-तेजसा राज्ञा सा राज-कन्या सकल-जन-प्रत्यक्षं विवाह-विधिना तस्मै समर्पिता देशश् च प्रदत्तः। कौलिकोऽपि तया सार्धं पञ्च-प्रकारं जीव-लोक-सारं विषय-सुखम् अनुभवन् कालं निनाय। अतस् तूच्यते सुप्रयुक्तस्य दंभस्य (२१८) इति।

---

तच् छ्रुत्वा करटक आह-भद्र, अस्त्य् एवम्। परं तथापि महन् मे भयम्। यतो बुढिमान् सञ्जीवको रौद्रश् च सिंहः। यद्यपि ते बुढि-प्रागल्भ्यं तथापि त्वं पिंगलकात् तं वियोजयितुम् असमर्थ एव।

दमनक आह-भ्रातः! असमर्थो पि समर्थ एव। उक्तं च-

उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः।
काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत्॥पञ्च_१.२२८॥

करटक आह-कथम् एतत्?

सो ब्रवीत्-

कथा ६ वायस-दंपति-कथासम्पाद्यताम्


अस्ति कस्मिंश्चित् प्रदेशे महान् न्यग्रोध-पादपः। तत्र वायस-दंपती प्रतिवसतः स्म। अथ तयोः प्रसव-काले वृक्ष-विवरान् निष्क्रम्य कृष्ण-सर्पः सदैव तद्-अपत्यानि भक्षयति। ततस् तौ निर्वेदाद् अन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं शृगालं गत्वोचतुः-भद्र! किम् एवंविधे सञ्जात आवयोः कर्तव्यं भवति। एवं तावद् दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान् निर्गत्यावयोर् बालकान् भक्षयति। तत् कथ्यतां तद्-रक्षार्थं कश्चिद् उपायः।

यस्य क्षेत्रं नदी-तीरे भार्या च पर-संगता।
स-सर्पे च ग्ढ़े वासः कथं स्यात् तस्य निर्वृतिः॥पञ्च_१.२२९॥

अन्यच् च-
सर्प-युक्ते ग्ढ़े वासो मृत्युर् एव न संशयः।
यद् ग्रामांते वसेत् सर्पस् तस्य स्यात् प्राण-संशयः॥पञ्च_१.२३०॥

अस्माकम् अपि तत्र-स्थितानां प्रतिदिनं प्राण-संशयः।

स आह-नात्र विषये स्वल्पो पि विषादः कार्यः। नूनं स लुब्धो नोपायम् अंतरेण वध्यः स्यात्।
उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः।
उपाय-ज्ञो ल्प-कायो पि न शूरैः परिभूयते॥पञ्च_१.२३१॥

तथा च-
भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान्।
अतिलौल्याद् बकः कश्चिन् मृतः कर्कटक-ग्रहात्॥पञ्च_१.२३२॥

ताव् ऊचतुः-कथम् एतत्?

सो ब्रवीत्-

कथा ७ बक-कुलीरक-कथासम्पाद्यताम्



अस्ति कस्मिंश्चित्प्रदेशे नानाजलचरसनाथं सरः ।
तत्र च कृताश्रयो बक एको वृद्धभावमुपागतो मत्स्यान्व्यापादयितुमसमर्थः ।
ततश्च क्षुत्क्षामकण्ठः सरस्तीर उपविष्टो मुक्ताफलप्रकरसदृशैरश्रुप्रवाहैर्धरातलमभिषिञ्चन्रुरोद ।
एकः कुलीरको नानाजलचरसमेतः समेत्य तस्य दुःखेन दुःखितः सादरमिदमूचे-माम किमद्य त्वया नाहारवृत्तिरनुष्ठीयते ।
केवलमश्रुपूर्णनेत्राभ्यां सनिःश्वासेन स्थीयते ।
स आह-वत्स सत्यमुपलक्षितं भवता । मया हि मत्स्यादनं प्रति परमवैराग्यतया सांप्रतं प्रायोपवेशनं कृतं तेनाहं समीपगतानपि मत्स्यान्न भक्षयामि ।
कुलीरकस्तच्छ्रुत्वा प्राह-माम किं तद्वैराग्यकारणम् ।
स प्राह-वत्स अहमस्मिन्सरसि जातो वृद्धिं गतश्च । तन्मयैतच्छ्रुतं यद् द्वादशवार्षिक्यनावृष्टिः संपद्यते लग्ना ।
कुलीरक आह कस्मात्तच्छ्रुतम् । बक आह दैवज्ञमुखात् । यतः शनैश्चरो हि रोहिणीशकटं भित्त्वा भौमश्च शुक्रश्च प्रयास्यति । उक्तं च वराहमिहिरेण-

यदि रोहिण्याः शकटं भिनत्ति रविनन्दनो गगनवीथ्याम् ।
द्वादशवर्षाणि तदा नहि वर्षति वासवो भूमौ ।। २३३ ।।

तथा च-
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
भस्मास्थिशकलकीर्णा कापालिकमिव व्रतं धत्ते ।। २३४ ।।

तथा च ।
रोहिणीशकटमर्कनन्दनश्चेद्भिनत्ति रुधिरोऽथवा शशी ।
किं वदामि तदनिष्टसागरे संक्षयं जगदशेषमुपैति ।। २३५

रोहिणी-शकट-मध्य-संस्थिते
चंद्रम् अस्य शरणी-कृता जनाः।
क्वापि यांति शिशुपाचिताशनाः
सूर्य-तप्त-भिदुरांबु-पायिनः॥पञ्च_१.२३६॥

तदेतत्सरः स्वल्पतोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिञ्छुष्के यैः सहाहं वृद्धिं गतः सदैव क्रीडितश्च ते सर्वे तोयाभावान्नाशं यास्यन्ति । तत्तेषां वियोगं द्रष्टुमहमसमर्थः । तेनैतत्प्रायोपवेशनं कृतम् । सांप्रतं सर्वेषां स्वल्पजलाशयानां जलचरा गुरुजलाशयेषु स्वस्वजनैर्नीयन्ते । केचिच्च मकरगोधाशिशुमारजलहस्तिप्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति तेनाहं विशेषाद्रोदिमि यद्बीजशेषमात्रमप्यत्र नोद्धरिष्यति ।
ततः स तदाकर्ण्यान्येषामपि जलचराणां तत्तस्य वचनं निवेदयामास । अथ ते सर्वे भयत्रस्तमनसो मत्स्यकच्छपप्रभृतयस्तमभ्युपेत्य पप्रच्छुः-माम अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति ।
बक आह-अस्त्यस्य जलाशयस्य नातिदूरे प्रभूतजलसनाथं सरः पद्मिनीखण्डमण्डितं यच्चतुविंशत्यापि वर्षाणामवृष्ट्या न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति तदहं तं तत्र नयामि ।
अथ ते तत्र विश्वासमापन्नास्तात मातुल भ्रातरिति ब्रुवाणा अहं पूर्वमहं पूर्वमिति समन्तात्परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान्पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचराणां मिथ्यावार्ता- संदेशकैर्मनांसि रञ्जयन्नित्यामिवाहारवृत्तिमकरोत् ।
अन्यस्मिन्दिने स कुलीरकेणोक्तः माम मया सह ते प्रथमः स्नेहसंभाषः संजातः । तत्किं मां परित्यज्यान्यान्नयसि । तस्मादद्य मे प्राणत्राणं कुरु । तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान् निर्विण्णोऽहं मत्स्यमांसादनेन । तदद्यैतं कुलीरकं व्यञ्जनस्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्यशिलामुद्दिश्य प्रस्थितः ।
कुलीरकोऽपि दूरादेवास्थिपर्वतं शिलाश्रयमवलोक्य मत्स्यास्थीनि परिज्ञाय तमपृच्छत् -माम कियद्दूरे स जलाशयः । मदीयभारेणातिश्रान्तस्त्वम् । तत्कथय ।
सोऽपि मन्दधीर्जलचरोयमिति मत्वा स्थले न प्रभवतीति सस्मितमिदमाह कुलीरक कुतोऽन्यो जलाशयः । मम प्राणयात्रेयम् । तस्मात्स्मर्यतामात्मनोऽभीष्टदेवता । त्वामप्यस्यां शिलायां निक्षिप्य भक्षयिष्यामि ।
इत्युक्तवति तस्मिन्स्ववदनदंशद्वयेन मृणालनालधवलायां मृदुग्रीवायां गृहीतो मृतश्च । अथ स तां बकग्रीवां समादाय शनैः शनैस्तज्जलाशयमाससाद । .
ततः सर्वैरेव जलचरैः पृष्टः भोः कुलीरक किं निवृत्तस्त्वम् । कुशलकारणं तिष्ठति । स मातुलोऽपि नायातः । तत्किं चिरयति वयं सर्वे सोत्सुकाः कृतक्षणास्तिष्ठामः ।
एवं तैरभिहितं कुलीरकोऽपि विहस्योवाच-मूर्खाः सर्वे जलचरास्तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तन्मयायुःशेषतया तस्य विश्वासघातकस्याभिप्रायं ज्ञात्वा ग्रीवेयमानीता । तदलं संभ्रमेण । अधुना सर्वजलचराणां क्षेमं भविष्यति ।
अतोऽहं ब्रवीमि -भक्षयित्वा बहून्मत्स्यानिति ।।

बक-कुलीरक - रोहिणीशकटोपरि टिप्पणी

वायस आह - भद्र तत्कथय कथं स दुष्टसर्पो वधमुपैष्यति ।
शृगाल आह गच्छतु भवान्कंचिन्नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत्कोटरे प्रक्षिप येन सर्पस्तद्ग्रहणेन वध्यते ।
अथ तत्क्षणात्काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ ।
ततश्च काकी किंचित्सरः प्राप्य यावत्पश्यति तावत्तन्मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्नं न्यस्तकनकसूत्रं मुक्तमुक्ताहारवस्त्राभरणं जलक्रीडां कुरुते । अथ सा वायसी कनकसूत्रमेकमादाय स्वगृहाभिमुखं प्रतस्थे ।
ततश्च कञ्चुकिनो वर्षधराश्च तन्नीयमानमुपलक्ष्य गृहीतलगुडाः सत्वरमनुययुः ।
काक्यपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरमवस्थिता ।
अथ यावद्राजपुरुषास्तं वृक्षमारुह्य तत्कोटरमवलोकयन्ति तावत्कृष्णसर्पः प्रसारितभोगस्तिष्ठति ।
ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः ।
वायसदम्पती अपि ततः परं सुखेन वसतः । अतोऽहं ब्रवीमि उपायेन हि यत्कुर्यादिति ।।
तन्न किंचिदिह बुद्धिमतामसाध्यमस्ति ।
उक्तं च-

यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ।। २३७ ।।

करकट आह-कथमेतत् । स आह-

कथा ८ भासुरकाख्य-सिंह-कथासम्पाद्यताम्


कस्मिंश्चिद् वने भासुरको नाम सिंहः प्रतिवसति स्म। अथासौ वीर्यातिरेकान् नित्यम् एवानेकान् मृग-शशकादीन् व्यापादयन् नोपरराम। अथान्येद्युस् तद्-वनजाः सर्वे सारंग-वराह-महिष-शशकादयो मिलित्वा तम् अभ्युपेत्य प्रोचुः-स्वामिन्! किम् अनेन सकल-मृग-वधेन नित्यम् एव, यतस् तवैकेनापि मृगेण तृप्तिर् भवति तत् क्रियताम् अस्माभिः सह समय-धर्मः। अद्य-प्रभृति तवात्रोपविष्टस्य जाति-क्रमेण प्रतिदिनम् एको मृगो भक्षणार्थं समेष्यति। एवं कृते तव तावत् प्राण-यात्रा क्लेशं विनापि भविष्यति। अस्माकं च पुनः सर्वोच्छेदनं न स्यात्। तद् एष राज-धर्मोऽनुष्ठीयताम्। उक्तं च-

शनैः शनैश् च यो राज्यम् उपभुंक्ते यथा-बलम्।
रसायनम् इव प्राज्ञः स पुष्टिं परमां व्रजेत्॥पञ्च_१.२३८॥
विधिना मंत्र-युक्तेन रूक्षापि मथितापि च।
प्रयच्छति फलं भूमिर् अरणीव हुताशनम्॥पञ्च_१.२३९॥
प्रजानां पालनं शस्यं स्वर्ग-कोशस्य वर्धनम्।
पीडनं धर्म-नाशाय पापायायशसे स्थितम्॥पञ्च_१.२४०॥
गोपालेन प्रजाधेनोर् वित्त-दुग्धं शनैः शनैः।
पालनात् पोषणाद् ग्राह्यं अन्याय्यां वृत्तिं समाचरेत्॥पञ्च_१.२४१॥
अजाम् इव प्रजां मोहाद् यो हंयात् पृथिवी-पतिम्।
तस्यैका जायते तृप्तिर् न द्वितीया कथञ्चन॥पञ्च_१.२४२॥
फलार्थी नृपतिर् लोकान् पालयेद् यत्नम् आस्थितः।
दान-मानादि-तोयेन मालाकारो अंकुरान् इव॥पञ्च_१.२४३॥
नृप-दीपो धन-स्नेहं प्रजाभ्यः संहरंन् अपि।
आंतर-स्थैर् गुणैः शुभ्रैर् लक्ष्यते नैव केनचित्॥पञ्च_१.२४४॥
यथा गौर् दुह्यते काले पाल्यते च तथा प्रजाः।
सिच्यते चीयते चैव लता पुष्प-फल-प्रदा॥पञ्च_१.२४५॥
यथा बीजांकुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः।
फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः॥पञ्च_१.२४६॥
हिरण्य-धांय-रत्नानि यानानि विविधानि च।
तथांयद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् महीपतेः॥पञ्च_१.२४७॥
लोकानुग्रह-कर्तारः प्रवर्धंते नरेश्वराः।
लोकानां संक्षयाच् चैव क्षयं यांति न संशयः॥पञ्च_१.२४८॥

अथ तेषां तद्-वचनम् आकर्ण्य भासुरक आह-अहो सत्यम् अभिहितं भवद्भिः। परं यदि ममोपविष्टस्यात्र नित्यम् एव नैकः श्वापदः समागमिष्यति। तन् नूनं सर्वान् अपि भक्षयिष्यामि। अथ ते तथैव प्रतिज्ञाय निर्वृति-भाजस् तत्रैव वने निर्भयाः पर्यटंति। एकश् च प्रतिदिनं क्रमेण याति। वृद्धो वा, वैराग्य-युक्तो वा, शोक-ग्रस्तो वा, पुत्र-कलत्र-नाश-भीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्न-समय उपतिष्ठते।

अथ कदाचिज् जाति-क्रमाच् छशकस्यावसरः समायातः। स समस्त-मृगैः प्रेरितो निच्छंन् अपि मंदं मंदं गत्वा तस्य वधोपायं चिंतयन् वेलातिक्रमं कृत्वाव्याकुलित-हृदयो यावद् गच्छति तावन्-मार्गे गच्छता कूपः संदृष्टः। यावत् कूपोपरि पाति तावत् कूप-मध्य आत्मनः प्रतिबिंबं ददर्श। दृष्ट्वा च तेन हृदये चिंतितम्-यद् भाव्य उपायो स्ति। अहं भासुरकं प्रकोप्य स्व-बुद्ध्यास्मिन् कूपे पातयिष्यामि।

अथासौ दिन-शेषे भासुरक-समीपं प्राप्तः। सिंहो पि वेलातिक्रमेण क्षुत्क्षाम-कंठः कोपाविष्टः सृक्कणी परिलेलिहद् व्यचिंतयत्-अहो! प्रतार्-आहाराय निःसत्त्वं वनं मया कर्तव्यम्। एवं चिंतयतस् तस्य शशको मंदं मंदं गत्वा प्रणम्य तस्याग्रे स्थितः। अथ तं प्रज्वलितात्मा भासुरको भर्त्सयंन् आह-रे शशकाधम एकस् तावत् त्वं लघुः प्राप्तो परतो वेलातिक्रमेण। तद् अस्माद् अपराधात् त्वां निपात्य प्रातः सकलांय् अपि मृग-कुलांय् उच्छेदयिष्यामि।

अथ शशकः स-विनयं प्रोवाच-स्वामिन्! नापराधो मम। न च सत्त्वानाम्। तच् छ्र्यूतां कारणम्।

सिंह आह-सत्वरं निवेदय यावन् मम दंष्ट्रांतर्गतो न भवान् भविष्यति इति।

शशक आह-स्वामिन्, समस्त-मृगैर् अद्य जाति-क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततो हं पञ्च-शशकैः समं प्रेषितः। ततश् चाहम् आगच्छेंन् अंतराले महता केनचिद् अपरेण सिंहेन विवरान् निर्गत्याभिहितः-अभीष्ट-देवतां स्मरत।

ततो मयाभिहितम्-वयं स्वामिनोन् भासुरक-सिंहस्य सकाशम् आहारार्थं समय-धर्मेण गच्छामः।

ततस् तेनाभिहितम्-यद्य् एवं तर्हि मदीयम् एतद्-वनम्। मया सह समय-धर्मेण समस्तैर् अपि श्वापदैर् वर्तितव्यम्। चोर-रूपी स भासुरकः। अथ यदि सो त्र राजा। विश्वास-स्थाने चतुरः शशकान् अत्र धृत्वा तम् आहूय द्रुततरम् आगच्छ। येन यः कश्चिद् आवयोर् मध्यात् पराक्रमेण राजा भविष्यति स सर्वान् एतान् भक्षयिष्यति इति।

ततो हं तेनादिष्टः स्वामि-सकाशम् अभ्यागतः। एतद् वेला व्यतिक्रम-कारणम्। तद् अत्र स्वामी प्रमाणम्।

तच् छ्रुत्वा भासुरक आह-भद्र, यद्य् एवं तत् सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि। उक्तं च-

भूमिर् मित्रं हिरण्यं च विग्रहस्य फल-त्रयम्।
नास्त्य् एकम् अपि यद्य् एषां न तं कुर्यात् कथञ्चन॥पञ्च_१.२४९॥
यत्र न स्यात् फलं भूरि यत्र चस्यात् पराभवः।
न तत्र मतिमान् युढं समुत्पाद्य समाचरेत्॥पञ्च_१.२५०॥

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२घ&oldid=112784" इत्यस्माद् पुनः प्राप्तिः