तद् अहम् तस्य निश्चयम् ज्ञात्वा त्वत्-सकाशम् इहागतः। सांप्रतम् मे नास्ति विश्वास-घातक-दोषः। मया सुगुप्त-मंत्रस् तव निवेदितः। अथ यत् ते प्रतिभाति तत् कुरुष्व इति। अथ सञ्जीवकस् तस्य तद्वज्र-पात-दारुणम् वचनम् श्रुत्वा मोहम् उपगतः। अथ चेतनाम् लब्ध्वा स-वैराग्यम् इदम् आह-भो साध्व् इदम् उच्यते-

दुर्जन-गम्या नार्यः प्रायेणास्नेहवान् भवति राजा।
कृपणानुसारि च धनम् मेघो गिरि-दुर्ग-वर्षी च॥पञ्च_१.३०१॥
अहम् हि सम्मतो राज्ञो य एवम् मन्यते कुधीः।
बलीवर्दः स विज्ञेयो विषाण-परिवर्जितः॥पञ्च_१.३०२॥
वरम् वनम् वरम् भैक्षम् वरम् भारोपजीवनम्।
वरम् व्याधिर् मनुष्याणाम् नाधिकारेण संपदः॥पञ्च_१.३०३॥

तद् युक्तम् मया कृतम् तद् अनेन सह मैत्री विहिता। उक्तम् च-

ययोर् एव समम् वित्तम् ययोर् एव समम् कुलम्।
तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः॥पञ्च_१.३०४॥

तथा च-
मृगा मृगैः संगम् अनुव्रजंति
गावश् च गोभिस् तुरगास् तुरगैः।
मूर्खाश् च मूर्खैः सुधियः
सुधीभिः समान-शील-व्यसनेन सख्यम्॥पञ्च_१.३०५॥

तद् यदि गत्वा तम् प्रसादयामि, तथापि न प्रसादम् यास्यति। उक्तम् च-

निमित्तम् उद्दिश्य हि यः प्रकुप्यति
ध्रुवम् स तस्यापगमे प्रशाम्यति।
अकारण-द्वेष-परो हि यो भवेत्
कथम् नरस् तम् परितोषयति॥पञ्च_१.३०६॥

अहो साधु चेदम् उच्यते-
भक्तानाम् उपकारिणाम् पर-हित-व्यापार-युक्तात्मनाम्
सेवा-सम्व्यवहार-तत्त्व-विदुषाम् द्रोहच्युतानाम् अपि।
व्यापत्तिः स्खलितांतरेषु नियता सिद्धिर् भवेद् वा न वा
तस्माद् अंबुपतेर् इवावनिपतेः सेवा सदा शंकिनी॥पञ्च_१.३०७॥

तथा च-
भाव-स्निग्धैर् उपकृतम् अपि द्वेष्यताम् याति लोके
साक्षाद् अन्यैर् अपकृतम् अपि प्रीतये चोपयाति।
दुर्ग्राह्यत्वान् नृपति-मनसाम् नैक-भावाश्रयाणाम्
सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः॥पञ्च_१.३०८॥

तत् परिज्ञातम् मया मत्-प्रसादम् असहमानैः समीपवर्तिभिर् एष पिंगलकः प्रकोपितः। तेनायम् ममादोषस्याप्य् एवम् वदति। उक्तम् च-

प्रभोः प्रसादम् अन्यस्य न सहंतीह सेवकाः।
सपत्न्य इव संक्रुद्धाः सपत्न्याः सुकृतैर् अपि॥पञ्च_१.३०९॥

भवति चैवम् यद् गुणवत्सु समीपवर्तिषु गुणहीनानाम् न प्रसादो भवति। उक्तम् च-

गुणवत्तर-पात्रेण छाद्यंते गुणिनाम् गुणाः।
रात्रौ दीप-शिखा-कांतिर् न भानाव् उदिते सति॥पञ्च_१.३१०॥

दमनक आह-भो मित्र! यद्य् एवम् तन् नास्ति ते भयम्। प्रकोपितोऽपि स दुर्जनैस् तव वचन-रचनया प्रसादम् यास्यति।

स आह-भोः! न युक्तम् उक्तम् भवता। लघूनाम् अपि दुर्जनानाम् मध्ये वस्तुम् न शक्यते। उपायांतरम् विधाय ते नूनम् घ्नंति। उक्तम् च-

बहवः पंडिताः क्षुद्राः सर्वे मायोपजीविनः।
कुर्युः कृत्यम् अकृत्यम् वा उष्ट्रे काकादयो यथा॥पञ्च_१.३११॥

दमनक आह--कथम् एतत्?

सो ब्रवीत्-

कथा ११ मदोत्कट-सिंह-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति स्म। तस्य चानुचरा अन्ये द्वीपि-वायस-गोमायवः संति। अथ कदाचित् तैर् इतस् ततो भ्रमद्भिः सार्थाद् भ्रष्टः क्रथनको नामोष्ट्रो दृष्टः। अथ सिंह आह-अहो अपूर्वम् इदम् सत्त्वम्। तज् ज्ञायताम् किम् एतद् आरण्यकम् ग्राम्यम् वेति।

तच् छ्रुत्वा वायस आह-भोः स्वामिन्! ग्राम्यो यम् उष्ट्र-नामा जीव-विशेषस् तव भोज्यः। तद् व्यापाद्यताम्।
सिंह आह-नाहम् गृहम् आगतम् हन्मि। उक्तम् च-
गृहम् शत्रुम् अपि प्राप्तम् विश्वस्तम् अकुतोभयम्। यो हन्यात् तस्य पापम् स्याच् छतब्राह्मणघातजम्॥पञ्च_१.३१२॥
तद् अभय-प्रदानम् दत्त्वा मत्-सकाशम् आनीयताम् येनास्यागम-कारणम् पृच्छामि।

अथासौ सर्वैर् अपि विश्वास्याभय-प्रदानम् दत्त्वा मदोत्कट-सकाशम् आनीतः प्रणम्योपविष्टश् च। ततस् तस्य पृच्छतस् तेनात्म-वृत्तांतः सार्थ-भ्रंश-समुद्भवो निवेदितः। ततः सिंहेनोक्तम्-भोः क्रथनक! मा त्वम् ग्रामम् गत्वा भूयोऽपि भारोद्वहन-कष्ट-भागी भूयाः। तद् अत्रैवारण्ये निर्विशंको मरकत-सदृशानि शष्पाग्राणि भक्षयन् मया सह सदैव वस। सोऽपि तथेत्य् उक्त्वा तेषाम् मध्ये विचरन् न कुतोऽपि भयम् इति सुखेनास्ते।

तथान्येद्युर् मदोत्कटस्य महा-गजेनारण्य-चारिणा सह युद्धम् अभवत्। ततस् तस्य दंत-मुसल-प्रहारैर् व्यथा सञ्जाता। व्यथितः कथम् अपि प्राणैर् न वियुक्तः। अथ शरीरासामर्थ्यान् न कुत्रचित् पदम् अपि चलितुम् शक्नोति। ते सर्वे काकादयोऽप्य् अप्रभुत्वेन क्षुधाविष्टाः परम् दुःखम् भेजुः।
अथ तान् सिंहः प्राह-भोः! अन्विष्यताम् कुत्रचित् किंचित् सत्त्वम् येनाहम् एताम् अपि दशाम् प्राप्तस् तद् धत्वा युष्मद्-भोजनम् संपादयामि।

अथ ते चत्वारोऽपि भ्रमितुम् आरब्धा यावन् न किंचित् सत्त्वम् पश्यंति तावद् वायस-शृगालौ परस्परम् मंत्रयतः। शृगाल आह-भो वायस! किम् प्रभूत-भ्रांतेन। अयम् अस्माकम् प्रभोः क्रथनको विश्वस्तस् तिष्ठति। तद् एनम् हत्वा प्राण-यात्राम् कुर्मः।
वायस आह-युक्तम् उक्तम् भवता। परम् स्वामिना तस्याभय-प्रदानम् दत्तम् आस्ते न वध्योऽयम् इति।

शृगाल आह-भो वायस! अहम् स्वामिनम् विज्ञाप्य तथा करिष्ये यथा स्वामी वधम् करिष्यति। तत् तिष्ठंतु भवंतोऽत्रैव, यावद् अहम् गृहम् गत्वा प्रभोर् आज्ञाम् गृहीत्वा चागच्छामि।

एवम् अभिधाय सत्वरम् सिंहम् उद्दिश्य प्रस्थितः। अथ सिंहम् आसाद्येदम् आह-स्वामिन्! समस्तम् वनम् भ्रांत्वा वयम् आगताः। न किंचित् सत्त्वम् आसादितम्। तत् किम् कुर्मो वयम्। संप्रति वयम् बुभुक्षया पदम् एकम् अपि प्रचलितुम् न शक्नुमः। देवोऽपि पथ्याशी वर्तते। तद् यदि देवादेशो भवति तत् क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते।

अथ सिंहस् तस्य तद् दारुणम् वचनम् आकर्ण्य स-कोपम् इदम् आह-धिक् पापाधम! यद्य् एवम् भूयोऽपि वदसि। ततस् त्वाम् तत्-क्षणम् एव वधिष्यामि। ततो मया तस्याभयम् प्रदत्तम्। तत् कथम् व्यापादयामि। उक्तम् च-

न गो-प्रदानम् न मही-प्रदानम्
न चान्न-दानम् हि तथा प्रधानम्।
यथा वदंतीह बुधाः प्रधानम्
सर्व-प्रदानेष्व् अभय-प्रदानम्॥पञ्च_१.३१३॥
तच् छ्रुत्वा शृगाल आह-स्वामिन् यद्य् अभयप्रदानम् दत्त्वा वधः क्रियते तद् एष दोषो भवति। पुनर् यदि देवपादानाम् भक्त्या सात्मनो जीवितव्यम् प्रयच्छति तन् न दोषः।
ततो यदि स स्वयम् एवात्मानम् वधाय नियोजयति तद् वध्यो अन्यथास्माकम् मध्याद् एकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधाद् अन्त्याम् दशाम् यास्यंति।
तत् किम् एतैः प्राणैर् अस्माकम् ये स्वाम्यर्थे न यास्यंति। अपरम् पश्चाद् अप्य् अस्माभिर् वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानाम् किंचिद् अनिष्टम् भविष्यति। उक्तम् च-
यस्मिन् कुले यः पुरुषः प्रधानः
स सर्व-यत्नैः परिरक्षणीयः।
तस्मिन् विनष्टे स्व-कुलम् विनष्टम्
न नाभि-भंगे ह्य् अरयो वहंति॥पञ्च_१.३१४॥

तद् आकर्ण्य मदोत्कट आह-यद्य् एवम् तत् कुरुष्व यद् रोचते।

तच् छ्रुत्वा स सत्वरम् गत्वा तान् आह-भोः! स्वामिनो महत्य् अवस्था वर्तते। तत् किम् पर्यटितेन? तेन विना कोऽत्रास्मान् रक्षयिष्यति? तद् गत्वा तस्य क्षुद्-रोगात् पर-लोकम् प्रस्थितस्यात्म-शरीर-दानम् कुर्मो येन स्वामि-प्रसादस्याऽनृणताम् गच्छामः। उक्तम् च-
आपदम् प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः।
प्राणेषु विद्यमानेषु स भृत्यो नरकम् व्रजेत्॥पञ्च_१.३१५॥

तद्-अनंतरम् ते सर्वे बाष्प-पूरित-दृशो मदोत्कटम् प्रणम्योपविष्टाः। तान् दृष्ट्वा मदोत्कट आह-भोः! प्राप्तम् दृष्टम् वा किंचित् सत्त्वम्।
अथ तेषाम् मध्यात् काकः प्रोवाच-स्वामिन्! वयम् तावत् सर्वत्र पर्यटिताः परम् न किंचित् सत्त्वम् आसादितम् दृष्टम् वा। तद् अद्य माम् भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनम् भवति मम पुनः स्वर्ग-प्राप्तिर् इति। उक्तम् च-

स्वाम्य्-अर्थे यस् त्यजेत् प्राणान् भृत्यो भक्ति-समन्वितः। स परम् पदम् आप्नोति जरा-मरण-वर्जितम्॥पञ्च_१.३१६॥
तच् छ्रुत्वा शृगाल आह-भोः! स्वल्प-कायो भवान्। तव भक्षणात् स्वामिनस् तावत् प्राण-यात्रा न भवति। अपरो दोषश् च तावत् समुत्पद्यते। उक्तम् च-
काक-मांसम् तथोच्छिष्टम् स्तोकम् तद् अपि दुर्बलम्।
भक्षितेनापि किम् तेन येन तृप्तिर् न जायते॥पञ्च_१.३१७॥

तद् दर्षिता स्वामि-भक्तिर् भवता गतम् च आनृण्यम् भर्तृ-पिंडस्य प्राप्तश् चोभय-लोके साधु-वादः। तद् अपसराग्रतः। अहम् स्वामिनम् विज्ञापयामि। तथानुष्ठिते शृगालः सादरम् प्रणम्योपविष्टः प्राह-स्वामिन्! माम् भक्षयित्वाद्य प्राण-यात्राम् विधाय ममोभय-लोक-प्राप्तिम् कुरु। उक्तम् च-

स्वाम्य्-आयत्ताः सदा प्राणा भृत्यानाम् अर्जिता धनैः। यतस् ततो न दोषोऽस्ति तेषाम् ग्रहण-संभवः॥पञ्च_१.३१८॥
अथ तच् छ्रुत्वा द्वीप्य् आह-भोः साधूक्तम् भवता पुनर् भवान् अपि स्वल्प-कायः स्व-जातिश् च नखायुधत्वाद् अभक्ष्य एव। उक्तम् च-
नाभक्ष्यम् भक्षयेत् प्राज्ञः प्राणैः कंठ-गतैर् अपि। विशेषात् तद् अपि स्तोकम् लोक-द्वय-विनाशकम्॥पञ्च_१.३१९॥
तद् दर्शितम् त्वयात्मनः कौलींयम्। अथ वा साधु चेदम् उच्यते-
एतद्-अर्थम् कुलीनानाम् नृपाः कुर्वंति संग्रहम्। आदि-मध्यावसानेषु न ते गच्छंति विक्रियाम्॥पञ्च_१.३२०॥
तद् अपसराग्रतः, येनाहम् स्वामिनम् विज्ञापयामि। तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटम् आह-स्वामिन्! क्रियताम् अद्य मम प्राणैः प्राण-यात्रा। दीयताम् अक्षयो वासः स्वर्गे। मम विस्तार्यताम् क्षिति-तले प्रभूतम् यशः। तन् नात्र विस्मयः कार्यः। उक्तम् च-
मृतानाम् स्वामिनः कार्ये भृत्यानाम् अनुवर्तिनाम्। भवेत् स्वर्गे अक्षयो वासः कीर्तिश् च धरणी-तले॥पञ्च_१.३२१॥
तच् छ्रुत्वा क्रथनकश् चिंतयामास-एतैस् तावत् सर्वैर् अपि शोभा-वाक्यान्य् उक्तानि न चैकोऽपि स्वामिना विनाशितः। तद् अहम् अपि प्राप्त-कालम् वक्ष्यामि चित्रकम् येन मद्-वचनम् एते त्रयोऽपि समर्थयन्ति। इति निश्चित्य प्रोवाच-भोः सत्यम् उक्तम् भवता परम् भवान् अपि नखायुधः। तत् कथम् भवन्तम् स्वामी भक्षयति। उक्तम् च-
मनसापि स्वजात्यानाम् योऽनिष्टानि प्रचिंतयेत्। भवंति तस्य तान्य् एव इह लोके परत्र च॥पञ्च_१.३२२॥
तद् अपसराग्रतः, येनाहम् स्वामिनम् विज्ञापयामि। तथानुष्ठिते क्रथनकोऽग्रे स्थित्वा प्रणम्योवाच-स्वामिन्! एते भक्ष्यास् तव तन् मम प्राणैः प्राण-यात्रा विधीयताम् येन ममोभय-लोक-प्राप्तिर् भवति। उक्तम् च-

न यज्वानोऽपि गच्छंति ताम् गतिम् नैव योगिनः। याम् यांति प्रोज्झित-प्राणाः स्वाम्य्-अर्थे सेवकोत्तमाः॥पञ्च_१.३२३॥
एवम् अभिहिते ताभ्याम् शृगाल-चित्रकाभ्याम् विदारितोभय-कुक्षिः क्रथनकः प्राणान् अत्याक्षीत्। ततश् च तैः क्षुद्र-पंडितैः सर्वैर् भक्षितः।

अतोऽहम् ब्रवीमि-बहवः पंडिताः क्षुद्राः इति।

---

तद् भद्र, क्षुद्र-परिवारो यम् ते राजा मया सम्यग् जातः। सताम् असेव्यम् च। उक्तम् च-

अशुद्ध-प्रकृतौ राज्ञि जनता नानुरज्यते।
यथा गृध्र-समासन्नः कलहंसः समाचरेत्॥पञ्च_१.३२४॥
तथा च-
गृध्राकारोऽपि सेव्यः स्याद्धंसाकारैः सभासदैः।
हंसाकारोऽपि संत्याज्यो गृध्राकारैः स तैर् नृपः॥पञ्च_१.३२५॥

तन् नूनम् ममोपरि केनचिद् दुर्जनेनायम् प्रकोपितः, तेनैवम् वदति। अथवा भवत्य् एतत्। उक्तम् च-

मृदुना सलिलेन खन्यमानान्यवधृष्यंति गिरेर् अपि स्थलानि।
उपजापविदाम् च कर्णजापैः किम् उ चेतांसि मृदूनि मानवानाम्॥पञ्च_१.३२६॥

कर्णविषेण च भग्नः किम् किम् न करोति बालिशो लोकः।
क्षपणकताम् अपि धत्ते पिबति सुराम् नरक-पालेन॥पञ्च_१.३२७॥

अथवा साध्व् इदम् उच्यते-

पादाहतोऽपि दृढ-दंड-समाहतोऽपि
यम् दंष्ट्रया स्पृशति तम् किल हंति सर्पः।
को प्य् एष एव पिशुनोग्र-मनुष्य-धर्मः
कर्णे परम् स्पृशति हंति परम् समूलम्॥पञ्च_१.३२८॥

तथा च-
अहो खल-भुजंगस्य विपरीतो वध-क्रमः।
कर्णे लगति चांयस्य प्राणैर् अन्यो वियुज्यते॥पञ्च_१.३२९॥

तद् एवम् गतेपि किम् कर्तव्यम् इत्य् अहम् त्वाम् सुहृद्-भावात् पृच्छामि।

दमनक आह-तद्-देशांतर-गमनम् युज्यते। नैवम्-विधस्य कुस्वामिनः सेवाम् विधातुम्। उक्तम् च-

गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते॥पञ्च_१.३३०॥

सञ्जीवक आह-अस्माकम् उपरि स्वामिनि कुपिते गंतुम् न शक्यते, न चान्यत्र गतानाम् अपि निर्वृतिर् भवति। उक्तम् च-

महताम् यो पराध्येन दूरस्थोऽस्मीति नाश्वसेत्।
दीर्घौ बुद्धिमतो बाहू ताभ्याम् हिंसति हिंसकम्॥पञ्च_१.३३१॥

तद् युद्धम् मुक्त्वा मे नान्यद् अस्ति श्रेयस्करम्। उक्तम् च-

न तान् हि तीर्थैस् तपसा च लोकान्
स्वर्गैषिणो दान-शतैः सुवृत्तैः।
क्षणेन यान् यांति रणेषु धीराः
प्राणान् समुज्झंति हि ये सुशीलाः॥पञ्च_१.३३२॥

मृतैः संप्राप्यते स्वर्गो जीवद्भिः कीर्तिर् उत्तमा।
तद् उभाव् अपि शूराणाम् गुणाव् एतौ सुदुर्लभौ॥पञ्च_१.३३३॥

ललाट-देशे रुधिरम् स्रवत् तु
शूरस्य यस्य प्रविशेच् च वक्त्रे।
तत् सोमपानेन समम् भवेच् च
संग्राम-यज्ञे विधिवत् प्रदिष्टम्॥पञ्च_१.३३४॥

तथा च-
होमार्थैर् विधिवत् प्रदान-विधिना सद्-विप्र-वृंदार्चनैर्
यज्ञैर् भूरि-सुदक्षिणैः सुविहितैः संप्राप्यते यत् फलम्।
सत्-तीर्थाश्रम-वास-होम-नियमैश् चांद्रायणाद्यैः कृतैः
पुंभिस् तत्-फलम् आहवे विनिहितैः संप्राप्यते तत्-क्षणात्॥पञ्च_१.३३५॥

तद् आकर्ण्य दमनकश् चिंतयामास-युद्धाय कृत-निश्चयोऽयम् दृश्यते दुरात्मा। तद् यदि कदाचित् तीक्ष्ण-शृङ्गाभ्याम् स्वामिनम् प्रहरिष्यति तन् महान् अनर्थः संपत्स्यते। तद् एनम् भूयोऽपि स्व-बुद्ध्या प्रबोध्य तथा करोमि, यथा देशांतर-गमनम् करोति। आह च-भो मित्र! सम्यग् अभिहितम् भवता। परम् कः स्वामि-भृत्ययोः संग्रामः। उक्तम् च-
बलवंतम् रिपुम् दृष्ट्वा किलात्मानम् प्रगोपयेत्।
बलवद्भिश् च कर्तव्या शरच्-चंद्र-प्रकाशता॥पञ्च_१.३३६॥

अन्यच् च-
शत्रोर् विक्रमम् अज्ञात्वा वैरम् आरभते हि यः।
स पराभवम् आप्नोति समुद्रष् टिट्टिभाद् यथा॥पञ्च_१.३३७॥

सञ्जीवक आह--कथम् एतत्?

सो ब्रवीत्-

कथा १२ टिट्टिभ-दंपती-कथासम्पाद्यताम्



कस्मिंश्चित् समुद्रतीरैकदेशे टिट्टिभ-दंपती प्रतिवसतः स्म। ततो गच्छति काल ऋतु-समयम् आसाद्य टिट्टिभी गर्भम् आधत्त। आसन्न-प्रसवा सती सा टिट्टिभम् ऊचे-भोः कांत! मम प्रसव-समयो वर्तते। तद् विचिंत्यताम् किम् अपि निरुपद्रवम् स्थानम् येन तत्राहम् अंडक-मोक्षणम् करोमि।

टिट्टिभः प्राह-भद्रे रम्योऽयम् समुद्र-प्रदेशः। तद् अत्रैव प्रसवः कार्यः।

सा प्राह-अत्र पूर्णिमा-दिने समुद्र-वेला चरति। सा मत्त-गजेंद्रान् अपि समाकर्षति। तद् दूरम् अन्यत्र किंचित् स्थानम् अन्विष्यताम्।

तच् छ्रुत्वा विहस्य टिट्टिभ आह-भद्रे न युक्तम् उक्तम् भवत्या। का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम्। किं न श्रुतम् भवत्या-

बद्ध्वांबर-चर-मार्गम् व्यपगत-धूमम् सदा महद् भयदम्।
मंद-मतिः कः प्रविशति हुताशनम् स्वेच्छया मनुजः॥पञ्च_१.३३८॥
मत्तेभ-कुंभ-विदलन-कृत-श्रमम् सुप्तम् अंतक-प्रतिमम्।
यम-लोक-दर्शनेच्छुः सिंहं बोधयति को नाम॥पञ्च_१.३३९॥
को गत्वा यम-सदनम् स्वयम् अंतकम् आदिशत्य् अजात-भयः।
प्राणान् अपहर मत्तो यदि शक्तिः काचिद् अस्ति तव॥पञ्च_१.३४०॥
प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे।
गुणदोषज्ञः पुरुषो जलेन कः शीतम् अपनयति॥पञ्च_१.३४१॥

तस्माद् विश्रब्धात्रैव गर्भम् मुञ्च। उक्तम् च-

यः पराभव-संत्रस्तः स्व-स्थानम् संत्यजेन् नरः।
तेन चेत् पुत्रिणी माता तद् वंध्या केन कथ्यते॥पञ्च_१.३४२॥

तच् छ्रुत्वा समुद्रश् चिंतयामास-अहो गर्वः पक्षि-कीटस्यास्य। अथ वा साध्व् इदम् उच्यते-
उत्क्षिप्य टिट्टिभः पादाव् आस्ते भङ्गभयाद् दिवः।
स्व-चित्त-कल्पितो गर्वः कस्य नात्रापि विद्यते॥पञ्च_१.३४३॥

तन् मयास्य प्रमाणम् कुतूहलाद् अपि द्रष्टव्यम्। किम् ममैषो अंडापहारे कृते करिष्यति। इति चिंतयित्वा स्थितः। अथ प्रसवानंतरम् प्राणयात्रार्थम् गतायाष् टिट्टिभ्याः समुद्रो वेलाव्याजेनांडान्य् अपजहार। अथायाता सा टिट्टिभी प्रसवस्थानम् शून्यम् अवलोक्य प्रलपंती टिट्टिभम् ऊचे-भो मूर्ख! कथितम् आसीन् मया ते यत् समुद्रवेलया अंडानाम् विनाशो भविष्यति तद् दूरतरम् व्रजावः परम् मूढतयाहंकारम् आश्रित्य मम वचनम् न करोषि। अथवा साध्व् इदम् उच्यते।

सुहृदाम् हितकामानाम् न करोतीह यो वचः। स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति॥पञ्च_१.३४४॥
टिट्टिभ आह-कथम् एतत्?
साब्रवीत्-

कथा १३ कंबुग्रीवाख्य-कूर्म-कथासम्पाद्यताम्



अस्ति कस्मिंश्चिज् जलाशये कंबुग्रीवो नाम कच्छपः। तस्य च संकट-विकट-नाम्नी मित्रे हंस-जातीये परम-स्नेह-कोटिम् आश्रिते नित्यम् एव सरस्-तीरम् आसाद्य तेन सहानेक-देवर्षि-महर्षीणाम् कथाः कृत्वास्तमय-वेलायाम् स्व-नीडा-संश्रयम् कुरुतः। अथ गच्छता कालेनावृष्टि-वशात् सरः शनैः शनैः शोषम् अगमत्। ततस् तद्-दुःख-दुःखितौ ताव् ऊचतुः-भो मित्र! जंबाल-शेषम् एतत्-सरः सञ्जातम्। तत् कथम् भवान् भविष्यतीति व्याकुलत्वम् नो हृदि वर्तते।

तच् छ्रुत्वा कंबुग्रीव आह-भोः, सांप्रतम् नास्त्य् अस्माकम् जीवितव्यम् जलाभावात्। तथाप्य् उपायश् चिंत्यताम् इति। उक्तम् च-

त्याज्यम् न धैर्यम् विधुरेपि काले
धैर्यात् कदाचिद् गतिम् आप्नुयात् सः।
यथा समुद्रेपि च पोत-भंगे
सांयात्रिको वाञ्छति तर्तुम् एव॥पञ्च_१.३४५॥

अपरम् च-
मित्रार्थे बांधवार्थे च बुद्धिमान् यतते सदा।
जातास्व् आपत्सु यत्नेन जगादेदम् वचो मनुः॥पञ्च_१.३४६॥

तद् आनीयताम् काचिद् दृढ-रज्जुर् लघु-काष्ठम् वा। अन्विष्यताम् च प्रभूत-जल-सनाथम् सरः, येन मया मध्य-प्रदेशे दंतैर् गृहीते सति युवाम् कोटि-भागयोस् तत्-काष्ठम् मया सहितम् संगृह्य तत्-सरो नयथः।

ताव् ऊचतुः-भो मित्र! एवम् करिष्यावः। परम् भवता मौन-व्रतेन स्थातव्यम्। नो चेत् तव काष्ठात् पातो भविष्यति।

तथानुष्ठिते गच्छता कंबुग्रीवेणाधोभाग-व्यवस्थितम् किंचित् पुरम् आलोकितम्। तत्र ये पौरास् ते तथा नीयमानम् विलोक्य सविस्मयम् इदम् ऊचुः-अहो चक्राकारम् किम् अपि पक्षिभ्याम् नीयते। पश्यत पश्यत।

अथ तेषाम् कोलाहलम् आकर्ण्य कंबुग्रीव आह-भोः! किम् एष कोलाहलः? इति वक्तु-मना अर्धोक्ते पतितः पौरैः खंडशः कृतश् च। अतोऽहम् ब्रवीमि-सुहृदाम् हित-कामानाम् इति। तथा च-

कम्बुग्रीवोपरि टिप्पणीः

अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा।
द्वाव् एतौ सुखम् एधेते यद्-भविष्यो विनश्यति॥पञ्च_१.३४७॥

टिट्टिभ आह-कथम् एतत्?

साब्रवीत्-

कथा १४ अनागत-विधातादि-मत्स्य-त्रय-कथासम्पाद्यताम्


कस्मिंश्चिज् जलाशयेऽनागत-विधाता प्रत्युत्पन्न-मतिर् यद्-भविष्यश् चेति त्रयो मत्स्याः संति। अथ कदाचित् तम् जलाशयम् दृष्ट्वा गच्छद्भिर् मत्स्य-जीविभिर् उक्तम्-यद् अहो बहु-मत्स्योऽयम् ह्रदः। कदाचिद् अपि नास्माभिर् अन्वेषितः। तद् अद्य तावद् आहार-वृत्ति- सञ्जाता। संध्या-समयश् च संवृत्तः। ततः प्रभातेऽत्रागन्तव्यम् इति निश्चयः।

अतस् तेषाम् तत्-कुलिश-पातोपमम् वचः समाकर्ण्याऽनागत-विधाता सर्वान् मत्स्यान् आहूयेदम् ऊचे-अहो, श्रुतम् भवद्भिर् यन् मत्स्य-जीविभिर् अभिहितम्। तद् रात्राव् अपि गम्यताम् किञ्चिन् निकटम् सरः। उक्तम् च-

अशक्तैर् बलिनः शत्रोः कर्तव्यम् प्रपलायनम्।
संश्रितव्योऽथवा दुर्गो नांया तेषां गतिर् भवेत्॥पञ्च_१.३४८॥

तन् नूनम् प्रभात-समये मत्स्य-जीविनोऽत्र समागम्य मत्स्य-संक्षयम् करिष्यन्ति। एतन् मम मनसि वर्तते। तन् न युक्तम् सांप्रतम् क्षणम् अप्य् अत्रावस्थातुम्। उक्तम् च-

विद्यमाना गतिर् येषाम् अन्यत्रापि सुखावहा।
ते न पश्यंति विद्वांसो देह-भंगम् कुल-क्षयम्॥पञ्च_१.३४९॥

तद् आकर्ण्य प्रत्युत्पन्न-मतिः प्राह-अहो सत्यम् अभिहितम् भवता। ममाप्य् अभीष्टम् एतत्। तद् अन्यत्र गम्यताम् इति। उक्तम् च-

पर-देश-भयात् भीता बहु-माया नपुंसकाः।
स्व-देशे निधनम् यांति काकाः कापुरुषा मृगाः ॥पञ्च_१.३५०॥


अग्रिमपुटम्

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२छ&oldid=112786" इत्यस्माद् पुनः प्राप्तिः