प्रमुखा विकल्पसूचिः उद्घाट्यताम्

पञ्चतन्त्रम् ०२झ

एवं विचिंत्य शंकुकर्णम् इदम् आह-भोः शंकुकर्ण! स्वामी तावत् पथ्यं विना क्षुधया परिपीड्यते। स्वाम्य-भावाद् अस्माकम् अपि ध्रुवं विनाश एव। ततो वाक्यं किञ्चित् स्वाम्य्-अर्थे वदिष्यामि। तच् छ्रूयताम्।

शंकुकर्ण आह-भोः शीघ्रं निवेद्यतां, येन ते वचनं शीघ्रं निर्विकल्पं करोमि। अपरं स्वामिनो हिते कृते मया सुकृत-शतं कृतं भविष्यति।

अथ चतुरक आह-भो भद्र! आत्म-शरीरं द्विगुण-लाभेन स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति। स्वामिनः पुनः प्राण-यात्रा भवति।

तद् आकर्ण्य शंकुकर्णः प्राह-भद्र! यद्य् एवं तन् मदीय-प्रयोजनम् एतद् उच्यताम्। स्वाम्य्-अर्थः क्रियताम् इति। परम् अत्र धर्मः प्रतिभूः इति।

ते विचिंत्य सर्वे सिंह-सकाशम् आजग्मुः। ततश् चतुरक आह-देव! न किञ्चित् सत्त्वं प्राप्तम्। भगवान् आदित्योऽप्य् अस्तं गतः। तद् यदि स्वामी द्विगुणं शरीरं प्रयच्छति। ततः शंकुकर्णोऽयं द्विगुण-वृद्ध्या स्व-शरीरं प्रयच्छति धर्म-प्रतिभुवा।

सिंह आह-भोः, यद्य् एवं तत् सुंदरतरम्। व्यवहारस्यास्य धर्मः प्रतिभूः क्रियताम् इति।

अथ सिंह-वचनानंतरं वृक-शृगालाभ्यां विदारितोभय-कुक्षिः शंकुकर्णः पञ्चत्वम् उपागतः।

अथ वज्र-दंष्ट्रश् चतुरकम् आह-भोश् चतुरक! यावद् अहं नदीं गत्वा स्नानं देवतार्चन-विधिं कृत्वागच्छामि, तावत् त्वयात्रापमत्तेन भाव्यम् इत्य् उक्त्वा नद्यां गतः।

अथ तस्मिन् गते चतुरकश् चिंतयामास-कथं ममैकाकिनो भोज्यो यम् उष्ट्रो भविष्यति इति विचिंत्य क्रव्यमुखम् आह-भोः क्रव्यमुख! क्षुधालुर् भवान्। तद् यावद् असौ स्वामी नागच्छति, तावत् त्वम् अस्योष्ट्रस्य मांसं भक्षय। अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि।

सोऽपि तच् छ्रुत्वा यावत् किञ्चिन् मांसम् आस्वादयति तावच् चतुरकेणोक्तम्-भोः क्रव्यमुख! समागच्छति स्वामी। तत् त्यक्त्वैनं दूरे तिष्ठ, येनास्य भक्षणं न विकल्पयति।

तथानुष्ठिते सिंहः समायातो यावद् उष्ट्रं पश्यति तावद् रिक्तीकृत-हृदयो दासेरकः। ततो भृकुटिं कृत्वा परुषतरम् आह-अहो केनैष उष्ट्र उच्छिष्टतां नीतो, येन तम् अपि व्यापादयामि।

एवम् अभिहिते क्रव्यमुखश् चतुरक-मुखम् अवलोकयति। अथ चतुरको विहस्योवाच-भोः! माम् अनादृत्य पिशितं भक्षयित्वाधुना मन्-मुखम् अवलोकयसि। तद्-आस्वादयास्य दुर्णय-तरोः फलम् इति।

तद् आकर्ण्य क्रव्यमुखो जीव-नाश-भयाद् दूर-देशं गतः। एतस्मिंन् अन्तरे तेन मार्गेण दासेरक-सार्थो भाराक्रांतः समायातः। तस्याग्रेसरोष्ट्रस्य कंठे महती घंटा बद्धा। तस्याः शब्दं दूरतोऽप्य् आकर्ण्य सिंहो जंबुकम् आह-भद्र, ज्ञायतां किम् एष रौद्रः शब्दः श्रूयतेऽश्रुत-पूर्वः?

तच् छ्रुत्वा, चतुरकः किञ्चिद् वनांतरं गत्वा सत्वरम् अभ्युपेत्य प्रोवाच-स्वामिन्! गम्यतां गम्यतां यदि शक्नोषि गंतुम्।

सो ब्रवीत्-भद्र, किम् एवं मां व्याकुलयसि। तत् कथय किम् एतत्?
इति चतुरक आह-स्वामिन्, एष धर्मराजस् तवोपरि कुपितः। यद् अनेनाकाले दासेरकोऽयं मदीयो व्यापादितः। तत् सहस्र-गुणम् उष्ट्रम् अस्य सकाशाद् ग्रहीष्यामि। इति निश्चित्य बृहन्-मानम् आदायाग्रेसरस्योष्ट्रस्य ग्रीवायां घंटां बद्ध्वा बध्य-दासेरक-सक्तान् अपि पितृ-पितामहान् आदाय वैर-निर्यातनार्थम् आयात एव।

सिंहोऽपि तच् छ्रुत्वा सर्वतो दूराद् एवावलोक्य मृतम् उष्ट्रं परित्यज्य प्राण-भयात् प्रणष्टः। चतुरकोऽपि शनैः शनैस् तस्योष्ट्रस्य मांसं भक्षयामास। अतोऽहं ब्रवीमि-परसय पीडनं कुर्वन् (३९९) इति।

अथ दमनके गते सञ्जीवकश् चिंतयामास-अहो किम् एतन् मया कृतम्? यच् छष्पादोऽपि मांसाशितस् तस्यानुगः संवृत्तः। अथवा साध्व् इदम् उच्यते-
अगम्यानि पुमान् याति यो सेव्यांश् च निषेवते।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा॥पञ्च_१.४०१॥

तत् किं करोमि? क्व गच्छामि? कथं मे शांतिर् भविष्यति? अथवा तम् एव पिंगलकं गच्छामि। कदाचिन् मां शरणागतं रक्षति। प्राणैर् न वियोजयति। यत उक्तं च-

धर्मार्थं यतताम् अपीह विपदो देवाद् यदि स्युः क्वचित्
तत् तासाम् उपशांतये सुमतिभिः कार्यो विशेषान् नयः।
लोके ख्यातिम् उपागतात्र सकले लोकोक्तिर् एषा यतो
दग्धानां किल वह्निना हित-करः सेकोऽपि तस्योद्भवः॥पञ्च_१.४०२॥

तथा च-
लोकेथवा तनु-भृतां निज-कर्म-पाकं
नित्यं समाश्रितवतां सुहित-क्रियाणाम्।
भावार्जितं शुभम् अथाप्य् अशुभं निकामं
यद् भावि तद् भवति नात्र विचार-हेतुः॥पञ्च_१.४०३॥

अपरं चान्यत्र गतस्यापि मे कस्यचिद् दुष्ट-सत्त्वस्य मांसाशिनः सकाशान् मृत्युर् भविष्यति। तद् वरं सिंहात्। उक्तं च-

महद्भिः स्पर्धमानस्य विपद् एव गरीयसी।
दंत-भंगेपि नागानां श्लाघ्यो गिरि-विदारणे॥पञ्च_१.४०४॥

तथा च-
महतोऽपि क्षयं लब्ध्वा श्लाघ्यं नीचोऽपि गच्छति।
दानार्थी मधुपो यद्वद् गज-कर्ण-समाहतः॥पञ्च_१.४०५॥

एवं निश्चित्य स स्थलित-गतिं मंदं गत्वा सिंहाश्रयं पश्यन्न् अपठत्-अहो, साध्व् इदम् उच्यते-

अन्तर्-लीन-भुजंगमं गृहम् इवांतःस्थोग्र-सिंहं वनं
ग्राहाकीर्णम् इवाभिराम-कमल-च्छाया-सनाथं सरः।
कालेनार्य-जनापवाद-पिशुनैः क्षुद्रैर् अनार्यैः श्रितं
दुःखेन प्रविगाह्यते स-चकितं राज्ञां मनः सामयम्॥पञ्च_१.४०६॥

एवं पठन् दमनकोक्ताकारं पिंगलकं दृष्ट्वा प्रचकितः संवृत-शरीरो दूरतरं प्रणाम-कृतिं विनाप्य् उपविष्टः। पिंगलकोऽपि तथाविधं तं विलोक्य दमनक-वाक्यं श्रद्दधानः कोपात् तस्योपरि पपात।

अथ सञ्जीवकः खर-नख-विकर्तित-पृष्ठः शृंगाभ्यां तद्-उदरम् उल्लिख्य कथम् अपि तस्माद् अपेतः शृंगाभ्यां हंतुम् इच्छन् युद्धायावस्थितः। अथ द्वाव् अपि तौ पुष्पित-पलाश-प्रतिमौ परस्पर-वध-कांक्षिणौ दृष्ट्वा करटको दमनकम् आह-भो मूढ-मते! अनयोर् विरोधं वितन्वता त्वया साधु न कृतम्। न च त्वं नीति-तत्त्वं वेत्सि। नीतिविद्भिर् उक्तं च-

कार्याण्य् उत्तम-दंड-साहस-फलान्य् आयास-साध्यानि ये प्रीत्या संशमयन्ति नीति-कुशलाः साम्नैव ते मंत्रिणः।
निःसाराल्प-फलानि ये त्व् अविधिना वाञ्छन्ति दंडोद्यमैस्
तेषां दुर्नय-चेष्टितैर् नरपतेर् आरोप्यते श्रीस् तुलाम्॥पञ्च_१.४०७॥

तद् यदि स्वाम्य्-अभिघातो भविष्यति तत् किं त्वदीय-मंत्र-बुद्ध्या क्रियते। अथ सञ्जीवको न बध्यते तथाप्य् अभव्यम्। यतः प्राण-संदेहात् तस्य च वधः। तन् मूढ! कथं त्वं मंत्रि-पदम् अभिलषसि। साम-सिद्धिं न वेत्सि। तद् वृथा मनोरथोऽयं ते दंडरुचेः। उक्तं च-

सामादि-दंड-पर्यंतो नयः प्रोक्तः स्वयंभुवा।
तेषां दंडस् तु पापीयांस् तं पश्चाद् विनियोजयेत्॥पञ्च_१.४०८॥

तथा च-
साम्नैव यत्र सिद्धिर् न तत्र दंडो बुधेन विनियोज्यः।
पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन॥पञ्च_१.४०९॥

तथा च-
आदौ साम प्रयोक्तव्यं पुरुषेण विजानता।
साम-साध्यानि कार्याणि विक्रियां यान्ति न क्वचित्॥पञ्च_१.४१०॥
न चंद्रेण न चौषध्या न सूर्येण न वह्निना।
साम्नैव विलयं याति विद्वेष-प्रभवं तमः॥पञ्च_१.४११॥

तथा यत् त्वं मंत्रित्वम् अभिलषसि, तद् अप्य् अयुक्तम्। यतस् त्वं मंत्रि-गतिं न वेत्सि। यतः पञ्च-विधो मंत्रः। स च कर्मणाम् आरंभोपायः, पुरुष-द्रव्य-संपत्, देश-काल-विभागः, विनिपात-प्रतीकारः, कार्य-सिद्धिश् चेति। सोऽयं स्वाम्य्-अमात्ययोर् एकतमस्य किं वा द्वयोर् अपि विनिपातः समुत्पद्यते लग्नः। तद् यदि काचिच् छक्तिर् अस्ति तद् विचिंत्यतां विनिपात-प्रतीकारः। भिन्न-संधाने हि मंत्रिणां बुद्धि-परीक्षा। तन् मूर्ख! तत् कर्तुम् असमर्थत्वं यतो विपरीत-बुद्धिर् असि। उक्तं च-

मंत्रिणां भिन्न-संधाने भिषजां सांनिपातिके।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पंडितः॥पञ्च_१.४१२॥

अन्यच् च-
घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसाधयितुम्।
पातयितुम् एव शक्तिर् नाखोरुद्धर्तुम् अन्न-पिटकम्॥पञ्च_१.४१३॥

अथवा न ते दोषोऽयम्। स्वामिनो दोषः। यस् ते वाक्यं श्रद्दधाति। उक्तं च-

नराधिपा नीच-जनानुवर्तिनो
बुधोपदिष्टेन पथा न यांति ये।
विशंत्य् अतो दुर्गम-मार्ग-निर्गमं
समस्त-संबाधम् अनर्थ-पञ्जरम्॥पञ्च_१.४१४॥

तद् यदि त्वम् अस्य मंत्री भविष्यसि तदान्योऽपि कश्चिन् नास्य समीपे साधु-जनः समेष्यति। उक्तं च-

गुणालयोऽप्य् असन् मंत्री नृपतिर् नाधिगम्यते।
प्रसन्न-स्वादु-सलिलो दुष्ट-ग्राह्यो यथा ह्रदः॥पञ्च_१.४१५॥

तथा च शिष्ट-जन-रहितस्य स्वामिनोऽपि नाशो भविष्यति। उक्तं च-

चित्रास्वाद-कथैर् भृत्यैर् अनायासित-कार्मुकैः।
ये रमन्ते नृपास् तेषां रमन्ते रिपवः श्रिया॥पञ्च_१.४१६॥

तत् किं मूर्खोपदेशेन। केवलं दोषो न गुणः। उक्तं च-

नानाम्यं नमते दारु नाऽश्मनि स्यात् क्षुर-क्रिया।
सूची-मुखं विजानीहि नाशिष्यायोपश्यते॥पञ्च_१.४१७॥

दमनक आह--कथम् एतत्?

सो ब्रवीत्-

अन्तर्विषयाः

कथा १७ वानरयूथ-सूचीमुखी कथासम्पाद्यताम्


अस्ति कस्मिंश्चित् पर्वतैक-देशे वानर-यूथम्। तच् च कदाचिद् धेमंत-समयेऽतिकठोर-वात-संस्पर्श-वेपमान-कलेवरं तुषार-वर्षोद्धत-प्रवर्ष-घन-धारा-निपात-समाहतं न कथञ्चिच् छांतिम् अगमत्। अथ केचिद् वानरा वह्नि-कण-सदृशानि गुञ्जा-फलानि अवचित्य वह्नि-वाञ्छया फूत्कुर्वंतः समंतात् तस्थुः।

अथ सूचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच-भोः, सर्वे मूर्खा यूयम्। नैते वह्नि-कणाः गुञ्जा-फलानि एतानि। तत् किं वृथा श्रमेण। नैतस्माच् छीत-रक्षा भविष्यति। तद् अन्विष्यतां कश्चिन् निर्वातो वन-प्रदेशो गुहा गिरि-कंदरं वा। अद्यापि सटोपा मेघा दृश्यंते।

अथ तेषाम् एकतमो वृद्ध-वानरस् तम् उवाच-भो मूर्ख! किं तावद् अनेन व्यापारेण। तद् गम्यताम्। उक्तं च-

मुहुर् विघ्नित-कर्माणं द्यूत-कारं पराजितम्।
नालापयेद् विवेकज्ञो यदीच्छेत् सिद्धिम् आत्मनः॥पञ्च_१.४१८॥

तथा च-
आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम्।
समालापेन यो युंक्ते स गच्छति पराभवम्॥पञ्च_१.४१९॥

सोऽपि तम् अनादृत्य भूयोऽपि वानरान् अनवरतम् आह-भोः! किं वृथा क्लेशेन? अथ यावद् असौ न कथञ्चित् प्रलपन् विरमति तावद् एकेन वानरेण व्यर्थ-श्रमत्वात् कुपितेन पक्षाभ्यां गृहीत्वा शिलायाम् आस्फालित उपरतश् च।

अतोऽहं ब्रवीमि-नानम्यं नमते दारु इत्य् आदि। तथा च-

उपदेशो हि मूर्खाणां प्रकोपाय न शांतये।
पयःपानं भुजंगानां केवलं विषवर्धनम्॥पञ्च_१.४२०॥

सूचीमुख - वानर कथायाः वैदिक आधारोपरि विवेचनम्

अन्यच् च-
उपदेशो न दातव्यो यादृशे तादृशे नरे।
पश्य वानरमूर्खेण सुगृही निर्गृही कृता॥पञ्च_१.४२१॥

दमनक आह-कथम् एतत्?

सो ब्रवीत्-

कथा १८ वानर-चटक पक्षी कथासम्पाद्यताम्


कस्मिंश्चिद् वने शमी-वृक्ष-शाखालंबित-वसथं कृत्वारण्य-चटक-दंपती प्रतिवसतः स्म। अथ कदाचित् तयोः सुख-संस्थयोर् हेमन्त-मेघो मन्दं मन्दं वर्षितुम् आरब्धः। अत्रांतरे कश्चिच् छाखा-मृगो वातासार-समाहतः प्रोद्धूलित-शरीरो दंतवीणां वादयन् वेपमानस् तस्याः शम्या मूलम् आसाद्योपविष्टः। अथ तं तादृशम् अवलोक्य चटका प्राह-भो भद्र!
हस्त-पाद-समोपेतो दृश्यसे पुरुषाकृतिः। शीतेन भिद्यसे मूढ कथं न कुरुषे गृहम्॥पञ्च_१.४२२॥
एतच् छ्रुत्वा तां वानरः सकोपम् आह-अधमे कस्मान् न त्वं मौन-व्रता भवसि? अहो धार्ष्ट्यम् अस्याः। अद्य माम् उपहसति-

सूची-मुखि दुराचारा रंडा पंडित-वादिनी।
नाशंकते प्रजल्पंती तत् किम् एनां न हन्म्य् अहम्॥पञ्च_१.४२३॥

एवं प्रलप्य ताम् आह-मुग्धे! किं मम चिंतया तव प्रयोजनम्? उक्तं च-
वाच्यं श्रद्धा-समेतस्य पृच्छतेश् च विशेषतः।
प्रोक्तं श्रद्धा-विहीनस्य अरण्य-रुदितोपमम्॥पञ्च_१.४२४॥

तत् किं बहुना तावत्। कुलाय-स्थितया तया पुनर् अप्य् अभिहितः। स तावत् तां शमीम् आरुह्य तस्याः कुलायं शतधा खंडशोऽकरोत्। अतोऽहं ब्रवीमि-उपदेशो न दातव्यः इति।

तन् मूर्ख! शिक्षापितोऽपि न शिक्षितस् त्वम्। अथवा न ते दोषोऽस्ति, यतः साधोः शिक्षा गुणाय संपद्यते, नासाधोः। उक्तं च-

किं करोत्य् एव पांडित्यम् अस्थाने विनियोजितम्।
अंधकार-प्रतिच्छन्ने घटे दीप इवाहितः॥पञ्च_१.४२५॥

तद्-व्यर्थ-पांडित्यम् आश्रित्य मम वचनम् अशृण्वन् आत्मनः शांतिम् अपि वेत्सि। तन् नूनम् अपजातस् त्वम्। उक्तं च-

जातः पुत्रोऽनुजातश् च अतिजातस् तथैव च।
अपजातश् च लोकेऽस्मिन् मंतव्याः शास्त्र-वेदिभिः॥पञ्च_१.४२६॥
मातृतुल्य-गुणो जातस् त्व् अनुजातः पितुः समः।
अतिजातोऽधिकस् तस्माद् अपजातोऽधमाधमः॥पञ्च_१.४२७॥

अप्य् आत्मनो विनाशं गणयति न खलः पर-व्यसन-हृष्टः।
प्रायो मस्तक-नाशे समर-मुखे नृत्यति कबंधः॥पञ्च_१.४२८॥

अहो, साध्व् इदम् उच्यते-

धर्म-बुद्धिः कुबुद्धिश् च द्वाव् एतौ विदितौ मम।
पुत्रेण व्यर्थ-पांडित्यात् पिता धूमेन घातितः॥पञ्च_१.४२९॥

दमनक आह--कथम् एतत्?

सो ब्रवीत्-

कथा २० कृष्ण-सर्प-कथासम्पाद्यताम्


कस्मिंश्चिद् देशे धर्मबुद्धिः पापबुद्धिश् च द्वे मित्रे प्रतिवसतः। अथ कदाचित् पापबुद्धिना चिंतितं यद्-अहं तावन् मूर्खो दारिद्र्योपेतश् च। तद् एनं धर्मबुद्धिम् आदाय देशांतरं गत्वा अस्याश्रयेणार्थोपार्जनां कृत्वैनम् अपि वञ्चयित्वा सुखीभवामि।

अथांयस्मिंन् अहनि पापबुद्धिर् धर्मबुद्धिं प्राह-भो मित्र! वार्धक-भावे किं त्व् आत्म-विचेष्टितं स्मरसि। देशांतरम् अदृष्ट्वा कां शिष्ट-जनस्य वार्त्तां कथयिष्यसि? उक्तं च-

देशांतरेषु बहु-विध-भाषा-वेषादि येन न ज्ञातम्।
भ्रमता धरणी-पीठे तस्य फलं जन्मनो व्यर्थम्॥पञ्च_१.४३०॥

तथा च-
विद्यां वित्तं शिल्पं तावन् नाप्नोति मानवः सम्यक्।
यावद् व्रजति न भूमौ देशाद् देशांतरं हृष्टः॥पञ्च_१.४३१॥

अथ तस्य तद्-वचनम् आकर्ण्य प्रहृष्ट-मनास् तेनैव सह गुरु-जनानुज्ञातः शुभेहनि देशांतरं प्रस्थितः। तत्र च धर्मबुद्धि-प्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तम् आसादितम्। ततश् च तौ द्वाव् अपि प्रभूतोपार्जित-द्रव्यौ प्रहृष्टौ स्व-गृहं प्रत्य् औत्सुक्येन प्रस्थितौ। उक्तं च-

प्राप्त-विद्यार्थ-शिल्पानां देशांतर-निवासिनाम्।
क्रोश-मात्रोऽपि भू-भागः शत-योजनवद् भवेत्॥पञ्च_१.४३२॥

अथ स्व-स्थान-समीप-वर्तिना पापबुद्धिना धर्मबुद्धिर् अभिहितः-भद्र! न सर्वम् एतद् धनं गृहं प्रति नेतुं युज्यते। यतः कुटुंबिनो बांधवाश् च प्रार्थयिष्यंते। तद् अत्रैव वन-गहने क्वापि भूमौ निक्षिप्य किञ्चिन् मात्रम् आदाय गृहं प्रविशावः। भूयोऽपि प्रयोजने सञ्जाते तन्-मात्रं समेत्यास्मात् स्थानान् नेष्यावः। उक्तं च-

न वित्तं दर्शयेत् प्राज्ञः कस्यचित् स्वल्पम् अप्य् अहो।
मुनेर् अपि यतस् तस्य दर्शनाच् चलते मनः॥पञ्च_१.४३३॥

तथा च-
यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि।
आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान्॥पञ्च_१.४३४॥

तद् आकर्ण्य धर्मबुद्धिर् आह-भद्र एवं क्रियताम्। तथानुष्ठिते द्वाव् अपि तौ स्व-गृहं गत्वा सुखेन संस्थितवंतौ। अथान्यस्मिंन् अहनि पापबुद्धिर् निशीथेटव्यां गत्वा तत् सर्वं वित्तं समादाय गर्तं पूरयित्वा स्व-भवनं जगाम।

अथांयेद्युर् धर्मबुद्धिं समेत्य प्रोवाच-सखे बहु-कुटुंबा वयं वित्ताभावात् सीदामः। तद् गत्वा तत्र स्थाने किंचिन् मात्रं धनम् आनयावः।

सो ब्रवीत्-भद्र, एवं क्रियताम्।

अथ द्वाव् अपि गत्वा तत् स्थानं यावत् खनतस् तावद् रिक्तं भांडं दृष्टवंतौ। अत्रांतरे पापबुद्धिः शिरस् ताडयन् प्रोवाच-भो धर्मबुद्धे! त्वया हृतम् एतद् धनं, नान्येन। यतो भूयोऽपि गर्तापूरणं कृतम्। तत् प्रयच्छ मे तस्यार्धम्। अन्यथाहं राज-कुले निवेदयिष्यामि।

स आह-भो दुरात्मन्! मा मैवं वद। धर्मबुद्धिः खल्व् अहम्। नैतच् चौर-कर्म करोमि। उक्तं च-

मातृवत् पर-दाराणि पर-द्रव्याणि लोष्टवत्।
आत्मवत् सर्व-भूतानि वीक्षंते धर्म-बुद्धयः।।॥पञ्च_१.४३५॥

एवं द्वाव् अपि विवदमानौ धर्माधिकारिणं गतौ? प्रोचतुश् च परस्परं दूषयन्तौ। अथ धर्माधिकरणाधिष्ठित-पुरुषैर् दिव्यार्थं यावन् नियोजितौ तावत् पापबुद्धिर् आह-
अहो न सम्यग्-दृष्टो अन्यायः। उक्तं च-

विवादे अन्विष्यते पत्रं तद्-अभावेपि साक्षिणः।
साक्ष्य् अभावात् ततो दिव्यं प्रवदंति मनीषिणः॥पञ्च_१.४३६॥

तद् अत्र विषये मम वृक्ष-देवताः साक्षि-भूतास् तिष्ठन्ति। ता अप्य् आवयोर् एकतरं चौरं साधुं वा करिष्यंति। अथ तैः सर्वैर् अभिहितम्-भो युक्तम् उक्तं भवता। उक्तं च-

अन्त्यजोऽपि यदा साक्षी विवादे संप्रजायते।
न तत्र युज्यते दिव्यं किं पुनर् वन-देवताः॥पञ्च_१.४३७॥

तद् अस्माकम् अप्य् अत्र विषये महत् कौतूहलम् वर्तते। प्रत्यूष-समये युवाभ्याम् अप्य् अस्माभिः सह तत्र वनोद्देशे गंतव्यम् इति। एतस्मिंन् अन्तरे पापबुद्धिः स्व-गृहं गत्वा स्व-जनकम् उवाच-तात, प्रभूतोऽयं मयार्थो धर्मबुद्धेश् चोरितः। स च तव वचनेन परिणतिं गच्छति। अन्यथास्माकं प्राणैः सह यास्यति।

स आह-वत्स, द्रुतं वद येन प्रोच्य तद् द्रव्यं स्थिरतां नयामि।

पापबुद्धिर् आह-तात, अस्ति तत्-प्रदेशे महा-शमी। तस्यां महत् कोटरम् अस्ति। तत्र त्वं सांप्रतम् एव प्रविश। ततः प्रभाते यदाहं सत्य-श्रावणं करोमि, तदा त्वया वाच्यं यद् धर्मबुद्धिश् चौर इति।

तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धि-पुरः-सरो धर्माधिकरणकैः� सह तां शमीम् अभ्येत्य तार-स्वरेण प्रोवाच।

आदित्यचंद्राव् अनिलोऽनलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च।
अहश् च रात्रिश् च उभे च संध्ये
धर्मो हि जानाति नरस्य वृत्तम्॥पञ्च_१.४३८॥

भगवति वन-देवते! आवयोर् मध्ये यश् चौर तत् कथयत।

अथ पापबुद्धि-पिता शमी-कोटर-स्थः प्रोवाच-भो, धर्मबुद्धिना हृतम् एतद् धनम्।

तद् आकर्ण्य सर्वे ते राज-पुरुषा विस्मयोत्फुल्ल-लोचना यावद् धर्मबुद्धेर् वित्त-हरणोचितं निग्रहं शास्त्र-दृष्ट्यावलोकयन्ति तावद् धर्मबुद्धिना तच् छमी-कोटरं वह्नि-भोज्य-द्रव्यैः परिवेष्ट्य वह्निना संदीपितम्। अथ ज्वलति तस्मिन् शमी-कोटरेर्ध-दग्ध-शरीरः स्फुटितेक्षणः करुणं परिदेवयन् पापबुद्धि-पिता निश्चक्राम। ततश् च तैः सर्वैः पृष्टः-भो किम् इदम्?

इत्य् उक्ते इदं सर्वं कुकृत्यं पापबुद्धेः कारणाज् जातम् इत्य् उक्त्वा मृतः। ततस् ते राज-पुरुषाः पापबुद्धिं शमी-शाखायां प्रतिलंब्य धर्मबुद्धिं प्रशंस्येदम् ऊचुः-
अहो साध्व् इदम् उच्यते-

उपायं चिंतयेत् प्राज्ञस् तथापायम् अपि चिंतयेत्।
पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः॥पञ्च_१.४३९॥

धर्म-बुद्धिः प्राह-कथम् एतत्?

ते प्रोचुः-

कथा २१सम्पाद्यताम्


अस्ति कस्मिंश्चिद् वनोद्देशे बहु-बक-सनाथो वट-पादपः। तस्य कोटरे कृष्ण-सर्पः प्रतिवसति स्म। स च बक-बालकान् अजात-पक्षान् अपि सदैव भक्षयन् कालं नयति। अथैको बकस् तेन भक्षितांय् अपत्यानि दृष्ट्वा शिशु-वैराग्यात् सरस्-तीरम् आसाद्य बाष्प-पूरैत-नयनो धो-मुखस् तिष्ठति। तं च तादृक्-चेष्टितम् अवलोक्य कुलीरकः प्रोवाच-माम किम् एवं रुद्यते भवताद्य?

स आह-भद्र किं करोमि? मम मंद-भाग्यस्य बालकाः कोटर-निवासिना सर्पेण भक्षिताः। तद्-दुःख-दुःखितो हं रोदिमि। तत् कथय मे यद्य् अस्ति कश्चिद् उपायस् तद्-विनाशाय।
तद् आकर्ण्य कुलीरकश् चिंतयामास-अयं तावद् अस्मत्-सहज-वैरी। तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येपि बकाः सर्वे संक्षयम् आयांति। उक्तं च-

नवनीत-समां वाणीं कृत्वा चित्तं तु निर्दयम्।
तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा॥पञ्च_१.४४०॥

आह च-माम, यद्य् एवं तन् मत्स्य-मांस-खंडानि नकुलस्य बिल-द्वारात् सर्प-कोटरं यावत् प्रक्षिप यथा नकुलस् तन्-मार्गेण गत्वा तं दुष्ट-सर्पं विनाशयति।

अथ तथानुष्ठिते मत्स्य-मांसानुसारिणा नकुलेन तं कृष्ण-सर्पं निहत्य तेपि तद्-वृक्षाश्रयाः सर्वे बकाश् च शनैः शनैर् भक्षिताः। अतो वयं ब्रूमः-उपायं चिंतयेद् इति।

एवं मूढ! त्वयाप्य् अपायश् चिंतितो नोपायः पाप-बुद्धिवत्। तन् न भवसि त्वं सज्जनः। केवलं पाप-बुद्धिर् असि। ज्ञातो मया स्वामिनः प्राण-संदेहानयनात्। प्रकटीकृतं त्वया स्वयम् एवात्मनो दुष्टत्वं कौटिल्यं च। अथवा साध्व् इदम् उच्यते-

यत्नाद् अपि कः पश्येच् छिखिनाम् आहार-निःसरण-मार्गम्।
यदि जलद-ध्वनि-मुदितास् त एव मूढा न नृत्येयुः॥पञ्च_१.४४१॥

यदि त्वं स्वामिनम् एनां दशां नयसि तद् अस्मद्-विधस्य का गणना? तस्मान् ममासन्नेन भवता न भाव्यम्। उक्तं च-

तुलां लोह-सहस्रस्य यत्र खादंति मूषकाः।
राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः॥पञ्च_१.४४२॥

दमनक आह--कथम् एतत्?
सोऽब्रवीत्-

कथा २२ जीर्णधन-नाम-वणिक्-पुत्र-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्-पुत्रः। स च द्रव्य-क्षयाद् देशांतर-गमन-मना व्यचिंतयत्-

यत्र देशे अथ वा स्थाने भोगान् भुक्त्वा स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥पञ्च_१.४४३॥

तथा च-
येनाहंकारयुक्तेन चिरं विलसितं पुरा।
दीनं वदति तत्रैव यः परेषां स निंदितः॥पञ्च_१.४४४॥

तस्य च गृहे सहस्र-लोह-भार-घटिता पूर्व-पुरुषोपार्जिता तुलासीत्। तां च कस्यचिद् छ्रेष्टिनो गृहे निक्षेप-भूतां कृत्वा देशांतरं प्रस्थितः। ततः सुचिरं कालं देशांतरं यथेच्छया भ्रांत्वा पुनः स्व-पुरम् आगत्य तं श्रेष्ठिनम् उवाच-भोः श्रेष्ठिन्! दीयतां मे सा निक्षेप-तुला।

स आह-भो! नास्ति सा त्वदीया तुला। मूषिकैर् भक्षिता।

जीर्णधन आह-भोः श्रेष्ठिन्! नास्ति दोषस् ते यदि मूषिकैर् भक्षितेति। ईदृग् एवायं संसारः। न किंचिद् अत्र शाश्वतम् अस्ति। परम् अहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वम् आत्मीयं शिशुम् एनं धनदेव-नामानं मया सह स्नानोपकरण-हस्तं प्रेषयेति।

सोऽपि चौर्य-भयात् तस्य शंकितः स्व-पुत्रम् उवाच-वत्स, पितृव्योऽयं तव स्नानार्थं नद्यां यास्यति। तद् गम्यताम् अनेन सार्धं स्नानोपकरणम् आदायेति। अहो साध्व् इदम् उच्यते-

न भक्त्या कस्यचित् को पि प्रियं प्रकुरुते नरः।
मुक्त्वा भयं प्रलोभं वा कार्य-कारणम् एव वा॥पञ्च_१.४४५॥

तथा च-
अत्यादरो भवेद् यत्र कार्य-कारण-वर्जितः।
तत्र शंका प्रकर्तव्या परिणामे सुखावहा॥पञ्च_१.४४६॥

अथासौ वणिक्-शिशुः स्नानोपकरणम् आदाय प्रहृष्ट-मनास् तेनाभ्यागतेन सह प्रस्थितः। तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदी-गुहायां प्रक्षिप्य तद्-द्वारं बृहच्-छिलयाच्छाद्य सत्वरं गृहम् आगतः। पृष्टश् च तेन वणिजा-भो ऽभ्यागत तत् कथ्यतां कुत्र मे शिशुर् यस् त्वया सह नदीं गतः इति।

स आह-नदी-तटात् स श्येनेन हृत इति।

श्रेष्ठ्य् आह-मिथ्या-वादिन्! किं क्वचिच् छ्येनो बालं हर्तुं शक्नोति? तत् समर्पय मे सुतम्, अन्यथा राज-कुले निवेदयिष्यामीति।

स आह-भोः सत्यवादिन्! यथा श्येनो बालं न नयति तथा मूषिका अपि लोह-भार-घटितां तुलां न भक्षयंति। तद् अर्पय मे तुलां यदि दारकेण प्रयोजनम्। एवं विवदमानौ द्वाव् अपि राज-कुलं गतौ।

तत्र श्रेष्ठी तार-स्वरेण प्रोवाच-भो ब्रह्मण्यम् अब्रह्मण्यम्। मम शिशुर् अनेन चौरेणापहृतः।

अथ धर्माधिकारिणस् तम् ऊचुः-भोः समर्प्यतां श्रेष्ठि-सुतः।

स आह-किं करोमि? पश्यतो मे नदी-तटाच् छ्येनेनापहृतः शिशुः।

तच् छ्रुत्वा ते प्रोचुः-भो न सत्यम् अभिहितं भवता। किं श्येनः शिशुं हर्तुं समर्थो भवति?

स आह-भो भोः श्रूयतां मद्-वचः।

तुलां लोह-सहस्रस्य यत्र खादंति मूषिकाः।
राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः॥पञ्च_१.४४७॥

ते प्रोचुः-कथम् एतत्?

ततः श्रेष्ठी सभ्यानाम् अग्रे सर्वं वृत्तांतं निवेदयामास। ततस् तैर् विहस्य द्वाव् अपि तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन संतोषितौ।

---

अतोऽहं ब्रवीमि-तुलां लोह-सहस्रस्य इति।
तन् मूर्ख! सञ्जीवक-प्रसादम् असहमानेन त्वयैतत् कृतम्। अहो साध्व् इदम् उच्यते-

प्रायेणात्र कुलान्वितं कुकुलजाः श्री-वल्लभं दुर्भगा
दातारं कृपणा ऋजून् ऽनृजवो वित्ते स्थितं निर्धनाः।
वैरूप्योपहृताश् च कांत-वपुषं धर्माश्रयं पापिनो
नाना-शास्त्र-विचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा॥पञ्च_१.४४८॥

तथा च-
मूर्खाणां पंडिता द्वेष्या निर्धनानां महाधनाः।
व्रतिनः पाप-शीलानाम् असतीनां कुल-स्त्रियः॥पञ्च_१.४४९॥

तन् मूर्ख त्वया हितम् अप्य् अहितं कृतम्। उक्तं च-

पंडितोऽपि वरं शत्रुर् न मूर्खो हित-कारकः।
वानरेण हतो राजा विप्राश् चौरेण रक्षिताः॥पञ्च_१.४५०॥

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२झ&oldid=112788" इत्यस्माद् पुनः प्राप्तिः