दमनक आह--कथम् एतत्?

सोऽब्रवीत्-

कथा २३सम्पाद्यताम्


कस्यचिद् राज्ञो नित्यं वानरोऽतिभक्ति-परो अङ्ग-सेवको अन्तः-पुरे अप्य् अप्रतिषिद्ध-प्रसरोऽतिविश्वास-स्थानम् अभूत्। एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा। व्यजनेन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र एवोपविशति। ततस् तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गम् आदाय तस्या उपरि प्रहारो विहितः। ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश् च। तस्माच् चिरायुर् इच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः।

अपरम् एकस्मिन् नगरे कोऽपि विप्रो महा-विद्वान् परं पूर्व-जन्म-योगेन चौरो वर्तते। तस्मिन् पुरेन्य-देशाद् आगतांश् चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिंतितवान्-अहो केनोपायेनैषां धनं लभे। इति विचिंत्य तेषां पुरो नेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासम् उत्पाद्य सेवा कर्तुम् आरब्धा। अथवा साध्व् इदम् उच्यते-

असती भवति सलज्जा क्षारं नीरं च शीतलं भवति।
दंभी भवति विवेकी प्रियवक्ता भवति धूर्तजनः॥पञ्च_१.४५१॥

अथ तस्मिन् सेवां कुर्वति तैर् विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि। ततस् तानि जंघा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गंतुम् उद्यमो विहितः। ततः स धूर्त-विप्रस् तान् विप्रान् गंतुम् उद्यतान् प्रेक्ष्य चिंता-व्याकुलित-मनाः संजातः-
अहो धनम् एतन् न किंचिन् मम चटितम्। अथैभिः सह यामि। पथि क्वापि विषं दत्त्वैतान् निहत्य सर्व-रत्नानि गृह्णामि। इति विचिंत्य तेषाम् अग्रे स-करुणं विलप्येदम् आह-भो मित्राणि! यूयं माम् एकाकिनं मुक्त्वा गंतुम् उद्यताः। तन् मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्-विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते। यूयम् अनुग्रहं विधाय सहाय-भूतं माम् अपि सहैव नयत।

तद्-वचः श्रुत्वा ते करुणार्द्र-चित्तास् तेन समम् एव स्व-देशं प्रति प्रस्थिताः। अथाध्वनि तेषां पञ्चानाम् अपि पल्ली-पुर-मध्ये व्रजतां ध्वांक्षाः कथयितुम् आरब्धाः-रे रे किराताः! धावत धावत। स-पाद-लक्ष-धनिनो यांति। एतान् निहत्य धनं नयत।

ततः किरातैर् ध्वांक्ष-वचनम् आकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर् जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किंचिन् न लब्धम्। तदा तैः किरातैर् अभिहितम्-भोः पांथाः! पुरा कदापि ध्वांक्ष-वचनम् ऽनृतं नासीत्। ततो भवतां सन्निधौ क्वापि धनं विद्यते तद् अर्पयत। अन्यथा सर्वेषाम् अपि वधं विधाय चर्म विदार्य प्रत्यंगं प्रेक्ष्य धनं नेष्यामः।

तदा तेषाम् ईदृशं वचनम् आकर्ण्य चौर-विप्रेण मनसि चिंतितम्-यदैषां विप्राणां वधं विधायांगं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यंति ततोऽहं पूर्वम् एवात्मानम् अरत्नं समर्प्यैतान् मुञ्चामि। उक्तं च-

मृत्योर् बिभेषि किं बाल न स भीतं विमुञ्चति।
अद्य वाब्द-शतांते वा मृत्युर् वै प्राणिनां ध्रुवः॥पञ्च_१.४५२॥

तथा च-
गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः।
सूर्यस्य मंडलं भित्त्वा स याति परमां गतिम्॥पञ्च_१.४५३॥

इति निश्चित्याभिहितं-भोः किराताः! यद्य् एवं ततो मां पूर्वं निहत्य विलोकयत। ततस् तैस् तथानुष्ठिते तं धन-रहितम् अवलोक्यापरे चत्वारोऽपि मुक्ताः।

---

अतोऽहं ब्रवीमि-पंडितोऽपि वरं शत्रुः इति।
अथैवं संवदतोः सञ्जीवकः क्षणम् एकं पिंगलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर् वसुंधरा-पीठे निपपात। अथ तं गतासुम् अवलोक्य पिंगलकस् तद्-गुण-स्मरणार्द्र-हृदयः प्रोवाच-भोः, अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता। यतो विश्वास-घाताद् अन्यन् नास्ति पापतरं कर्म। उक्तं च-

मित्र-द्रोही कृतघ्नश् च यश् च विश्वास-घातकः।
ते नरा नरकं यांति यावच् चंद्र-दिवाकरौ॥पञ्च_१.४५४॥

भूमि-क्षये राज-विनाश एव
भृत्यस्य वा बुद्धिमतो विनाशे।
नो युक्तम् उक्तं ह्य् अनयोः समत्वं
नष्टापि भूमिः सुलभा न भृत्याः॥पञ्च_१.४५५॥

तथा मया सभा-मध्ये स सदैव प्रशंसितः। तत् किं कथयिष्यामि तेषाम् अग्रतः। उक्तं च-

उक्तो भवति यः पूर्वं गुणवान् इति संसदि।
न तस्य दोषो वक्तव्यः प्रतिज्ञा-भंग-भीरुणा॥पञ्च_१.४५६॥

एवं-विधं प्रलपंतं दमनकः समेत्य सहर्षम् इदम् आह-देव, कातरतमस् तवैष अन्यायो यद् द्रोह-कारिणं शष्प-भुजं हत्वेत्थं शोचसि। तन् नैतद् उपपन्नं भूभुजाम्। उक्तं च-

पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत्।
प्राण-द्रोहं यदा गच्छेद् धंतव्यो नास्ति पातकम्॥पञ्च_१.४५७॥

तथा च-
राजा घृणी ब्राह्मणः सर्व-भक्षी
स्त्री चात्रपा दुष्टमतिः सहायः।
प्रेष्यः प्रतीपोऽधिकृतः प्रसादी
त्याज्या अमी यश् च कृतं न वेत्ति॥पञ्च_१.४५८॥

अपि च-
सत्यानृता च परुषा प्रिय-वादिनी च
हिंस्रा दयालुर् अपि चार्थ-परा वदान्या।
भूरि-व्यथा प्रचुर-वित्त-समागमा च
वेश्यांगनेव नृप-नीतिर् अनेक-रूपा॥पञ्च_१.४५९॥

अपि च-
अकृतोपद्रवः कश्चिन् महान् अपि न पूज्यते।
पूजयंति नरा नागान् न तार्क्ष्यं नाग-घातिनम्॥पञ्च_१.४६०॥

तथा च-
अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे।
गतासून् अगतासूंश् च नानुशोचंति पंडिताः॥पञ्च_१.४६१॥

एवं तेन संबोधितः पिंगलकः सञ्जीवक-शोकं त्यक्त्वा दमनक-साचिव्येन राज्यम् अकरोत्।

इति श्री-विष्णु-शर्म-विरचिते पञ्चतंत्रे
मित्र-भेदो नाम प्रथमं तंत्रम्।|

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२ट&oldid=112789" इत्यस्माद् पुनः प्राप्तिः