पञ्चतन्त्रम् ०४

(पञ्चतन्त्रम् 04 इत्यस्मात् पुनर्निर्दिष्टम्)

लेखक: विष्णु शर्मा

पञ्चतन्त्रम्

तृतीयम् तंत्रम्

अथ काकोलूकीयम्

प्रस्तावना कथा मेघवर्णारिमर्दन-वृत्तांतःसम्पाद्यताम्


अथेदम् आरभ्यते काकोलूकीयम् नाम तृतीयम् तंत्रम्। यस्यायम् आद्यः श्लोकः-

न विश्वसेत् पूर्व-विरोधितस्य
शत्रोश् च मित्रत्वम् उपागतस्य।
दग्धाम् गुहाम् पश्य उलूक-पूर्णाम्
काक-प्रणीतेन हुताशनेन॥पञ्च_३.१॥

तद् यथानुश्रूयते-अस्ति दक्षिणात्ये जनपदे महिलारोप्यम् नाम नगरम्। तस्य समीपस्थोऽनेक-शाखासनाथोऽतिघनतर-पत्र-च्छन्नो न्यग्रोध-पादपोऽस्ति। तत्र च मेघ-वर्णो नाम वायस-राजोऽनेक-काक-परिवारः प्रतिवसति स्म। स तत्र विहित-दुर्ग-रचनः सपरिजनः कालम् नयति। तथान्योऽरिमर्दनो नामोलूक-राजोऽसंख्योलूक-परिवारो गिरि-गुहा-दुर्गाश्रयः प्रतिवसति स्म। स च रात्राव् अभ्येत्य सदैव तस्य न्यग्रोधस्य समंतात् परिभ्रमति। अथोलूकराजः पूर्व-विरोध-वशाद्यम् कञ्चिद् वायसमासादयति, तम् व्यापाद्य गच्छति। एवम् नित्याभिगमनाच् छनैः शनैस् तन् न्यग्रोध-पादप-दुर्गम् तेन समंतान् निर्वायसम् कृतम्। अथवा भवत्य् एवम्। उक्तम् च-

य उपेक्षेत शत्रुम् स्वम् प्रसरंतम् यदृच्छया।
रोगम् चाऽलस्य-संयुक्तः स शनैस् तेन हन्यते॥पञ्च_३.२॥

तथा च-
जात-मात्रम् न यः शत्रुम् व्याधिम् च प्रशमम् नयेत्।
महाबलोऽपि तेनैव वृद्धिम् प्राप्य स हन्यते॥पञ्च_३.३॥

अथान्येद्युः स वायस-राजः सर्वान् सचिवान् आहूय प्रोवाच-भोः! उत्कटस् तावद् अस्माकम् शत्रुर् उद्यम-संपन्नश् च कालविच् च नित्यम् एव निशागमे समेत्यास्मत्-पक्ष-कदनम् करोति। तत् कथम् अस्य प्रतिविघातव्यम्? वयम् तावद् रात्रौ न पश्यामः। न च दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः। तद् अत्र किम् युज्यते संधि-विग्रह-यानासन-संश्रय-द्वैधी-भावानाम् मध्यात्। अथ ते प्रोचुः-युक्तम् अभिहितम् देवेन यद् एष प्रश्नः कृतः। उक्तम् च-

अपृष्टेनापि वक्तव्यम् सचिवेनात्र किंचन।
पृष्टेन तु विशेषेण वाच्यम् पथ्यम् महीपतेः॥पञ्च_३.४॥
यो न पृष्टो हितम् ब्रूते परिणामे सुखावहम्।
मंत्रो न प्रिय-वक्ता च केवलम् स रिपुः स्मृतम्॥पञ्च_३.५॥
तस्माद् एकांतम् आसाद्य कार्यो मंत्रो महीपते।
येन तस्य वयम् कुर्मो नियमम् कारणम् तथा॥पञ्च_३.६॥

उक्तम् च-
बलीयसि प्रणमताम् काले प्रहरताम् अपि।
संपदो नावगच्छंति प्रतीपम् इव निम्नगाः॥पञ्च_३.७॥
सत्याढ्यो धार्मिकश् चार्यो भ्रातृ-संघातवान् बली।
अनेक-विजयी चैव संधेयः स रिपुर् भवेत्॥पञ्च_३.८॥
संधिः कार्योऽप्य् अनार्येण विज्ञाय प्राण-संशयम्।
प्राणैः संरक्षितैः सर्वम् यतो भवति रक्षितम्॥पञ्च_३.९॥
अनेक-युद्ध-विजयी संधानम् यस्य गच्छति।
तत्-प्रभावेण तस्याशु वशम् गच्छंत्य् अरातयः॥पञ्च_३.१०॥
संधिम् इच्छेत् समेनापि संदिग्धो विजयी युधि।
न हि सांशयिकम् कुर्याद् इत्य् उवाच बृहस्पतिः॥पञ्च_३.११॥
संदिग्धो विजयो युद्धे जनानाम् इह युद्ध्यताम्।
उपाय-त्रितयाद् ऊर्ध्वम् तस्माद् युद्धम् समाचरेत्॥पञ्च_३.१२॥
असंदधानो मानांधः समेनापि हतो भृशम्।
आमकुंभम् इवाभित्त्वा नावतिष्ठेत शक्तिमान्॥पञ्च_३.१३॥
समम् शक्तिमता युद्धम् अशक्तस्य हि मृत्यवे।
दृषत्कुंभम् यथा भित्त्वा तावत् तिष्ठति शक्तिमान्॥पञ्च_३.१४॥

अन्यच् च-
भूमिर् मित्रम् हिरण्यम् वा विग्रहस्य फल-त्रयम्।
नास्त्य् एकम् अपि यद्य् एषाम् विग्रहम् न समाचरेत्॥पञ्च_३.१५॥
खनन्न् आखु-बिलम् सिंहः पाषाण-शकलाकुलम्।
प्राप्नोति नख-भंगम् हि फलम् वा मूषको भवेत्॥पञ्च_३.१६॥
तस्मान् न स्यात् फलम् यत्र पुष्टम् युद्धम् तु केवलम्।
न हि तत् स्वयम् उत्पाद्यम् कर्तव्यम् न कथञ्चन॥पञ्च_३.१७॥
बलीयसा समाक्रांतो वैतसीम् वृत्तिम् आश्रयेत्।
वाञ्छंन् अभ्रंशिनीम् लक्ष्मीम् न भौजंगी कदाचन॥पञ्च_३.१८॥
कुर्वन् हि वैतसीम् वृत्तिम् प्राप्नोति महतीम् श्रियम्।
भुजंग-वृत्तिम् आपन्नो वधम् अर्हति केवलम्॥पञ्च_३.१९॥
कौर्मम् संकोचमास्थाय प्रहारान् अपि मर्षयेत्।
काले काले च मतिमान् उत्तिष्ठेत् कृष्ण-सर्पवत्॥पञ्च_३.२०॥
आगतम् विग्रहम् विद्वान् उपायैः प्रशमम् नयेत्।
विजयस्य ह्य् अनित्यत्वाद् रभसेन न संपतेत्॥पञ्च_३.२१॥
बलिना सह योद्धव्यम् इति नास्ति निदर्शनम्।
प्रतिवातम् न हि घनः कदाचिद् उपसर्पति॥पञ्च_३.२२॥
शत्रुणा न हि संदध्यात् सुश्लिष्टेनापि संधिना।
सुतप्तम् अपि पानीयम् शमयत्य् एव पावकम्॥पञ्च_३.२३॥

उक्तम् च-
सत्य-धर्म-विहीनेन न संदध्यात् कथञ्चन।
सुसन्धितोऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम्॥पञ्च_३.२४॥

तस्मात् तेन योद्धव्यम् इति मे मतिः। उक्तम् च यतः-

क्रूरो लुब्धोऽलसो सत्यः प्रमादी भीरुर् अस्थिरः।
मूढो योधावमन्ता च सुखोच्छेद्यो भवेद् रिपुः॥पञ्च_३.२५॥

अपरम् तेन पराभूता वयम्। तद् यदि संधान-कीर्तनम् करिष्यामस् तद् भूयोऽत्यन्तम् कोपम् करिष्यति। उक्तम् च-

चतुर्थोपाय-साध्ये तु रिपौ सान्त्वम् अपक्रिया।
स्वेद्यम् आमज्वरम् प्राज्ञः को अऽम्भसा परिषिञ्चति॥पञ्च_३.२६॥
सामवादाः सकोपस्य शत्रोः प्रत्युत दीपिकाः।
प्रतप्तस्येव सहसा सर्पिषस् तोय-बिंदवः॥पञ्च_३.२७॥
प्रमाणाभ्यधिकस्यापि महत्-सत्त्वम् अधिष्ठितः।
पदम् मूर्ध्नि समाधत्ते केसरी मत्त-दंतिनः॥पञ्च_३.२८॥
उत्साह-शक्ति-सम्पन्नो हन्याच् छत्रुम् लघुर् गुरुम्।
यथा कंठीरवो नागम् भारद्वाजः प्रचक्षते॥पञ्च_३.२९॥
मायया शत्रवो वध्या अवध्याः स्युर् बलेन ये।
यथा स्त्री-रूपम् आस्थाय हतो भीमेन कीचकः॥पञ्च_३.३०॥

तथा च-
मृत्योर् इवोग्र-दंडस्य राज्ञो यांति वशम् द्विषः।
सर्वंसहम् तु मन्यन्ते तृणाय रिपवश् च तम्॥पञ्च_३.३१॥
न जातु शमनम् यस्य तेजस् तेजस्वि-तेजसाम्।
वृथा जातेन किम् तेन मातुर् यौवन-हारिणा॥पञ्च_३.३२॥
या लक्ष्मीर् नानुलिप्तांगी वैर्-शोणित-कुंकुमैः।
कांतापि मनसः प्रीतिम् न सा धत्ते मनस्विनाम्॥पञ्च_३.३३॥
रिपु-रक्तेन संसिक्ता तत्-स्त्री-नेत्रांबुभिस् तथा।
न भूमिर् यस्य भूपस्य का श्लाघा तस्य जीविते॥पञ्च_३.३४॥
बलोत्कटेन दुष्टेन मर्यादा-रहितेन च।
न संधि-विग्रहौ नैव विना यानम् प्रशस्यते॥पञ्च_३.३५॥
द्विधाकारम् भवेद् यानम् भवेत् प्राणार्थ-रक्षणम्।
एकम् अन्यज् जिगीषोश् च यात्रालक्षणम् उच्यते॥पञ्च_३.३६॥
कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते।
यानम् उत्कृष्ट-वीर्यस्य शत्रु-देशे न चान्यदा॥पञ्च_३.३७॥
अवस्कंद-प्रदानस्य सर्वे कालाः प्रकीर्तिताः।
व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च॥पञ्च_३.३८॥
स्वस्थानम् सुदृढम् कृत्वा शूरैश् चातैर् महाबलैः।
पर-देशम् ततो गच्छेत् प्रणिधि-व्याप्तम् अग्रतः॥पञ्च_३.३९॥
अज्ञातवीवधासार-तोय-शस्यो व्रजेत् तु यः।
पर-राष्ट्रम् न भूयः स स्व-राष्ट्रम् अधिगच्छति॥पञ्च_३.४०॥

तत् ते युक्तम् कर्तुम् अपसरणम्। अन्यच् च-

तन् न युक्तम् प्रभो कर्तुम् द्वितीयम् यानम् एव च।
न विग्रहो न संधानम् बलिना तेन पापिना॥पञ्च_३.४१॥

अपरम् कारणापेक्षयापसरणम् क्रियते बुधैः। उक्तम् च-

यद् अपसरति मेषः कारणम् तत् प्रहर्तुम्
मृग-पतिर् अपि कोपात् संकुचत्य् उत्पतिष्णुः।
हृदय-निहित-भावा गूढ-मंत्र-प्रचाराः
किम् अपि विगणयंतो बुद्धिमंतः सहंते॥पञ्च_३.४२॥

अन्यच् च-
बलवंतम् रिपुम् दृष्ट्वा देश-त्यागम् करोति यः।
युधिष्ठिर इवाप्नोति पुनर् जीवन् स मेदिनीम्॥पञ्च_३.४३॥
युध्यतेहंकृतिम् कृत्वा दुर्बलो यो बलीयसा।
स तस्य वाञ्छितम् कुर्याद् आत्मनश् च कुल-क्षयम्॥पञ्च_३.४४॥

तद् बलवताभियुक्त्स्यापसरण-समयोऽयम् न संधेर् विग्रहस्य च। एवम् अनुजीवि-मंत्रोऽपसरणस्य।

अथ तस्य वचनम् आकर्ण्य प्रजीवनम् आह-भद्र! त्वम् अप्य् आत्मनोऽभिप्रायम् वद।

सोऽब्रवीत्-देव! मम संधि-विग्रह-यानानि त्रीण्य् अपि न प्रतिभांति। विशेषतश् चासनम् प्रतिभाति। उक्तम् च-

नक्रः स्व-स्थानम् आसाद्य गजेंद्रम् अपि कर्षति।
स एव प्रच्युतः स्थानाच् छुनापि परिभूयते॥पञ्च_३.४५॥

तथा-
अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान्।
तत्रस्थः सुहृदाह्वानम् कुर्वीतात्म-विमुक्तये॥पञ्च_३.४६॥
यो रिपोर् आगमम् श्रुत्वा भय-संत्रस्त-मानसः।
स्व-स्थानम् हि त्यजेत् तत्र न तु भूयो विशेच् च सः॥पञ्च_३.४७॥
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः।
स्थान-हीनस् तथा राजा गम्यः स्यात् सर्व-जंतुषु॥पञ्च_३.४८॥
निज-स्थान-स्थितोऽप्य् एकः शतम् योद्धुम् सहेन् नरः।
शक्तानाम् अपि शत्रूणाम् तस्मात् स्थानम् न संत्यजेत्॥पञ्च_३.४९॥

तस्माद् दुर्गम् दृढम् कृत्वा सुभटासार-संयुतम्।
प्राकार-परिखा-युक्तम् शस्त्रादिभिर् अलंकृतम्॥पञ्च_३.५०॥

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०४&oldid=112794" इत्यस्माद् प्रतिप्राप्तम्