पञ्चतन्त्रम् ०४क

(पञ्चतन्त्रम् 04क इत्यस्मात् पुनर्निर्दिष्टम्)

तिष्ठेन् मध्य-गतो नित्यं युद्धाय कृत-निश्चयः।
जीवन् संप्राप्त्स्यति राज्यं मृतो वा स्वर्गमेष्यति॥पञ्च_३.५१॥ (युग्मकम्)

अंयच् च-
बलिनापि न बाध्यंते लघवोऽप्य् एक-संश्रयाः।
विपक्षेणापि मरुता यथैक-स्थान-वीरुधाः॥पञ्च_३.५२॥
महान् अप्य् एकजो वृक्षः बलवान् सुप्रतिष्ठितः।
प्रसह्य इव वातेन शक्यो धर्षयितुं यतः॥पञ्च_३.५३॥
अथ ये संहता वृक्षा सर्वतः सुप्रतिष्ठिताः।
ते न रौद्रानिलेनापि हन्यन्ते ह्य् एक-संश्रयात्॥पञ्च_३.५४॥
एवं मनुष्यम् अप्य् एक शौर्येणापि समन्वितम्।
शक्यं द्विषंतो मन्यन्ते हिंसंति च ततः परम्॥पञ्च_३.५५॥

एवं प्रजीवि-मंत्रः। इदम् आसन-संज्ञकम्।

एतत् समाकर्ण्य चिरञ्जीविन प्राह-भद्र! त्वम् अपि स्वाभिप्रायं वद।

सो ब्रवीत्-देव! षाड्गुण्य-मध्ये मम संश्रयः सम्यक् प्रतिभाति। तत् तस्यानुष्ठानं कार्यम्। उक्त च-

असहायः समर्थोऽपि तेजस्वी किं करिष्यति।
निर्वाते ज्वलितो वह्निः स्वयम् एव प्रशाम्यति॥पञ्च_३.५६॥
संगतिः श्रेयसी पुंसां स्व-पक्षे च विशेषतः।
तुषैर् अपि परिभ्रष्टा न प्ररोहंति तंडुलाः॥पञ्च_३.५७॥

तद् अत्रैव स्थितेन त्वया कश्चित् समर्थः समाश्रयणीयः, यो विपत्-प्रतिकारं करोति। यदि पुनस् त्वं स्व-स्थानं त्यक्त्वाऽन्यत्र यास्यसि। तत् कोऽपि ते वाङ्-मात्रेणापि सहायत्वं न करिष्यति। उक्तं च, यतः-

वनानि दहतो वह्नेः सखी भवति मारुतः।
स एव दीप-नाशाय कृशे कस्यास्ति सौहृदम्॥पञ्च_३.५८॥

अथवा नैतद् एकांतं यद् बलिनम् एकं समाश्रयेत्। लघूनाम् अपि संश्रयो रक्षायै एव भवति। उक्तं च, यतः-

संघातवान् यथा वेणुर् निबिडैर् वेणुभिर् वृतः।
न शक्येत समुच्छेत्तुं दुर्बलोऽपि यथा नृपः॥पञ्च_३.५९॥

यदि पुनर् उत्तम-संश्रयो भवति तत् किम् उच्यते? उक्तं च-

महाजनस्य संपर्कः कस्य नोन्नति-कारकः।
पद्म-पत्र-स्थितं तोयं धत्ते मुक्ता-फल-श्रियम्॥पञ्च_३.६०॥

तद् एव संश्रयम् विना न कश्चित् प्रतीकारो भवति इति मेऽभिप्रायः। एवं चिरञ्जीवि-मंत्रः।

अथैवम् अभिहिते स मेघवर्णो राजा चिरंतनं पितृ-सचिवं दीर्घायुषं सकल-नीति-शास्त्र-पारंगतं स्थिरजीवि-नामानं प्रणम्य प्रोवाच-तात! यद् एते मया पृष्टाः सचिवास् तावद् अत्र-स्थितस्यापि तव तत्-परीक्षार्थम्, येन त्वं सकलं श्रुत्वा यद् उचितं तन् मे समादिशसि। तद् यद्य् उक्तं भवति तस् समादेश्यम्।

स आह-वत्स! सर्वैर् अप्य् एतैर् नीति-शास्त्राश्रयम् उक्तं सचिवैः। तद् उपयुज्यते स्व-कालोचितं सर्वम् एव। परम् एष द्वैधीभावस्य कालः। उक्तं च-

अविश्वासं सदा तिष्ठेत् संधिना विग्रहेण च।
द्वैधी-भावं समाश्रित्य पापे शत्रौ बलीयसि॥पञ्च_३.६१॥

तच् छत्रुं विश्वास्याविश्वस्तैर् लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः। उक्तं च-
उच्छेद्यम् अपि विद्वांसो वर्धयंत्य् अरिम् एकदा।
गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत्॥पञ्च_३.६२॥
तथा च-
स्त्रीणां शत्रोः कुमित्रस्य पण्य-स्त्रीणां विशेषतः।
यो भवेद् एक-भावोऽत्र न स जीवति मानवः॥पञ्च_३.६३॥
कृत्यं देव-द्विजातीनाम् आत्मनश् च गुरोस् तथा।
एक-भावेन कर्तव्यं शेषं द्वैध-समाश्रितम्॥पञ्च_३.६४॥
एको भावः सदा शस्तो यतीनां भावितात्मनाम्।
स्त्री-लुब्धानां न लोकानां विशेषेण मही-भुजाम्॥पञ्च_३.६५॥

तद् द्वैधीभावं संश्रितस्य तव स्व-स्थाने वासो भविष्यति, लोभाश्रयाच् च शत्रुम् उच्चाटयिष्यसि अपरं-यदि किञ्चिच् छिद्रं तस्य पश्यसि, तद् गत्वा व्यापादयिष्यसि।

मेघवर्ण आह-तात मया सो विदित संश्रयः। तत् कथं तस्य छिद्रं ज्ञास्यामि?

स्थिरजीव्य् आह-वत्स! न केवलं स्थानं, छिद्राण्य् अपि तस्य प्रकटीकरिष्यामि प्रणधिभिः। उक्तं च-

गावो गंधेन पश्यंति वेदैः पश्यंति वै द्विजाः।
चारै पश्यंति राजानश् चक्षुर्भ्याम् इतरे जनाः॥पञ्च_३.६६॥

उक्तं चात्र विषये-
यस् तीर्थानि निजे पक्षे पर-पक्षे विशेषतः।
गुप्तैश् चारैर् नृपो वेत्ति न स दुर्गतिम् आप्नुयात्॥पञ्च_३.६७॥

मेघवर्ण आह-तात, कानि तीर्थान्य् उच्यंते? कति संख्यानि च? कीदृशा गुप्तचराः? तत् सर्वं निवेद्यताम् इति।

स आह-अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः। यच् छत्रु-पक्षेऽष्टादश-तीर्थानि, स्व-पक्षे पञ्चदश। त्रिभिस् त्रिभिर् गुप्तचरैस् तानि ज्ञेयानि। तैर् ज्ञातैः स्व-पक्षः पर-पक्षश् च वश्यो भवति। उक्तं च नारदेन युधिष्ठिरं प्रति-
कच्चिद् अष्टदशान्य् एषु स्व-पक्षे दश पञ्च च।
त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः॥पञ्च_३.६८॥

तीर्थ-शब्देनायुक्त-कर्माभिधीयते। तद् यदि तेषां कुत्सित भवति तत् स्वामिनोऽभिघाताय, यदि प्रधानं भवति तद्-वृद्धये स्याद् इति। तद् यथा-मंत्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः, अंतर्वासिकः, प्रशासकः, समाहर्तृ-सन्निधातृ-प्रदेष्टृ-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रोत्कट-भृत्याः। एषां भेदेन द्राग् रिपुः साध्यते। स्व-पक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, तांबूल-वाहकः, आचार्यः, अंग-रक्षकः, स्थान-चिंतकः, छत्रधरः, विलासिनी। एषां वैर-द्वारेण स्व-पक्षे विघातः। तथा च-
वैद्य-सांवत्सराचार्याः स्व-पक्षेधिकृताश् चराः।
तथाऽऽहितुंडिकोन्मत्ताः सर्वं जानन्ति शत्रुषु॥पञ्च_३.६९॥

तथा च-
कृत्वा कृत्य-विदस् तीर्थेष्व् अन्तः प्रणिधयः पदम्।
विदांकुर्वंतु महतस् तलं विद्विषद्-अंभसः॥पञ्च_३.७०॥

एवं मंत्रि-वाक्यम् आकर्ण्यात्रान्तरे मेघवर्ण आह-तात! अथ किं निमित्तम् एवंविधं प्राणांतिकं सदैव वायसोलूकाना वैरम्?

स आह-वत्स! कदाचिद् हंस-शुक-कोकिल-चातक-उलूक-मयूर-कपोत-पारावत-विष्किर-प्रभृतयः सर्वेपि पक्षिणः समेत्य सोद्वेगं मंत्रयितुम् आरब्धाः। अहो अस्माक तावद् वैनतेयो राजा, स च वासुदेव-भक्तो न कां अपि चिंताम् अस्माकं करोति। तत् किं तेन वृथास्वामिना? यो लुब्धक-पाशैर् नित्यं निबध्यमानानां न रक्षां विधत्ते। उक्तं च-

यो न रक्षति वित्रस्तान् पीड्यमानान् परैः सदा।
जंतून् पार्थिव-रूपेण स कृतांतो न संशयः॥पञ्च_३.७१॥
यदि न स्यान् नरपतिः सम्यङ् नेताः ततः प्रजाः।
अकर्णधारा जलधौ विप्लवेतेह नौर् इव॥पञ्च_३.७२॥

षड् इमान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे।
अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम्॥पञ्च_३.७३॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्।
ग्राम-कामं च गोपालं वन-कामं च नापितम्॥पञ्च_३.७४॥ (युग्मम्)

तत्, सञ्चित्यान्यः कश्चिद् राजा विहंगमानां क्रियताम् इति। अथ तैर् भद्राकारम् उलूकम् अवलोक्य सर्वैर् अभिहितम्-यद् एष उलूको राजास्माकं भविष्यति, तद् आनीयन्तां नृपाभिषेक-संबंधिनः संभाराः इति।

अथ साधिते विविध-तीर्थोदके, प्रगुणीकृतेष्टोत्तर-शत-मूलिका-संघाते प्रदत्ते सिंहासने, वर्तिते सप्तद्वीप-समुद्र-भूधर-विचित्रे धरित्री-मंडले, प्रस्तारिते व्याघ्र-चर्मणि आपूरितेषु हेम-कुंभेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु मांगल्य-वस्तुषु, पठत्सु वंदि-मुख्येषु, वेदोच्चारण-परेषु समुदित-मुखेषु ब्राह्मणेषु, गीत-परे युवति-जने, आनीतायाम् अग्र-महिष्या कृकालिकायाम्, उलूकोऽभिषेकार्थं यावत् सिंहासने उपविशति तावत् कुतोऽपि वायसः समायातः सोऽ चिंतयत्-अहो! किम् एष सकल-पक्षि-समागमो महोत्सवश् च? अथ ते पक्षिणस् त दृष्ट्वा मिथः प्रोचुः। पक्षिणा मध्ये वायसश् चतुरः श्रूयते। उक्तं च-

नराणां नापितो धूर्तः पक्षिणां चैव वायसः।
दंष्ट्रिणां च शृगालस् तु श्वेभिक्षुस् तपस्विनाम्॥पञ्च_३.७५॥

तद् अस्यापि वचन ग्राह्यम्। उक्त च-

बहुधा बहुभिः सार्धं चिंतिताः सुनिरूपिताः।
कथञ्चिन् न विलीयन्ते विद्वद्भिश् चिंतिता नयाः॥पञ्च_३.७६॥

अथ वायसः समेत्य तान् आह-अहो! किं महाजन-समागमोऽयं परम-महोत्सवश् च।

ते प्रोचुः-भोः! नास्ति कश्चिद् विहंगमानां राजा, तद् अस्योलूकस्य विहंग-राज्याभिषेको निरूपितस् तिष्ठति समस्त-पक्षिभिः। तत्त्वम् अपि स्व-मतं देहि। प्रस्तावे समागतोऽसि।

अथासौ काको विहस्याह-अहो! न युक्तम् एतत्। यन् मयूर-हंस-कोकिल-चक्रवाक-शुक-कारंडव-हारीत-सारसादिषु पक्षि-प्रधानेषु विद्यमानेषु दिवांधस्यास्य कराल-वक्त्रस्याभिषेकः क्रियते। तत्रैतन् मम मतम्। यतः-

वक्र-नासं सुजिह्माक्षं क्रूरम् अप्रिय-दर्शनम्।
अक्रुद्धस्येदृशं वक्त्रं भवेत् क्रुद्धस्य कीदृशम्॥पञ्च_३.७७॥
स्वभाव-रौद्रम् अत्युग्रं क्रूरम् अप्रिय-वादिनम्।
उलूकं नृपतिं कृत्वा का नः सिद्धिर् भविष्यति॥पञ्च_३.७८॥

अपरं वैनतेये स्वामिनि स्थिते किम् एष दिवांधः क्रियते राजा? तद् यद्यपि गुणवान् भवति, तथाप्य् एकस्मिन् स्वामिनि स्थिते नान्यो भूपः प्रशस्यते।

एक एव हितार्थाय तेजस्वी पार्थिवो भुवः।
युगांत इव भास्वंतो बहवोऽत्र विपत्तये॥पञ्च_३.७९॥

तत् तस्य नाम्नापि यूयं परेषाम् अगम्या भविष्यथ। उक्त च-

गुरूणां नाम-मात्रेपि गृहीते स्वामि-संभवे।
दुष्टानां पुरतः क्षेमं तत्-क्षणाद् एव जायते॥पञ्च_३.८०॥

तथा च-
व्यपदेशेन महतां सिद्धिः सञ्जायते परा।
शशिनो व्यपदेशेन वसंति शशकाः सुखम्॥पञ्च_३.८१॥

पक्षिण ऊचुः-कथम् एतत्?

स आह-
==कथा १ चतुर्दंत-नाम-महा-गज-कथा==

कस्मिंश्चिद् वने चतुर्दंतो नाम महा-गजो यूथाधिपः प्रतिवसति स्म। तत्र कदाचिन् महत्य् अनावृष्टिः सञ्जाता प्रभूत-वर्षाणि यावत्। तया तडाग-ह्रद-पल्वल-सरांसि शोषम् उपगतानि। अथ तैः समस्त-गजैः स गजराजः प्रोक्तः-देव! पिपासाकुला गज-कलभा मृत-प्राया अपरे मृताश् च। तद् अन्विष्यता कश्चिज् जलाशयो यत्र जल-पानेन स्वस्थता व्रजंति।

ततश् चिरं ध्यात्वा तेनाभिहितम्-अस्ति महा-ह्रदो विविक्ते प्रदेशे स्थल-मध्य-गतः पाताल-गंगा-जलेन सदैव पूर्णः। तत् तत्र गम्यता इति।

तथानुष्ठिते पञ्चरात्रम् उपसर्पद्भिः समासादितस् तैः स ह्रदः। तत्र स्वेच्छया जलम् अवगाह्यास् तम् अनवेलायां निष्क्रांताः। तस्य च ह्रदस्य समंताच् छशक-बिलानि असंख्यानि सुकोमल-भूमौ तिष्ठंति। तान्य् अपि समस्तैर् अपि तैर् गजैर् इतस् ततो भ्रमद्भिः परिभग्नानि। बहवः शशकाः भग्न-पाद-शिरो-ग्रीवा विहिताः। केचिन् मृताः केचिज् जीव-शेषा जाताः।

अथ गते तस्मिन् गज-यूथे शशकाः सोद्वेगा गजपाद-क्षुण्ण-समावासाः केचिद् भग्न-पादाः। अन्ये जर्जरित-कलेवरा रुधिर-प्लुताः। अन्ये हत-शिशवो बाष्प-पिहित-लोचनाः समेत्य मिथो मंत्रं चक्रुः-अहो विनष्टा वयम्। नित्यम् एवैतद् गज-यूथम् आगमिष्यति यतो नान्यत्र जलम् अस्ति। तत् सर्वेषा नाशो भविष्यति। उक्त च-

स्पृशन्न् अपि गजो हंति जिघ्रन्न् अपि भुजंगमः।
हसन्न् अपि नृपो हंति मानयन्न् अपि दुर्जनः॥पञ्च_३.८२॥

तच् चिंत्यता कश्चिद् उपायः। तत्रैकः प्रोवाच-गम्यता देश-त्यागेन। किम् अन्यत्? उक्तं च मनुना व्यासेन च-

त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥पञ्च_३.८३॥
क्षेम्यां शस्य-प्रदां नित्यं पशु-वृद्धि-करीम् अपि।
परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन्॥पञ्च_३.८४॥
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि॥पञ्च_३.८५॥

ततश् चान्ये प्रोचुः-भोः! पितृ-पैतामहं स्थानं न शक्यते सहसा त्यक्तुम्। तत् क्रियतां तेषां कृते काचिद् विभीषिका। यत् कथम् अपि दैवान् न समायांति। उक्त च-

निर्विषेणापि सर्पेण कर्तव्या महती फटा।
विषं भवतु मा वास्तु फटाटोपो भयंकरः॥पञ्च_३.८६॥

अथान्ये प्रोचुः-यद्य् एव ततस् तेषां महद्-विभीषिका-स्थानम् अस्ति येन नागमिष्यंति। सा च चतुर-दूतायत्ता विभीषिका। यतो विजयदत्तो नामास्मत्-स्वामी शशकश् चंद्र-मंडले निवसति। तत् प्रेष्यतां कश्चिन् मिथ्या-दूतो यूथाधिप-सकाशं यच् चन्द्रस् त्वाम् अत्र ह्रद आगच्छंतं निषेधयति, यतोऽस्मत्-परिग्रहोऽस्य समन्ताद् वसति। एवम् अभिहिते श्रद्धेय-वचनात् कदापि निवर्तते। अथान्ये प्रोचुः-यद्य् एव तद् अस्ति लंबकर्णो नाम शशकः। स च वचन-रचना-चतुरो दूत-कर्मज्ञः। स तत्र प्रेष्यताम् इति। उक्त च-

साकारो निःस्पृहो वाग्मी नाना-शास्त्र-विचक्षणः।
पर-चित्तावगंता च राज्ञो दूतः स इष्यते॥पञ्च_३.८७॥

अन्यच् च-
यो मूर्ख लौल्य-संपन्नं राज-द्वारिकम् आचरेत्।
मिथ्या-वादं विशेषेण तस्य कार्यं न सिध्यति॥पञ्च_३.८८॥

तद् अन्विष्यतां यद्य् अस्माद् व्यसनाद् आत्मनां सुनिर्मुक्तिः।

अथान्ये प्रोचुः-अहो युक्तम् एतत्। नान्यः कश्चिद् उपायोऽस्माकं जीवितस्य। तथैव क्रियताम्।

अथ लंबकर्णो गज-यूथाधिप-समीपे निरूपितो गतश् च। तथानुष्ठिते लंबकर्णोऽपि गज-मार्गम् आसाद्यागम्यं स्थलम् आरुह्य तं गजम् उवाच-भोः भोः दुष्ट-गज! किम् एवं लीलया निःशंकयात्र चंद्र-ह्रद आगच्छसि? तन् नागंतव्य निवर्त्यताम् इति।

तद् आकर्ण्य विस्मित-मना गज आह-भोः! कस् त्वम्?

स आह-अहं लंबकर्णो नाम शशकश् चंद्र-मंडले वसामि। सांप्रतं भगवता चंद्रमसा तव पार्श्वे प्रहितो दूतः। जानात्य् एव भवान्। यथार्थ-वादिनो दूतस्य न दोषः करणीयः। दूत-मुखा हि राजानः सर्व एव। उक्तं च-

उद्यतेष्व् अपि शस्त्रेषु बंधु-वर्ग-वधेष्व् अपि।
पुरुषाण्य् अपि जल्पंतो वध्या दूता न भूभुजा॥पञ्च_३.८९॥

तच् छ्रुत्वा स आह-भोः शशक! तत् कथय भगवतश् चंद्रमसः संदेशम्। येन सत्वरं क्रियते।

स आह-भवतातीत-दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः। तत् किं न वेत्ति भवान्। यन् मम परिग्रहोऽयम्। तद् यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाप्य् अत्र ह्रदे नागंतव्यम् इति संदेशः।

गज आह-अथ क्व वर्तते भगवान् स्वामी चंद्रः।

स आह-अत्र ह्रदे सांप्रतं शशकानां भवद्-यूथ-मथितानां हत-शेषाणां समाश्वासनाय समायातस् तिष्ठति। अह पुनस् तवांतिकं प्रेषितः।

गज आह-यद्य् एवं तद् दर्शय मे तं स्वामिन येन प्रणम्यान्यत्र गच्छामि।

शशक आह-आगच्छ मया सहैककी येन दर्शयामि।

तथानुष्ठिते शशको निशा-समये तं ह्रद-तीरे नीत्वा जल-मध्ये स्थितं चंद्र-बिंबम् अदर्शयत्। आह च-भोः एष नः स्वामी जल-मध्ये समाधिस्थस् तिष्ठति तन्-निभृतं प्रणम्य व्रजेति। नो चेत्, समाधि-भंग-भयाद् भूयोऽपि प्रभूतं कोपं करिष्यति।

अथ गजोऽपि त्रस्त-मनास् तं प्रणम्य पुनर् गमनाय प्रस्थितः। शशकश् च तद्-दिनाद् आरभ्य स-परिवाराः सुखेन स्वेषु स्थानेषु तिष्ठंति स्म।

कथासरित्सागरे चतुर्दन्त हस्ती - शशकस्य कथायाः रूपम्

चतुर्दन्त हस्ती - शश कथोपरि टिप्पणी

---

अतोऽहं ब्रवीमि व्यपदेशेन महताम् इति। अपि च-

क्षुद्रम् अलसं कापुरुषं व्यसनिनम् अकृतज्ञं जीवित-कामः।
पृष्ठ-प्रलपन-शीलं स्वामित्वे नाभियोजयेत्॥पञ्च_३.९०॥

तथा च-
क्षुद्रम् अर्थपतिं प्राप्य अन्यायान्वेषण-तत्-परौ।
उभाव् अपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ॥पञ्च_३.९१॥

ते प्रोचुः-कथम् एतत्?

स आह-

==कथा २ शश-कपिञ्जल-कथा==

कस्मिंश्चिद् वृक्षे पुराहम् अवसम्। तत्राधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म। अथ सदैवास्तम् अनवेलायाम् आगतयोर् द्वयोर् अनेक-सुभाषित-गोष्ठ्या देवर्षि-ब्रह्मर्षि-राजर्षि-पुराण-चरित-कीर्तनेन च पर्यटन-दृष्टानेक-कौतूहल-प्रकथनेन च परम-सुखम् अनुभवतोः कालो व्रजति। अथ कदाचित् कपिञ्जलः प्राण-यात्रार्थम् अन्यैश् चटकैः सहान्यं पक्व-शालि-प्राञं देशं गतः। ततो यावन् निशा-समयेपि नायातस् तावद् अहं सोद्वेग-मनास् तद्-विप्रयोग-दुःखितश् चिंतितवान्-अहो किम् अद्य कपिञ्जलो नायातः। किं केनापि पाशेन बद्ध-? आहो स्वित् केनापि व्यापादितः? सर्वथा यदि कुशलो भवति, यन् मां विना न तिष्ठति।

एवं मे चिंतयतो बहून्य् अन्यानि व्यतिक्रांतानि। ततश् च तत्र कोटरे कदाचिच् छीघ्रगो नाम शशकोऽस्तम् अनवेलायाम् आगत्य प्रविष्टः। मयापि कपिञ्जल-निराशत्वेन न निवारितः। अथान्यस्मिन्न् अहनि कपिञ्जलः शालि-भक्षणाद् अतीव पीवर-तनुः स्वाश्रय स्मृत्वा भूयोऽप्य् अत्रैव समायातः। अथवा साध्व् इदम् उच्यते-

न तादृग् जायते सौख्यम् अपि स्वर्गे शरीरिणाम्।
दारिद्र्येपि हि यादृक् स्यात् स्व-देशे स्व-पुरे गृहे॥पञ्च_३.९२॥

अथासौ कोटरान्तर्गत शशकं दृष्ट्वा साक्षेपम् आह-भोः शशक! न त्वया सुंदरं कृतं, यन् ममावसथ-स्थाने प्रविष्टोऽसि। तच् छीघ्रं निष्क्रम्यताम्।

शशक आह-न तवेदं गृहम्, किंतु ममैव। तत् किं मिथ्या परुषाणि जल्पसि? उक्तं च-

वापी-कूप-तडागानां देवालय-कुजन्मनाम्।
उत्सर्गात् परतः स्वाम्यम् अपि कर्तुं न शक्यते॥पञ्च_३.९३॥

तथा च-
प्रत्यक्ष यस्य यद् भुक्त क्षेत्राद्यं दश वत्सरान्।
तत्र भुक्तिः प्रमाणं स्याद् न साक्षी नाक्षराणि वा॥पञ्च_३.९४॥
मानुषाणाम् अयं न्यायो मुनिभिः परिकीर्तितः।
तिरश्चां च विहंगाना यावद् एव समाश्रयः॥पञ्च_३.९५॥

तन् ममैतद् गृहम्, न तवेति।

कपिञ्जल आह-भोः! यदि स्मृतिं प्रमाणीकरोषि, तद् आगच्छ मया सह येन स्मृति-पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु।

तथानुष्ठिते मयापि चिंतित-किम् अत्र भविष्यति? मया द्रष्टव्योऽयं न्यायः। ततः कौतुकाद् अहम् अपि ताव् अनुप्रस्थितः। अत्रांतरे तीक्ष्णदंष्ट्रो नामारण्य-मार्जारस् तयोर् विवादं श्रुत्वा मार्गासन्नं नदी-तटम् आसाद्य कृत-कुशोपग्रहो निमीलित-नयन ऊर्ध्व-बाहुर् अर्ध-पाद-स्पृष्ट-भूमिः श्री-सूर्याभिमुख इमां धर्मोपदेशनाम् अकरोत्-अहो! असारोऽयं संसारः। क्षण-भंगुराः प्राणाः। स्वप्न-सदृशः प्रिय-समागमः। इंद्र-जालवत् कुटुंब-परिग्रहोऽयम्। तद् धर्मं मुक्त्वा नान्या गतिर् अस्ति। उक्त च-

अनित्यानि शरीराणि विभवो नैव शाश्वतः।
नित्यं संनिहितो मृत्युः कर्तव्यो धर्म-संग्रहः॥पञ्च_३.९६॥
यस्य धर्म-विहीनानि दिनान्य् आयान्ति यान्ति च।
स लोहकार-भस्त्रेव श्वसन्न् अपि न जीवति॥पञ्च_३.९७॥
नाच्छादयति कौपीनं न दंश-मशकापहम्।
शुनः-पुच्छम् इव व्यर्ंथ पांडित्यं धर्म-वर्जितम्॥पञ्च_३.९८॥

अन्यच् च-
पुलाका इव धान्येषु पूतिका इव् पक्षिषु।
मशका इव मर्त्येषु येषां धर्मो न कारणम्॥पञ्च_३.९९॥
श्रेयः पुष्प-फलं वृक्षाद् दध्नः श्रेयो घृतं स्मृतम्।
श्रेयस् तैलं च पुण्याकाच् छ्रेयान् धर्मस् तु मानुषात्॥पञ्च_३.१००॥

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०४क&oldid=218447" इत्यस्माद् पुनः प्राप्तिः