पञ्चदशी/चतुर्थप्रकरणम् - द्वैतविवेकः

← ३ पञ्चकोशविवेकः पञ्चदशी
विद्यारण्यः
५ महावाक्यविवेकः →


द्वैतविवेको नाम - चतुर्थः परिच्छेदः ।
ईश्वरेणापि जीवेन सृष्टं द्वैतं प्रपञ्च्यते ।
विवेके सति जीवेन हेयो बन्धः स्फुटीभवेत् ॥ १॥

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
स मायी सृजतीत्याहुः श्वेताश्वतर शाखिनः ॥ २॥

आत्मा वा इदमग्रेऽभूत्स ऐक्षत सृजा इति ।
सङ्कल्पेनासृजल्लोकान्स एतानिति बह्वृचाः ॥ ३॥

खंवाय्वग्निजलोर्व्योषध्यन्नदेहाः क्रमादमी ।
सम्भूता ब्रह्मणस्तस्मादेतस्मादात्मनोऽखिलाः ॥ ४॥

बहु स्यामहमेवातः प्रजायेयेति कामतः ।
तपस्तप्त्वाऽसृजत्सर्वं जगदित्याह तैत्तिरिः ॥ ५॥

इदमग्रे सदेवासीद्बहुत्वाय तदैक्षत ।
तेजोऽवन्नाण्डजादीनि ससर्जेति च सामगाः ॥ ६॥

विस्फुलिङ्गा यथा वह्नेर्जायन्तेऽक्षरतस्तथा ।
विविधाश्चिज्जडा भावा इत्याथर्वणिकी श्रुतिः ॥ ७॥

जगदव्याकृतं पूर्वमासीद्व्याक्रियतेऽधुना ।
दृश्याभ्यां नामरूपाभ्यां विराडादिषु ते स्फुटाः ।
विराणानुर्नरो गावः खराश्वाजावयस्तथा ।
पिपीलिकावधिद्वन्द्वमिति वाजसनेयिनः ॥ ८॥

कृत्वा रूपान्तरं जैवं देहे प्राविशदीश्वरः ।
इति ताः श्रुतयः प्राहु जीवत्वं प्राणधारणात् ॥ ९॥

चैतन्यं यदधिष्ठानं लिङ्गदेहश्च यः पुनः ।
चिच्छाया लिङ्गदेहस्था तत्संघोजीव उच्यते ॥ १०॥

माहेश्वरी तु या माया तस्या निर्माणशक्तिवत् ।
विद्यते मोहशक्तिश्च तं जीवं मोहयत्यसौ ॥ ११॥

मोहादनीशतां प्राप्य मग्नो वपुषि शोचति ।
ईशसृष्टमिदं द्वैतं सर्वमुक्तं समासतः ॥ १२॥

सप्तान्नब्राह्मणे द्वैतं जीवसृष्टं प्रपञ्चितम् ।
अन्नानि सप्तज्ञानेन कर्मणाजनयत्पिता ॥ १३॥

मर्त्यानामेकं देवान्ने द्वे पश्वान्नं चतुर्थकम् ।
अन्नत्रितयमात्मार्थमन्नानां विनियोजनम् ॥ १४॥

व्रीह्यादिकं दर्शपूर्णमासौ क्षीरं तथा मनः ।
वाक्प्राणश्चेति सप्तत्वमन्नानामवगम्यताम् ॥ १५॥

ईशेन यद्यप्येतानि निर्मितानि स्वरूपतः ।
तथापि ज्ञानकर्माभ्यां जीवो कार्षीत्तदन्नताम् ॥ १६॥

ईशकार्यं जीवभोग्यं जगद्द्वाभ्यां समन्वितम् ।
पितृजन्या भर्तृभोग्या यथा योषित्तथेष्यताम् ॥ १७॥

मायावृत्त्यात्मको हीशसंकल्पः साधनं जनौ ।
मनो वृत्त्यात्मको जीवो संकल्पो भोगसाधनम् ॥ १८॥

ईशनिर्मितमण्यादौ वस्तुन्येकविधे स्थिते ।
भोक्तृधीवृत्तिनानात्वात्तद्भोगो बहुधेष्यते ॥ १९॥

हृष्यत्येको मणिं लब्ध्वा क्रुद्ध्यत्यन्यो ह्यलाभतः ।
पश्यत्येव विरक्तोऽत्र न हृष्यति न कुप्यति ॥ २०॥

प्रियोऽप्रिय उपेक्ष्यश्चेत्याकारा मणिगास्त्रयः ।
सृष्टा जीवैरीशसृष्टं रूपं साधारणं त्रिषु ॥ २१॥

भार्या स्नुषा ननान्दा च याता मातेत्यनेकधा ।
प्रतियोगिधिया योषिद्भिद्यते न स्वरूपतः ॥ २२॥

ननु ज्ञानानि भिद्यन्तामाकारस्तु न भिद्यते ।
योषिद्वपुष्यतिशयो न दृष्टो जीवनिर्मितः ॥ २३॥

मैवं मांसमयी योषित्काचिदन्या मनोमयी ।
मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥ २४॥

भ्रान्तिस्वप्नमनोराज्यस्मृतिष्वस्तु मनोमयम् ।
जाग्रन्मानेन मेयस्य न मनोमयतेति चेत् ॥ २५॥

बाधं माने तु मेयेन योगात्स्याद्विषयाकृतिः ।
भाष्यवार्तिककाराभ्यामयमर्थ उदाहृतः ॥ २६॥

मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
रूपादीन् व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् ॥ २७॥

व्यञ्जको वा यथा लोको व्यङ्ग्यस्याकारतामियात् ।
सर्वार्थव्यञ्जकत्वाद्धीरर्थाकारा प्रदृश्यते ॥ २८॥

मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत् ।
मेयाभिसंगतं तच्च मेयाभत्वं प्रपद्यते ॥ २९॥

सत्येवं विषयौ द्वौ स्तो घटौ मृण्मयधीमयौ ।
मृण्मयो मानमेयः स्यात्साक्षिभाष्यस्तु धीमयः ॥ ३०॥

अन्वयव्यतिरेकाभ्यां धीमयो जीवबन्धकृत् ।
सत्यस्मिन्सुखदुःखे स्त स्तस्मिन्नसति न द्वयम् ॥ ३१॥

असत्यपि च बाह्यार्थे स्वप्नादौ बध्यते नरः ।
समाधिसुप्तिमूर्च्छासु सत्यप्यस्मिन्न बध्यते ॥ ३२॥

दूरदेशं गते पुत्रे जीवत्येवात्र तत्पिता ।
विप्रलम्भकवाक्येन मृतं मत्वा प्ररोदिति ॥ ३३॥

मृतेऽपि तस्मिन्वार्तायामश्रुतायां न रोदिति ।
अतः सर्वस्य जीवस्य बन्धकृन्मानसं जगत् ॥ ३४॥

विज्ञानवादो बाह्यार्थवैयर्थ्यात्स्यादिहेति चेत् ।
न हृद्याकारमाधातुं बाह्यस्यापेक्षितत्त्वतः ॥ ३५॥

वैयार्थ्यमस्तु वा बाह्यं न वारयितुमीश्महे ।
प्रयोजनमपेक्षन्ते न मानानिति हि स्थितिः ॥ ३६॥

बन्धश्चेन्मानसं द्वैतं तन्निरोधेन शाम्यति ।
अभ्यासेद्योगमेवातो ब्रह्मज्ञानेन किं वद ॥ ३७॥

तात्कालिक द्वैतशान्तावप्यागामीजनीक्षयः ।
ब्रह्मज्ञानं विना न स्यादिति वेदान्तडिण्डिमः ॥ ३८॥

अनिवृत्तेऽपीशसृष्टे द्वैते तस्य मृषात्मताम् ।
बुद्ध्वा ब्रह्माद्वयं बोद्धुं शक्यं वस्त्वैक्यवादिना ॥ ३९॥

प्रलये तन्निवृत्तौ तु गुरुशास्त्राद्यभावतः ।
विरोधिद्वैताभावेऽपि न शक्यं बोद्धुमद्वयम् ॥ ४०॥

अबाधकं साधकं च द्वैतमीश्वरनिर्मितम् ।
अपनेतुमशक्यं चेत्यास्तां तद्द्विष्यते कुतः ॥ ४१॥

जीवद्वैतं तु शास्त्रीयमशास्त्रीयमिति द्विधा ।
उपाददीता शास्त्रीयमातत्त्वस्यावबोधनात् ॥ ४२॥

आत्मब्रह्मविचाराख्यं शास्त्रीयं मानसं जगत् ।
बुद्धे तत्त्वे तच्च हेयमिति श्रुत्यनुशासनम् ॥ ४३॥

शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः ।
परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥ ४४॥

ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ ४५॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ ४६॥

तमेवैकं विजानीत ह्यन्या वाचो विमुञ्चथ ।
यच्चेद्वाङ्मनसी प्राज्ञ इत्याद्याः श्रुतयः स्फुटाः ॥ ४७॥

अशास्त्रीयमपि द्वैतं तीव्रं मन्दमिति द्विधा ।
कामक्रोधादिकं तीव्रं मनोराज्यं तथेतरत् ॥ ४८॥

उभयं तत्त्वबोधात्प्राङ्निवार्यं बोधसिद्धये ।
समः समाहितत्वं च साधनेषु श्रुतं यतः ॥ ४९॥

बोधादूर्ध्वं च तद्धेयं जीवन्मुक्तिप्रसिद्धये ।
कामादिक्लेशबन्धेन युक्तस्य न हि मुक्तता ॥ ५०॥

जीवन्मुक्तिरियं मा भुज्जन्माभावे त्वहं कृती ।
तर्हि जन्मापि तेऽस्त्येव स्वर्गमात्रात्कृती भवान् ॥ ५१॥

क्षयातिशयदोषेण स्वर्गो हेयो यदा तदा ।
स्वयं दोषतमात्मायं कामादिः किं न हीयते ॥ ५२॥

तत्त्वं बुद्ध्वापि कामादीन्निःशेषं न जहासि चेत् ।
यथेष्टाचरणं ते स्यात्कर्मशास्त्रातिलङ्घिनः ॥ ५३॥

बुद्धाद्वैतसतत्त्वस्य यथेष्टाचरणं यदि ।
शुनां तत्त्वदृशां चैव कोभेदोऽशुचिभक्षणे ॥ ५४॥

बोधात् पुरा मनोदोषमात्रात्क्लिष्टोऽस्यथाधुना ।
अशेषलोकनिन्दा चेत्यहो ते बोधवैभवम् ॥ ५५॥

विड्वराहादितुल्यत्वं मा काङ्क्षीस्तत्त्वविद् भवान् ।
सर्वधीदोषसंत्यागाल्लोकैः पूज्यस्व देववत् ॥ ५६॥

काम्यादिदोषदृष्ट्याद्याः कामादित्यागहेतवः ।
प्रसिद्धा मोक्षशास्त्रेषु तानन्विष्य सुखी भव ॥ ५७॥

त्यज्यतामेष कामादिर्मनोराज्ये तु का क्षतिः ।
अशेषदोषबीजत्वात् क्षतिर्भगवतेरिता ॥ ५८॥

ध्यायते विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ।
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ५९॥

शक्यं जेतुं मनोराज्यं निर्विकल्पसमाधितः ।
सुसम्पादः क्रमात्सोऽपि सविकल्पसमाधिना ॥ ६०॥

बुद्धतत्त्वेन धीदोषशून्येनैकान्तवासिना ।
दीर्घं प्रणवमुच्चार्य मनोराज्यं विजीयते ॥ ६१॥

जिते तस्मिन् वृत्तिशून्यं मनस्तिष्ठति मूकवत् ।
एतत्पदं वशिष्ठेन रामाय बहुधेरितम् ॥ ६२॥

दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
सम्पन्नं चेत्तदोत्पन्ना परा निर्वाणनिर्वृतिः ।
विचारितमलं शास्त्रं चिरमुद्ग्राहितं मिथः ।
सन्त्यक्तवासनान्मौनादृते न्यस्त्युत्तमं पदम् ॥ ६३॥

विक्षिप्यते कदाचिद्धीः कर्मणा भोगदायिना ।
पुनः समाहिता सा स्यात्तदैवाभ्यासपाटवात् ॥ ६४॥

विक्षेपो यस्य नास्त्यस्य ब्रह्मवित्त्वं न मन्यते ।
ब्रह्मैवायमिति प्राहुर्मुनयः पारदर्शिनः ॥ ६५॥

दर्शनादर्शने हित्वा स्वयं केवलरूपतः ।
यस्तिष्ठति स तु ब्रह्मन्ब्रह्म न ब्रह्मवित्स्वयम् ॥ ६६॥

जीवन्मुक्तेः परा काष्ठा जीवद्वैतविवर्जनात् ।
लभ्यतेऽसावतोऽत्रेदमीशद्वैताद्विवेचितम् ॥ ६७॥