पञ्चदशी/प्रथमप्रकरणम् - प्रत्यक्तत्त्वविवेकः

← पञ्चदशी पञ्चदशी
विद्यारण्यः
२ पञ्चमहाभूतविवेकः →



॥ पञ्चदशी॥

अथ प्रथमोऽध्याय:॥

प्रत्यक्तत्त्वविवेक:।

तत्त्वविवेकोनाम - प्रथमः परिच्छेदः ।
नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने ।
सविलासमहामोहग्राहग्रासैककर्मणे ॥ १॥

तत्पादाम्बुरुहद्वन्द्वसेवानिर्मलचेतसाम् ।
सुखबोधाय तत्त्वस्य विवेकोऽयं विधीयते ॥ २॥

शब्दस्पर्शादयो वेद्या वैचित्र्याज्जागरे पृथक् ।
ततोविभक्ता तत्संविदैक्यरूप्यान्न भिद्यते ॥ ३॥

तथा स्वप्नेऽत्र वेद्यन्तु न स्थिरं जागरे स्थिरम् ।
तद्भेदोऽतस्तयोः संविदेकरूपा न भिद्यते ॥ ४॥

सुप्तोत्त्थितस्य सौषुप्ततमोबोधो भवेत्स्मृतिः ।
सा चावबुद्धविषयावबुद्धं तत्तदा ततः ॥ ५॥

सबोधोविषयाद्भिन्नो न बोधात्स्वप्नबोधवत् ।
एवं स्थानत्रयेऽप्येका संवित्तद्वद्दिनान्तरे ॥ ६॥

मासाब्दायुगकल्पेषु गतागम्येष्वनेकधा ।
नोदेति नास्तमेत्येका संविदेषा स्वयंप्रभा ॥ ७॥

इयमात्मा परानन्दः परप्रेमास्पदं यतः ।
मा न भुवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥ ८॥

तत्प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि ।
अतस्तत्परमन्तेन परमानन्दतात्मनः ॥ ९॥

इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम् ।
परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ॥ १०॥

अभाने न परं प्रेम भाने न विषयस्पृहा ।
अतोभानेऽप्यभाताऽसौ परमानन्दतात्मनः ॥ ११॥

अध्येतृवर्गमध्यस्थ पुत्राध्ययन शब्दवत् ।
भानेऽप्यभानं भानस्य प्रतिबन्धेन युज्यते ॥ १२॥

प्रतिबन्धोऽस्ति भातीति व्यवहारार्हवस्तुनि ।
तं निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ॥ १३॥

तस्य हेतुः समानाभिहारः पुत्रध्वनिश्रुतौ ।
इहानादिरविद्यैव व्यामोहैकनिबन्धनम् ॥ १४॥

चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता ।
तमोरजःसत्त्वगुणा प्रकृतिर्द्विविधा च सा ॥ १५॥

सत्त्वशुद्धाविशुद्धिभ्यां मायाऽविद्ये च ते मते ।
मायाबिम्बोवशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः ॥ १६॥

अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा ।
सा कारणशरीरं स्यात्प्राज्ञस्तत्राभिमानवान् ॥ १७॥

तमः प्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया ।
वियत्पवनतेजोऽम्बु भुवोभूतानि जज्ञिरे ॥ १८॥

सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् ।
श्रोत्रत्वगक्षिरसनघ्राणाख्यामुपजायते ॥ १९॥

तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद्द्विधा ।
मनोविमर्शरूपं स्याद्बुद्धिः स्यान्निश्चयात्मिका ॥ २०॥

रजोंऽशैः पञ्चभिस्तेषां क्रमात्कर्मेन्द्रियाणि तु ।
वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे ॥ २१॥

तैः सर्वैः सहितैः प्राणोवृत्तिभेदात्स पञ्चधा ।
प्राणोऽपानः समानश्चोदानव्यानौ च ते पुनः ॥ २२॥

बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया ।
शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥ २३॥

प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते ।
हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता ॥ २४॥

समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् ।
तदभावात्ततोऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया ॥ २५॥

तद्भोगाय पुनर्भोग्यभोगायतनजन्मने ।
पञ्चीकरोति भगवान्प्रत्येकं वियदादिकम् ॥ २६॥

द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः ।
स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्च ते ॥ २७॥

तैरण्डस्तत्र भुवनभोग्यभोगाश्रयोद्भवः ।
हिरण्यगर्भः स्थूलेऽस्मिन्देहे वैश्वानरो भवेत् ।
तैजसा विश्वतां याता देव तिर्यङ्नरादयः ॥ २८॥

ते पराग्दर्शिनः प्रत्यक्तत्त्वबोधविवर्जिताः ॥ २९॥

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते ।
नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते ।
व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ॥ ३०॥

सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः ।
प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् ॥ ३१॥

उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः ।
पञ्चकोषविवेकेन लभन्ते निर्वृतिं पराम् ॥ ३२॥

अन्नं प्राणो मनो बुद्धिरानन्दश्चेति पञ्च ते ।
कोषास्तैरावृतः स्वात्मा विस्मृत्या संसृतिं व्रजेत् ॥ ३३॥

स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलोऽन्न संज्ञकः ।
लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह ॥ ३४॥

सात्त्विकैर्धीन्द्रियैः साकं विमर्षात्मा मनोमयः ।
तैरेव साकं विज्ञानमयोधीर्निश्चयात्मिका ॥ ३५॥

कारणे सत्त्वमानन्दमयोमोदादिवृत्तिभिः ।
तत्तत्कोषैस्तु तादात्म्यादात्मा तत्तन्मयो भवेत् ॥ ३६॥

अन्वयव्यतिरेकाभ्यां पञ्चकोष विवेकतः ।
स्वात्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते ॥ ३७॥

अभाने स्थूलदेहस्य स्वप्ने यद्भानमात्मनः ।
सोऽन्वयो व्यतिरेकस्तद्भानेऽन्यानवभासनम् ॥ ३८॥

लिङ्गाभाने सुषुप्तौ स्यादात्मनो भानमन्वयः ।
व्यतिरेकस्तु तद्भाने लिङ्गस्याभानमुच्यते ॥ ३९॥

तद्विवेकाद्विविक्ताः स्युः कोषाः प्राणमनोधियः ।
ते हि तत्र गुणावस्थाभेदमात्रात्पृथक्कृताः ॥ ४०॥

सुषुप्त्यभाने भानन्तु समाधावात्मनोऽन्वयः ।
व्यतिरेकस्त्वात्मभाने सुषुप्त्यनवभासनम् ॥ ४१॥

यथामुञ्जादिषीकैवमात्मा युक्त्या समुद्धृतः ।
शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥ ४२॥

परापरात्मनोरेवं युक्त्या सम्भावितैकता ।
तत्त्वमस्यादिवाक्यैः सा भागत्यागेन लक्ष्यते ॥ ४३॥

जगतो यदुपादानं मायामादाय तामसीम् ।
निमित्तं शुद्धसत्त्वां तामुच्यते ब्रह्म तद्गिरा ॥ ४४॥

यदा मलिनसत्त्वां तां कामकर्मादिदूषितम् ।
आदत्ते तत्परं ब्रह्म त्वं पदेन तदोच्यते ॥ ४५॥

त्रितयीमपि तां मुक्त्वा परस्परविरोधिनीम् ।
अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते ॥ ४६॥

सोऽयमित्यादिवाक्येषु विरोधात्तदिदन्त्वयोः ।
त्यागेन भागयोरेक आश्रयो लक्ष्यते यथा ॥ ४७॥

मायाविद्ये विहायैवमुपाधी परजीवयोः ।
अखण्डं सच्चिदानन्दं परं ब्रह्मैव लक्ष्यते ॥ ४८॥

सविकल्पस्य लक्ष्यत्वे लक्ष्यस्य स्यादवस्तुता ।
निर्विकल्पस्य लक्ष्यत्वं न दृष्टं न च सम्भवि ॥ ४९॥

विकल्पो निर्विकल्पस्य सविकल्पस्य वा भवेत् ।
आद्ये व्याहतिरन्यत्रानवस्थात्माश्रयादयः ॥ ५०॥

इदं गुणक्रियाजातिद्रव्यसम्बन्धवस्तुषु ।
समन्तेन स्वरूपस्य सर्वमेतदितीष्यताम् ॥ ५१॥

विकल्पतदभावाभ्यामसंस्पृष्टात्मवस्तुनि ।
विकल्पितत्वलक्ष्यत्वसम्बन्धाद्यास्तु कल्पिताः ॥ ५२॥

इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् ।
युक्त्या सम्भावितत्वानुसन्धानं मननन्तु तत् ॥ ५३॥

ताभ्यां निर्विचिकित्सेऽर्थे चेतसःस्थापितस्य यत् ।
एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥ ५४॥

ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् ।
निर्वातदीपवच्चित्तं समाधिरभिधीयते ॥ ५५॥

वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः ।
स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थितात् ॥ ५६॥

वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि ।
अदृष्टासकृदभ्याससंस्कारः सचिराद्भवेत् ॥ ५७॥

यथा दीपो निवातस्थ इत्यादिभिरनेकधा ।
भगवानिममेवार्थमर्जुनाय न्यरूपयत् ॥ ५८॥

अनादाविह संसारे सञ्चिताः कर्मकोटयः ।
अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ५९॥

धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः ।
वर्षत्येष यतो धर्मामृतधाराः सहस्रशः ॥ ६०॥

अमुना वासनाजाले निःशेषं प्रविलापिते ।
समूलोन्मूलिते पुण्यपापाख्ये कर्म सञ्चये ॥ ६१॥

वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते ।
करामलकवद्बोधमपरोक्षं प्रसूयते ॥ ६२॥

परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम् ।
बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ ६३॥

अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम् ।
संसारकारणाज्ञानतमसश्चण्डभास्करः ॥ ६४॥

इत्थं तत्त्वविवेकं विधाय विधिवन्मनः समाधाय ।
विगलितसंसृतिबन्धः प्राप्नोति पारं पदं नरो न हिरात् ॥ ६५॥

इति तत्त्वविवेकः समाप्तः ॥ १॥

इति प्रथमोऽध्याय:॥ १॥