पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ६१


एकषष्टितमोऽध्यायः 1.61
द्विजाऊचुः-
तुलसीपुष्पमाहात्म्यं श्रुतं त्वत्तो हरेः शुभम्।
तस्या स्तोत्रं कृतं पुण्यं श्रोतुमिच्छामहे वयम् १।
व्यास उवाच-
पुरा स्कंदपुराणे च यन्मया कीर्तितं द्विजाः।
कथयामि पुराणं च पुरतो मोक्षहेतवे २।
शतानंद मुनेः शिष्याः सर्वे ते संशितव्रताः।
प्रणिपत्य गुरुं विप्राः पप्रच्छुः पुण्यतो हितम् ३।
पूर्वं ब्रह्ममुखान्नाथ यच्छ्रुतं तुलसीस्तवम्।
तद्वयं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर ४।
शतानंद उवाच-
नामोच्चारे कृते तस्याः प्रीणात्यसुरदर्पहा।
पापानि विलयं यांति पुण्यं भवति चाक्षयम् ५।
सा कथं तुलसी लोकैः पूज्यते वंद्यते नहि।
दर्शनादेव यस्यास्तु दानं कोटिगवां भवेत् ६।
धन्यास्ते मानवा लोके यद्गृहे विद्यते कलौ।
सालग्रामशिलार्थं तु तुलसी प्रत्यहं क्षितौ ७।
तुलसीं ये विचिन्वंति धन्यास्ते करपल्लवाः।
केशवार्थं कलौ ये च रोपयंतीह भूतले ८।
किं करिष्यति संरुष्टो यमोपि सह किंकरैः।
तुलसीदलेन देवेशः पूजितो येन दुःखहा ९।
तीर्थयात्रादिगमनैः फलैः सिध्यति किन्नरः।
स्नाने दाने तथा ध्याने प्राशने केशवार्चने १०।
तुलसी दहते पापं कीर्तने रोपणे कलौ।
तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ११।
केशवार्थं चिनोमि त्वां वरदा भव शोभने।
त्वदंगसंभवैर्नित्यं पूजयामि यथाहरिम् १२।
तथा कुरु पवित्रांगि कलौ मलविनाशिनि।
मंत्रेणानेन यः कुर्याद्विचित्य तुलसीदलम् १३।
पूजनं वासुदेवस्य लक्षकोटिगुणं भवेत्।
प्रभावं तव देवेशि गायंति सुरसत्तमाः १४।
मुनयः सिद्धगंधर्वाः पाताले नागराट्स्वयम्।
न ते प्रभावं जानंति देवताः केशवादृते १५।
गुणानां परिमाणं तु कल्पकोटिशतैरपि।
कृष्णानंदात्समुद्भूता क्षीरोदमथनोद्यमे १६।
उत्तमांगे पुरा येन तुलसी विष्णुना धृता।
प्राप्यैतानि त्वया देवि विष्णोरंगानि सर्वशः १७।
पवित्रता त्वया प्राप्ता तुलसीं त्वां नमाम्यहम्।
त्वदंगसंभवैः पत्रैः पूजयामि यथा हरिम् १८।
तथा कुरुष्व मेऽविघ्नं यतो यामि परां गतिम्।
रोपिता गोमतीतीरे स्वयं कृष्णेन पालिता १९।
जगद्धिताय तुलसी गोपीनां हितहेतवे।
वृंदावने विचरता सेविता विष्णुना स्वयम् २०।
गोकुलस्य विवृद्ध्यर्थं कंसस्य निधनाय च।
वसिष्ठवचनात्पूर्वं रामेण सरयूतटे २१।
राक्षसानां वधार्थाय रोपिता त्वं जगत्प्रिये।
रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् २२।
वियोगे वासुदेवस्य ध्यात्वा त्वां जनकात्मजा।
अशोकवनमध्ये तु प्रियेण सह संगता २३।
शङ्करार्थं पुरा देवि पार्वत्या त्वं हिमालये।
रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् २४।
सर्वाभिर्देवपत्नीभिः किन्नरैश्चापि नंदने।
दुःस्वप्ननाशनार्थाय सेविता त्वं नमोस्तु ते २५।
धर्मारण्ये गयायां च सेविता पितृभिः स्वयम्।
सेविता तुलसी पुण्या आत्मनो हितमिच्छता २६।
रोपिता रामचंद्रेण सेविता लक्ष्मणेन च।
पालिता सीतया भक्त्या तुलसी दंडके वने २७।
त्रैलोक्यव्यापिनी गंगा यथा शास्त्रेषु गीयते।
तथैव तुलसी देवी दृश्यते सचराचरे २८।
ऋश्यमूके च वसता कपिराजेन सेविता।
तुलसी वालिनाशाय तारासंगम हेतवे २९।
प्रणम्य तुलसीदेवीं सागरोत्क्रमणं कृतम्।
कृतकार्यः प्रहृष्टश्च हनूमान्पुनरागतः ३०।
तुलसीग्रहणं कृत्वा विमुक्तो याति पातकैः।
अथवा मुनिशार्दूल ब्रह्महत्यां व्यपोहति ३१।
तुलसीपत्रगलितं यस्तोयं शिरसा वहेत्।
गंगास्नानमवाप्नोति दशधेनुफलप्रदम् ३२।
प्रसीद देवि देवेशि प्रसीद हरिवल्लभे।
क्षीरोदमथनोद्भूते तुलसि त्वां नमाम्यहम् ३३।
द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्।
द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः ३४।
यत्पापं यौवने बाल्ये कौमारे वार्द्धके कृतम्।
तत्सर्वं विलयं याति तुलसीस्तव पाठतः ३५।
प्रीतिमायाति देवेशस्तुष्टो लक्ष्मीं प्रयच्छति।
कुरुते शत्रुनाशं च सुखं विद्यां प्रयच्छति३६।
तुलसीनाममात्रेण देवा यच्छंति वांछितम्।
गर्ह्याणमपि देवेशो मुक्तिं यच्छति देहिनाम् ३७।
तुलसी स्तवसंतुष्टा सुखं वृद्धिं ददाति च।
उद्गतं हेलया विद्धि पापं यमपथे स्थितम् ३८।
यस्मिन्गृहे च लिखितो विद्यते तुलसीस्तवः।
नाशुभं विद्यते तस्य शुभमाप्नोति निश्चितम् ३९।
सर्वं च मंगलं तस्य नास्ति किंचिदमंगलम्।
सुभिक्षं सर्वदा तस्य धनं धान्यं च पुष्कलम् ४०।
निश्चला केशवे भक्तिर्न वियोगश्च वैष्णवैः।
जीवति व्याधिनिर्मुक्तो नाधर्मे जायते मतिः ४१।
द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्।
तीर्थकोटिसहस्रैस्तु यत्फलं लक्षकोटिभिः ४२।
तत्फलं समवाप्नोति पठित्वा तुलसीस्तवम् ४३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तुलसीस्तवमाहात्म्यं नामैकषष्टितमोऽध्यायः ६१।