पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२०

हरिरुवाच-
तपसानेन पुण्येन सत्येनानेन ते द्विज ।
स्तोत्रेण पावनेनापि तुष्टोस्मि व्रियतां वरः १।
वरं दद्मि महाभाग यत्ते मनसि वर्तते ।
यंयमिच्छसि कामं त्वं तंतं ते पूरयाम्यहम् २।
सोमशर्मोवाच-
प्रथमं देहि मे कृष्ण वरमेकं सुवाञ्छितम् ।
सुप्रसन्नेन मनसा यद्यस्ति सुदया मम ३।
जन्मजन्मांतरं प्राप्य तव भक्तिं करोम्यहम् ।
दर्शयस्व परं स्थानमचलं मोक्षदायकम् ४।
स्ववंशतारकं पुत्रं दिव्यलक्षणसंयुतम् ।
विष्णुभक्तिपरं नित्यं मम वंशप्रधारकम् ५।
सर्वज्ञं सर्वदं दांतं तपस्तेजः समन्वितम् ।
देवब्राह्मणलोकानां पालकं पूजकं सदा ६।
देवमित्रं पुण्यभावं दातारं ज्ञानपंडितम् ।
देहि मे ईदृशं पुत्रं दारिद्रं हर केशव ७।
भवत्वेवं न संदेहो वरमेनं वृणोम्यहम् ।
हरिरुवाच-
एवमस्तु द्विजश्रेष्ठ भविष्यति न संशयः ८।
मत्प्रसादात्सुपुत्रस्तु तव वंश प्रतारकः ।
भोक्ष्यसि त्वं वरान्भोगान्दिव्यांश्च मानुषानिह ९।
समालोक्य परं सौख्यं पुत्रसंभवजं शुभम् ।
यावज्जीवसि विप्र त्वं तावद्दुःखं न पश्यसि १०।
दाता भोक्ता गुणग्राही भविष्यसि न संशयः ।
सुतीर्थे मरणं चापि यास्यसि त्वं परां गतिम् ११।
एवं वरं हरिर्दत्त्वा सप्रियाय द्विजाय सः ।
अंतर्धानं गतो देवः स्वप्नवत्परिदृश्यते १२।
तदा सुमनया युक्तः सोमशर्मा द्विजोत्तमः ।
सुतीर्थे पावने तस्मिन्रेवातीरे सुपुण्यदे १३।
अमरकंटके विप्रो दानं पुण्यं करोति सः ।
गते बहुतरे काले तस्य वै सोमशर्मणः १४।
कपिलारेवयोः संगे स्नानं कृत्वा स निर्गतः ।
दृष्टवान्पुरतो विप्रः श्वेतमेकं हि कुंजरम् १५।
सुप्रभं सुंदरं दिव्यं सुमदं चारुलक्षणम् ।
नानाभरणशोभांगं बहुलक्ष्म्या समन्वितम् १६।
सिंदूरैः कुंकुमैस्तस्य कुंभस्थले विराजिते ।
कर्णनीलोत्पलयुतं पताकादंडसंयुतम् १७।
नागोपरिस्थितो दिव्यः पुरुषो दृढसुप्रभः ।
दिव्यलक्षणसंपन्नः सर्वाभरणभूषितः १८।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ।
सुसौम्यं सोमवत्पूर्णच्छत्रचामरसंयुतम् १९।
नागारूढं प्रयांतं तं पुनः पश्यति सत्तमः ।
सिद्धचारणगंधर्वैः स्तूयमानं सुमंगलम् २०।
सगजं सुंदरं दृष्ट्वा पुरुषं दिव्यलक्षणम् ।
व्यतर्कयत्सोमशर्मा विस्मयाविष्टमानसः २१।
कोऽयं प्रयाति दिव्यांगः पंथानं प्राप्य सुव्रतः ।
एवं चिंतयतस्तस्य यावद्गृहं समाप्तवान् २२।
प्रविशंतं गृहद्वारं देवरूपं मनोहरम् ।
हर्षेण महताविष्टः सोमशर्मा द्विजोत्तमः २३।
स्वगृहं प्रति धर्मात्मा त्वरमाणः प्रयाति च ।
गृहद्वारं गतो यावत्तावत्तं तु न पश्यति २४।
पतितान्येव पुष्पाणि सौहृद्यानि महामतिः ।
दिव्यानि वासयुक्तानि प्रांगणे द्विजसत्तमः २५।
चंदनैः कुंकुमैः पुण्यैः सुगंधैस्तु विलेपितम् ।
स्वकीयं प्रांगणे दृष्ट्वा दूर्वाक्षतसमन्वितम् २६।
स एवं विस्मयाविष्टश्चिंतयानः पुनः पुनः ।
ददर्श सुमनां प्राज्ञो दिव्यमंगलसंपदम् २७।
सोमशर्मोवाच-
केन दत्तानि दिव्यानि एतान्याभरणानि च ।
शृंगारंरूपसौभाग्यं वस्त्रालंकारभूषणम् २८।
तन्मे त्वं कारणं भद्रे कथयस्वाविशंकिता ।
एवं संभाष्यतां भार्यां विरराम द्विजोत्तमः २९।
सुमनोवाच-
शृणु कांत समायातः कश्चिद्देववरोत्तमः ।
श्वेतनागसमारूढो दिव्याभरणभूषितः ३०।
दिव्यगंधानुलिप्तांगो दिव्याश्चर्यसमन्वितः ।
न जाने को हि देवोसौ विप्रगंधर्वसेवितः ३१।
स्तूयमानः समायातो देवगंधर्वचारणैः ।
योषितः पुण्यरूपाढ्या रूपशृंगारसंयुताः ३२।
सर्वाभरणशोभाढ्याः सर्वाः पूर्णमनोरथाः ।
ताभिः सह समक्षं मे पुरुषेण महात्मना ३३।
चतुष्कं पूरितं रत्नैः सर्वशोभासमन्वितम् ।
तत्राहमासने पुण्ये स्थापिता ब्राह्मणैः किल ३४।
वस्त्रालंकारभूषां मे ददुस्ते सर्व एव हि ।
वेदमंगलगीतैस्तु शास्त्रगीतैश्च पुण्यदैः ३५।
अभिषिक्तास्मि तैः सर्वैरंतर्धानं पुनर्गताः ।
मामेवं परितः सर्वे पुनरूचुर्द्विजोत्तम ३६।
तव गेहं वयं सर्वे वसिष्यामः सदैव हि ।
शुचिर्भव सुकल्याणि भर्त्रा सार्द्धं सदैव हि ३७।
एवमुक्त्वा गताः सर्वे एवं दृष्टं मयैव हि ।
तया यत्कथितं वृत्तं समाकर्ण्य महामतिः ३८।
पुनश्चिंतां प्रपन्नोऽसौ किमिदं देवनिर्मितम् ।
विचिन्तयित्वाथ तदा सोमशर्मा महामतिः ३९।
ब्रह्मकर्मणि संयुक्तः साधर्म्यं धर्ममुत्तमम् ।
तस्माद्गर्भं महाभागा दधार व्रतशालिनी ४०।
तेन गर्भेण सा देवी अधिकं शुशुभे तदा ।
संदीप्तपुत्रसंयुक्त तेजोज्वालासमन्विता ४१।
सा हि जज्ञे च तपसा तनयं देवसन्निभम् ।
अंतरिक्षे ततो नेदुर्देवदुंदुभयस्तदा ४२।
शंखान्दध्मुर्महादेवा गंधर्वा ललितं जगुः ।
अप्सरसस्तथा सर्वा ननृतुस्तास्तदा किल ४३।
अथ ब्रह्मासुरैः सार्द्धं समायातो द्विजोत्तमः ।
चकार नाम तस्यैव सुव्रतेति समाहितः ४४।
नाम कृत्वा ततो देवा जग्मुः सर्वे महौजसः ।
गतेषु तेषु देवेषु सोमशर्मासु तस्य च ४५।
जातकर्मादिकं कर्म चकार द्विजसत्तमः ।
जाते पुत्रे महाभागे सुव्रते देवनिर्मिते ४६।
तस्य गेहे महालक्ष्मीर्धनधान्यसमाकुला ।
गजाश्वमहिषी गावः कांचनं रत्नमेव च ४७।
यथा कुबेरभवनं शुशुभे धनसंचयैः ।
तत्सोमशर्मणो गेहं तथैव परिराजते ४८।
ध्यानपुण्यादिकं कर्म चका रद्विजसत्तमः ।
तीर्थयात्रां गतो विप्रो नानापुण्यसमाकुलः ४९।
अन्यानि यानि पुण्यानि दानानि द्विजसत्तमः ।
चकार तत्र मेधावी ज्ञानपुण्य समन्वितः ५०।
एवं साधयते धर्मं पालयेच्च पुनःपुनः ।
पुत्रस्य जातकर्मादि कर्माणि द्विजसत्तमः ५१।
विवाहं कारयामास हर्षेण महता किल ।
पुत्रस्य पुत्राः संजाताः सगुणा लक्षणान्विताः ५२।
सत्यधर्मतपोपेता दानधर्मरताः सदा ।
स तेषां पुण्यकर्माणि सोमशर्मा चकार ह ५३।
पौत्राणां तु महाभागस्तेषां सुखेन मोदते ।
सर्वं सौख्यं च संभुज्य जरारोगविवर्जितः ५४।
पंचविंशाब्दिको यद्वत्तद्वत्कायं तु तस्य हि ।
सूर्यतेजः प्रतीकाशः सोमशर्मा महामतिः ५५।
सा चापि शुशुभे देवी सुमना पुण्यमंगलैः ।
पुत्रपौत्रैर्महाभागा दानव्रतैश्च संयमैः ५६।
अतिभाति विशालाक्षी पुण्यैः पतिव्रतादिभिः ।
तारुण्येन समायुक्ता यथा षोडशवार्षिकी ५७।
मोदमानौ महात्मानौ दंपती चारुमंगलौ ।
हर्षेण च समायुक्तौ पुण्यात्मानौ महोदयौ ५८।
एवं तयोस्तु वृत्तांतं पुण्याचारसमन्वितम् ।
सुव्रतस्य प्रवक्ष्यामि व्रतचर्यां द्विजोत्तमाः ५९।
यथा तेन समाराध्य नारायणमनामयम् ६०।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे एन्द्रे सुमनोपाख्याने सुव्रतोत्पत्तिर्नाम विंशोऽध्यायः २०।