पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२२

व्यास उवाच-
प्रश्नमेकं महाभाग करिष्ये सांप्रतं वद ।
त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रतीश्वरम् १।
पूर्वाभ्यासेन संध्यायन्नारायणमनामयम् ।
कस्यां ज्ञात्यां समुत्पन्नः सुव्रतः पूर्वजन्मनि २।
तन्मे त्वं सांप्रतं ब्रूहि कथमाराधितो हरिः ।
अनेनापि स देवेश कोयं पुण्यसमाविलः ३।
ब्रह्मोवाच-
वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले ।
तत्र राजा महातेजा ऋतध्वजसुतो बली ४।
तस्यात्मजो महाप्राज्ञो रुक्मभूषणविश्रुतः ।
संध्यावली तस्य भार्या धर्मपत्नी यशस्विनी ५।
तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं ततः ।
तस्य धर्मांगदं नाम चकार नृपनंदनः ६।
सर्वलक्षणसंपन्नः पितृभक्तिपरायणः ।
रुक्मांगदस्य तनयो योयं भगवतां वरः ७।
पितुः सौख्याय येनापि मोहिन्यै तु शिरो ददे ।
वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य हि ८।
सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम् ।
नीतस्तु सर्वधर्मज्ञो वैष्णवः सात्वतां वरः ९।
धर्मांगदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः ।
तत्रस्थो वै महाप्राज्ञो धर्मोसौ धर्मभूषणः १०।
दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुंजति ।
पूर्णे युगसहस्रांते धर्मो वै धर्मभूषणः ११।
तस्मात्पदात्परिभ्रष्टो विष्णोश्चैव प्रसादतः ।
सुव्रतो नाम मेधावी सुमनानंदवर्द्धनः १२।
सोमशर्मस्य तनयः श्रेष्ठो भगवतां वरः ।
तपश्चचार मेधावी विष्णुध्यानपरोभवत् १३।
कामक्रोधादिकान्दोषान्परित्यज्य द्विजोत्तमः ।
संयम्यचैन्द्रियं वर्गं तपस्तेपे निरंतरम् १४।
वैडूर्यपर्वतश्रेष्ठे सिद्धेश्वरस्य सन्निधौ ।
एकीकृत्य मनश्चायं संयोज्य विष्णुना सह १५।
एवं वर्षशतं स्थित्वा ध्यानेनास्य महात्मनः ।
सुप्रसन्नो जगन्नाथः शंखचक्रगदाधरः १६।
तस्मै वरं ददावन्यं सलक्ष्म्या सह केशवः ।
भोभोः सुव्रत धर्मात्मन्बुध्यस्व विबुधांवर १७।
वरं वरय भद्रं ते कृष्णोऽहं ते समागतः ।
एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम् १८।
हर्षेण महताविष्टो दृष्ट्वा देवं जनार्दनम् ।
बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा १९।
सुव्रत उवाच-
संसारसागरमतीव महासुदुःखजालोर्मिभिर्विविधमोहचयैस्तरंगैः ।
संपूर्णमस्ति निजदोषगुणैस्तु प्राप्तस्तस्मात्समुद्धर जनार्दनमाशुदीनम् २०।
कर्मांबुदे महति गर्जतिवर्षतीव विद्युल्लतोल्लसतिपातकसंचयैर्मे ।
मोहांधकारपटलैर्मम नास्ति दृष्टिर्दीनस्य तस्य मधुसूदन देहि हस्तम् २१।
संसारकाननघनं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहैः ।
संदीप्तमस्ति करुणाबहुवह्नितेजः संतप्यमानमनिशं परिपाहि कृष्ण २२।
संसारवृक्षमतिजीर्णमपीह उच्चं मायासुकंदकरुणा बहुदुःखशाखम् ।
जायादिसंगच्छदनं फलितं मुरारे तत्राधिरूढपतितं भगवन्हि रक्ष २३।
दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैर्वियोगमरणांतिक सन्निभैश्च ।
दग्धोस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानांबुदैः समभिषिंच सदैव मां त्वम् २४।
घोरांधकारपटले महतीव गर्ते संसारनाम्निपतितं सततं हि कृष्ण ।
त्वं सत्कृपो मम हि दीनभयातुरस्य तस्माद्विरज्यशरणं तव आगतोस्मि २५।
त्वामेव ये नियतमानसभावयुक्ता ध्यायंति ज्ञानमनसा पदवीं लभंते ।
नत्वैव पादयुगलं च महासुपुण्यं यद्देवकिन्नरगणाः परिचिंतयंति २६।
नान्यं वदामि न भजामि न चिंतयामि त्वत्पादपद्मयुगलं सततं नमामि ।
कामं त्वमेव मम पूरय मेद्य कृष्ण दूरेण यातु मम पातकसंचयस्ते २७।
दासोस्मि देव तव किंकरजन्मजन्म त्वत्पादपद्मयुगलं सततं स्मरामि २८।
यदि कृष्ण प्रसन्नोसि देहि मे सुवरं प्रभो ।
मन्मातापितरौ कृष्ण सकायौ मंदिरे नय २९।
आत्मनश्च महादेव मयासह न संशयः ।
श्रीकृष्ण उवाच-
एवं ते परमं कार्यं भविष्यति न संशयः ३०।
तस्य तुष्टो हृषीकेशो भक्त्या तस्य प्रतोषितः ।
प्रयातौ वैष्णवं लोकं दाहप्रलयवर्जितौ ३१।
सुव्रतेन समं तौ द्वौ सुमना सोमशर्मकौ ।
यावत्कल्पद्वयं प्राप्तं तावत्स सुव्रतो द्विजः ३२।
बुभुजे बुभुजे दिव्याँल्लोकांश्चैव महामते ।
देवकार्यार्थमत्रैव काश्यपस्य गृहं पुनः ३३।
अवतीर्णो महाप्राज्ञो वचनात्तस्य चक्रिणः ।
ऐंद्रं पदं हि यो भुंक्ते विष्णोश्चैव प्रसादतः ३४।
वसुदत्तेति विख्यातः सर्वदेवैर्नमस्कृतः ।
ऐंद्रं पदं हि यो भुंक्ते सांप्रतं वासवो दिवि ३५।
एतत्ते सर्वमाख्यातं सृष्टिसंबंधकारणम् ।
अन्यदेवं प्रवक्ष्यामि यदेव परिपृच्छसि ३६।
व्यास उवाच-
धर्माङ्गदो महाप्राज्ञो रुक्माङ्गदसुतो बली ।
आद्ये कृतयुगे जातः सृष्टिकाले स वासवः ३७।
तत्कथं देवदेवेश अन्यो धर्माङ्गदो भुवि ।
अन्यो रुक्मांङ्गदो राजा किं चायं त्रिदशाधिपः ३८।
एतन्मे संशयं जातं तद्भवान्वक्तुमर्हति ।
ब्रह्मोवाच-
हंत ते कथयिष्यामि सर्वसंदेहनाशनम् ३९।
देवस्य लीलासृष्ट्यर्थे वर्तते द्विजसत्तम ।
यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा ४०।
संवत्सराश्च मनवस्तथा यांति युगाः पुनः ।
पश्चात्कल्पः समायाति व्रजाम्येवं जनार्दनम् ४१।
अहमेव महाप्राज्ञ मयि यांति चराचराः ।
पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि ४२।
पुनरहं पुनर्वेदाः पुनस्ते देवता द्विजाः ।
तथा भूपाश्च ते सर्वे स्वचरित्रसमाविलाः ४३।
प्रभवंति महाभाग विद्वांस्तत्र न मुह्यति ।
पूर्वकल्पे महाभागो यथा रुक्मांगदो नृपः ४४।
तथा धर्मांगदश्चायं संजातः ख्यातिमान्द्विजः ।
रामादयो महाप्राज्ञा ययातिर्नहुषस्तथा ४५।
मन्वादयो महात्मानः प्रभवंति लयंति च ।
ऐंद्रं पदं प्रभुंजंति राजानो धर्मतत्पराः ४६।
यथा धर्मांगदो वीरः प्रभुंजति महत्पदम् ।
एवं वेदाश्च देवाश्च पुराणाः स्मृतिपूर्वकाः ४७।
एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम ।
चरितं सुव्रतस्याथ पुण्यं सुगतिदायकम् ४८।
अव्यक्तं तु महाभाग प्रब्रवीमि तवाग्रतः ४९।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुव्रतोपाख्यानंनाम द्वाविंशोऽध्यायः २२।