पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५७

विष्णुरुवाच-
क्रीडा सतीरूप धरा प्रभूत्वा गेहं गता चारु पतिव्रतायाः ।
तामागतां सत्यस्वरूपयुक्ता सा सादरं वाक्यमुवाच धन्या १।
वाक्यैः सुपुण्यैः परिपूजिता सा उवाच क्रीडा सुकलां विहस्य ।
मायानुगं विश्वविमोहनं सती प्रत्युत्तरं सत्यप्रमेयुक्तम् २।
ममापि भर्ता प्रबलो गुणज्ञो धीरः सविद्यो महिमाप्रयुक्तः ।
त्यक्त्वा गतः पापतरांसुपुण्यो मामेव नाथः शृणु पुण्यकीर्तिः ३।
वाक्यैस्तु पुण्यैरबलास्वभावादाकर्ण्य सर्वं सुकला समुक्तम् ।
संशुद्धभावां च विचिंत्य चाह कस्माद्गतः सुंदरि तेऽद्य नाथः ४।
विहाय ते रूपमतीव सत्यमाचक्ष्व सर्वं भवती सुभर्तुः ।
ध्यानोपयुक्ता सकलं करोति सखीस्वरूपा गृहमागता मे ५।
क्रीडा बभाषे शृणु सत्यमेतं चरित्रभावं मम भर्त्तुरस्य ।
अहं प्रिये यस्य सदैव युक्ता यमिच्छते तं प्रतिसांत्वयामि ६।
कर्तुः सुपुण्यं वचनं सुभर्तुर्ध्यानोपयुक्ता सकलं करोमि ।
एकांतशीला सगुणानुरूपा शुश्रूषयैकस्तमिहैव देवि ७।
मम पूर्व विपाकोऽयं संप्रत्येव प्रवर्तते ।
यतस्त्यक्त्वा गतो भर्त्ता मामेवं मंदभागिनीम् ८।
सखे न धारये जीवं स्वकीय कायमेव च ।
पत्याहीनाः कथं नार्यः सुजीवंति च निर्घृणाः ९।
रूपशृंगारसौभाग्यं सुखं संपच्च नान्यथा ।
नारीणां हि महाभागो भर्ता शास्त्रेषु गीयते १०।
तया सर्वं समाकर्ण्य यदुक्तं क्रीडया तदा ।
सत्यभावं विदित्वा सा मेने संभाषितं तदा ११।
विश्वस्ता सा महाभागा सुकला पतिदेवता ।
तामुवाच पुनः सर्वमात्मचेष्टानुगं वचः १२।
समासेन समाख्यातं पूर्ववृत्तांतमात्मनः ।
यथा भर्ता गतो यात्रां पुण्यसाधनतत्परः १३।
आत्मदुःखं सुसत्यं च तप एव मनस्विनि ।
बोधिता क्रीडया सा तु समाश्वास्य पतिव्रता १४।
सूत उवाच-
एकदा तु तया प्रोक्तं क्रीडया सुकलां प्रति ।
सखे पश्य वनं सौम्यं दिव्यवृक्षैरलंकृतम् १५।
तत्र तीर्थं परं पुण्यमस्ति पातकनाशनम् ।
नानावल्लीवितानैश्च सुपुष्पैः परिशोभितम् १६।
आवाभ्यामपि गंतव्यं पुण्यहेतोर्वरानने ।
समाकर्ण्य तया सार्द्धं सुकला मायया तदा १७।
प्रविवेश वनं दिव्यं नंदनोपममेव सा ।
सर्वर्तुकुसुमोपेतं कोकिलाशतनादितम् १८।
गीयमानं सुमधुरैर्नादैर्मधुकरैरपि ।
कूजद्भिः पक्षिभिः पुण्यैः पुण्यध्वनिसमाकुलम् १९।
चंदनादिकवृक्षैश्च सौरभैश्च विराजितम् ।
सर्वभोगैः सुसंपूर्णं माधव्या माधवेन वै २०।
रचितं मोहनायैव सुकलायाश्च कारणात् ।
तया सार्धं प्रविष्टा सा तद्वनं सर्वभावनम् २१।
ददर्श सौख्यदं पुण्यं मायाभावं न विंदति ।
वीक्षमाणा वनं दिव्यं तया सह जनेश्वर २२।
शक्रोपि चाभ्ययात्तत्र देवमूर्तिविराजितः ।
तया दूत्या समं प्राप्तः कामस्तत्र समागतः २३।
सर्वभोगपतिर्भूत्वा कामलीलासमाकुलः ।
काममाह समाभाष्य एषा सा सुकुला गता २४।
प्रहरस्व महाभाग क्रीडायाः पुरतः स्थिताम् ।
मायां कृत्वा समानीता क्रीडया तव संनिधौ २५।
पौरुषं दर्शयाद्यैव यद्यस्ति कुरु निश्चितम् ।
काम उवाच-
आत्मरूपं दर्शयस्व चतुरं लीलयान्वितम् २६।
येनाहं प्रहराम्येतां पंचबाणैः सहस्रदृक् ।
इंद्र उवाच-
क्वास्ते ते पौरुषं मूढ येन लोकं विडंबसे २७।
ममाधारपरोभूत्वा योद्धुमिच्छसि सांप्रतम् ।
काम उवाच-
तेनापि देवदेवेन महादेवेन शूलिना २८।
पूर्वमेव हृतं रूपं ममकायो न विद्यते ।
इच्छाम्यहं यदा नारीं हंतुं शृणुष्व सांप्रतम् २९।
पुंसां कायं समाश्रित्य आत्मरूपं प्रदर्शये ।
पुमांसं वा सहस्राक्ष नार्याः कार्यं समाश्रये ३०।
पूर्वदृष्टा यदा नारी तामेव परिचिंतयेत् ।
चिंत्यमानस्य पुंसस्तु नार्यारूपं पुनःपुनः ३१।
अदृष्टं तु समाश्रित्य पुंसमुन्मादयाम्यहम् ।
तथाप्युन्मादयाम्येवं नारीरूपं न संशयः ३२।
संस्मरणात्स्मरो नाम मम जातं सुरेश्वर ।
तां दृष्ट्वा तादृशोरंग वस्तुरूपं समाश्रये ३३।
आत्मतेजः प्रकाशेन बाध्यबाधकतां व्रजेत् ।
नारीरूपं समाश्रित्य धीरं पुरुषं प्रमोहयेत् ३४।
पुरुषं तु समाश्रित्य भावयामि सुयोषितम् ।
रूपहीनोस्मि हे इंद्र अस्मद्रूपं समाश्रयेत् ३५।
तवरूपं समाश्रित्य तां साधये यथेप्सिताम् ।
एवमुक्त्वा स देवेंद्रं कायं तस्य महात्मनः ३६।
सखासौ माधवस्यापि समाश्रित्य सुमायुधः ३७।
तामेव हंतुं कुसुमायुधोपि साध्वीं सुपुण्यां कृकलस्य भार्याम् ।
समुत्सुकस्तिष्ठति बाणलक्षं तस्याश्च कायं नयनैर्विलोक्य ३८।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सप्तपंचाशत्तमोऽध्यायः ५७ ।