पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००६

सूत उवाच-
कश्यपस्य च भार्यान्या दनुर्नाम तपस्विनी ।
पुत्रशोकेन संतप्ता संप्राप्ता दितिमंदिरम् १।
रोदमाना प्रणम्यैव पादपद्मयुगं तदा ।
दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत् २।
दितिरुवाच-
तवैव हि महाभागे किमिदं रोदकारणम् ।
पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवंति वै ३।
भवती शतपुत्राणां गुणिनामपि भामिनि ।
माता त्वमसि कल्याणि शुंभादीनां महात्मनाम् ४।
कस्माद्दुःखं त्वया प्राप्तमेतन्मे कारणं वद ।
हिरण्यकशिपू राजा हिरण्याक्षो महाबलः ५।
यस्याः पुत्रौ महात्मानौ महाबलपराक्रमौ ।
कस्माद्दुःखं महज्जातं तस्माच्चैव सखे वद ६।
आख्याहि कारणं सर्वं यस्माद्रोदिषि सांप्रतम् ।
एवमाभाष्य तां देवीं विरराम मनस्विनी ७।
दनुरुवाच-
पश्य पश्य महाभागे सपत्न्याश्च मनोरथम् ।
परिपूर्णं कृतं तेन देवदेवेन चक्रिणा ८।
यथापूर्वं वरो दत्तो ह्यदित्यै देवि विष्णुना ।
तथेदानीं च पुत्राय तस्या दत्तो वरो महान् ९।
कश्यपाद्विश्रुतो जातस्त्रैलोक्यपालकः सुतः ।
इंद्रत्वं तस्य वै दत्तं तव पुत्राद्विहृत्य च १०।
मनोरथैस्तु संपूर्णा अदितिः सुखवर्द्धिनी ।
कनीयान्वसुदत्तश्च तस्याः पुत्रश्च संप्रति ११।
ऐंद्रं पदं सुदुष्प्राप्यं देवैः सार्द्धं भुनक्ति च ।
दितिरुवाच-
कस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः १२।
अन्ये च दानवा दैत्यास्तेजोभ्रष्टाः कथं सखे ।
तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि १३।
तामाभाष्य दितिर्वाक्यं विरराम सुदुःखिता ।
दनुरुवाच-
देवाश्च दानवाः सर्वे सक्रोधाः संगरं गताः १४।
तत्र युद्धं महज्जातं दैत्यसंक्षयकारकम् ।
देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः १५।
तथैव तव पुत्रास्ते देवदेवेन चक्रिणा ।
वने गतान्यथा सिंहो द्रावयेत्स्वेन तेजसा १६।
तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना ।
कालनेमिमुखं सैन्यं दुर्जयं ससुरासुरैः १७।
नाशितं मर्दितं सर्वं द्रावितं विकलीकृतम् ।
स्वैरर्चिभिर्यथा वह्निस्तृणानि ज्वालयेद्वने १८।
तथा दैत्यगणान्सर्वान्निर्दहत्येव केशवः ।
मम पुत्रा मृता देवि बहुशस्तव नंदनाः १९।
वह्निं प्राप्य यथा सर्वे शलभा यांति संक्षयम् ।
तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः २०।
एवमेतं हि वृत्तांतं दितिः शुश्राव दारुणम् ।
दितिरुवाच-
वज्रपातोपमं भद्रे वदस्येवं कथं मम २१।
एवमाभाष्य तां देवी मूर्च्छिता निपपात ह ।
हा हा कष्टमिदं जातं बहुदुःखं प्रतापकम् २२।
रुरोद करुणं साथ पुत्रशोकसुपीडिता ।
तां दृष्ट्वा स मुनिश्रेष्ठ उवाच वचनं शुभम् २३।
मा रोदिषि च भद्रं ते नैवं शोचंति त्वद्विधाः ।
सत्ववंतो महाभागे लोभमोहेन वर्जिताः २४।
कस्य पुत्रा हि संसारे कस्य देवी सुबांधवाः ।
नास्तिकस्येह केनापि तत्सर्वं श्रूयतां प्रिये २५।
दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः ।
भवतीनामहं भर्ता कामनापूरकः शुभे २६।
योजकः पालकश्चैव रक्षकोस्मि वरानने ।
कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः २७।
तव पुत्रा महाभागे सत्यधर्मविवर्जिताः ।
तेन दोषेण ते सर्वे तव दोषेण वै शुभे २८।
निहता वासुदेवेन दैवतैस्तु निपातिताः ।
तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः २९।
शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति ।
तस्माच्छोकं परित्यज विघ्नरूपं वरानने ३०।
आत्मदोषप्रभावेण दानवा मरणं गताः ।
देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा ३१।
एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति ।
एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम् ३२।
विषादाच्च निवृत्तोसौ विरराम महामतिः ३३।
इति श्रीपद्मपुराणे भूमिखंडे देवासुरे दितिविलापोनाम षष्ठोऽध्यायः ६।