पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः २२

← अध्यायः २१ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →

शौनकउवाच।
माहात्म्यं ब्रूहि सर्वज्ञ शृण्वतां पापनाशनम् ।
सर्वप्राणिहितार्थाय तुलस्या अनुकंपया १।
सूत उवाच।
तुलस्याः परिसरे यस्य काननं तिष्ठति द्विज ।
गृहस्य तीर्थरूपत्वान्नायांति यमकिंकराः २।
तुलस्याः काननं विप्र सर्वपापहरं शुभम् ।
रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम् ३।
रोपणं पालनं सेवां दर्शनं स्पर्शनं तु यः ।
कुर्य्यात्तस्य प्रणष्टं स्यात्सर्वपापं द्विजोत्तम ४।
कोमलैस्तुलसीपत्रैरर्चयंति हरिं तु ये ।
कालस्य सदनं विप्र ते न यांति महाशयाः ५।
गंगाद्याः सरितः श्रेष्ठा विष्णु ब्रह्म महेश्वराः ।
देवैस्तीर्थैः पुष्कराद्यैस्तिष्ठंति तुलसीदले ६।
यो युक्तस्तुलसीपत्रैः पापी प्राणान्विमुञ्चति ।
विष्णोर्निकेतनं याति सत्यमेतन्मयोदितम् ७।
तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि ।
विमुंचति नरः प्राणान्स याति हरिमन्दिरम् ८।
यो नरो धारयेद्विप्र तुलसीकाष्ठचंदनम् ।
तस्याङ्गं न स्पृशेत्पापं स याति परमं पदम् ९।
तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः ।
अप्यशौचोप्यनाचारो भक्त्या याति हरेर्गृहम् १०।
धात्रीफलकृतामाला तुलसीकाष्ठसंभवा ।
दृश्यते यस्य देहे तु स वै भागवतो नरः ११।
तुलसीदलजां मालां कण्ठस्थां वहते तु यः ।
विष्णूच्छिष्टां विशेषेण स नमस्यो दिवौकसाम् १२।
यः पुनस्तुलसीमालां कण्ठे कृत्वा जनार्दनम् ।
पूजयेत्पुण्यमाप्नोति प्रतिपुष्पं गवायुतम् १३।
धारयन्ति न ये मालां हैतुकाः पापबुद्धयः ।
नरकान्न निवर्तंते दग्धाः कोपाग्निना हरेः १४।
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ।
महापातकसंहर्त्रीं धर्मकामार्थदायिनीम् १५।
स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम् ।
तावद्वर्षसहस्राणि वसते केशवालये १६।
निवेद्य केशवे मालां तुलसीकाष्ठसंभवाम् ।
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् १७।
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ।
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् १८।
तुलस्या विपिने धात्र्याश्छायासु यो नरोत्तमः ।
पिण्डं ददाति पितरो मुक्तिं यान्ति द्विजोत्तम १९।
पाणौ मूर्ध्नि गले चैव कर्णयोश्च मुखे द्विज ।
धात्रीफलं यस्तु धत्ते स विज्ञेयो हरिः स्वयम् २०।
धात्रीपत्रैः फलैर्विप्र श्रीहरिं चार्चयेद्द्विज ।
कोटिजन्मार्जितं पापं पूजया नश्यति सकृत् २१।
यज्ञादेवाश्च मुनयस्तीर्थानि कार्तिके द्विज ।
धात्रीवृक्षं समाश्रित्य तिष्ठन्ति कार्तिके सदा २२।
धात्रीपत्रं कार्तिके च द्वादश्यां तुलसीदलम् ।
चिनोति यो नरो गच्छेन्निरयं यातनामयम् २३।
धात्रीछायासु यो विप्र चान्नं भुनक्ति कार्तिके ।
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति २४।
तुलसीवनमध्ये च धात्रीमूले च कार्तिके ।
कुर्याद्धर्यर्चनं विप्र वैकुण्ठं याति स ध्रुवम् २५।
तुलसीमूलदेशेऽपि स्थितं वारि द्विजोत्तम ।
गृह्णाति मस्तके भक्त्या पापी याति हरेर्गृहम् २६।
तुलसीपत्रगलितं यस्तोयं शिरसावहेत् ।
सर्वतीर्थेषु स स्नातश्चांते याति हरेर्गृहम् २७।
पुरा कश्चिद्द्विजश्रेष्ठो द्वापरेऽभून्महामुने ।
स्नात्वैकदा तुलस्यै स वनं दत्वा गृहं गतः २८।
आदित्यो वर्चसा नाम्ना मार्त्तंड इव पुण्यतः ।
तृषार्तो भक्षकः कश्चिदागतो बहुकल्मषः २९।
तुलस्यामूलतस्तोयं पीत्वा चासौ हतांहसः ।
त्वरयाप्यागतो व्याधो नाम्ना यश्चासिमर्द्दनः ३०।
उवाच भुक्तं चान्नं च भुक्त्वा भग्नं गतः किमु ।
कृत्वा मे पाकभांडस्थं चागतो हिंसकस्य ते ३१।
विव्याध तं गतप्राणं नेतुं वै शमनाज्ञया ।
आगताः किंकराः क्रुद्धाः पाशमुद्गरपाणयः ३२।
बद्ध्वा नेतुं मनश्चक्रुरागता विष्णुकिंकराः ।
तदा छित्त्वा चर्मपाशं स्यंदने तं मनोहरे ३३।
तूर्णमारोहयामासुः पप्रच्छुर्विनयान्विताः ।
तेऽपि पुण्येन भोः संतः केन वै नीयतेऽप्यसौ ३४।
ऊचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम् ।
अकरोद्धरणं कांचित्सुंदरीं चांगनामयम् ३५।
अनेन चांहसा राजा गतो वै शमनक्षयम् ।
तत्रक्लेशं तु युष्माभिर्दत्तं वै शमनाज्ञया ३६।
ताम्रमय्यास्त्रियासार्द्धं क्रीडां सुप्त्वा चकार सः ।
तप्तायां लोहशय्यायां वैक्लव्यं कर्मणा नृप ३७।
तप्तायोभीषणं तप्तं लोहस्तंभं यमाज्ञया ।
ततः स्थितः समालिंग्य भुक्त्वा दुःखं चिरं नृपः ३८।
सिक्तः क्षारांबुधाराभिरन्यैर्वै शमनालये ।
ततो नरकशेषे च पापयोनौ मुहुर्मुहुः ३९।
जन्मासाद्य चिरं दुःखमनुभूतं स्वकर्मणा ।
तुलसीमूलकं वारि पीत्वा याति हरेर्गृहम् ४०।
इदानीं तद्वचः श्रुत्वा गतादूता यथागताः ।
तेन सार्द्धं विष्णुदूता गता वैकुंठमंदिरम् ४१।
माहात्म्यं कथितं ब्रह्मन्तुलस्याः पापनाशनम् ।
कुर्वंति सेवां ये भक्त्या न जाने किं भवेन्मुने ४२।

इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे तुलस्या माहात्म्यंनाम द्वाविंशोऽध्यायः २२।