← अध्यायः ६ परमपुरुषसंहिता
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
परमपुरुषसंहितायाः अध्यायाः

श्रीमत्पांचरात्रांतर्गत श्रीपरमपुरुष संहिता
सप्तमोध्यायः
भगवदपचार निरूपणं
ऋषयः-
श्लो।। वुनिसत्तमभोदेव नारदद्विजपुंगव।
भगवदपचारादि कधने ऋषि प्रश्नः
देवालयेषुलोकेस्मिन् ज्ञानाज्ञानकृतंतुयुत्।। 1
अपचारस्वरूपंच तस्मिन् भेदनिरूपणं।
ब्रूह्यस्माकंदयासांद्र तद्भलं(त्वद्यबोधय)चवदप्रभो।। 2
श्रीनारदः
नारद प्रतिवचनं अपचारकरणे दोष निरूपणं
अधवक्ष्ये विशेषेण अपचार निरूपणं।
क्रोधलो(भादिकैः कैश्चित्)भमदाद्यैस्तु हेतुभिर्मुनि सत्तमाः।। 3
अपचारः कृतोयेन भगवत्सन्निधौभुवि।
तस्यनस्याद्यधाचैव भुक्तिमुक्तिध्वयंद्विजाः।। 4
भगवत्पाद तीर्धे जल सामान्य भावनं प्रसादे अन्न भावनं
भगवत्पादतीर्धेतु सामान्यजलभावना।
प्रसादेवासुदेवस्य सामान्यान्नभावनं।। 5
नैवेद्यात्पूर्व माघ्राण भक्षणादिषु प्रसाद भक्षणे
नैवेद्यात्पूर्वमन्नस्य आघ्राणं(भक्षणंतथा)चापिभक्षणं।
प्रसादभक्षणाच्छौरेः करशुद्धिश्चभूसुराः।। 6
करशुद्धिःदेवालयादिषु मलमूत्रादिकरणं देवालये निवास शयन भोजनादि अग्रासनस्थितिः
देवारये विग्रहेच कुंडाग्नौ चद्विजोत्तमाः।
मलमूत्रपुरीषादि करणंनिष्टीवनंतधा।। 7
देवा(लये)लयनिवासंच शयनंभोजनंतधा।
अग्रासनोपवेशंच महादोषयितिस्मृताः।। 8
प्रसादभक्षणे कालात्रीतादिशंकानिर्माल्यधारणे अगौरव भावनं प्रसादे रुचिशंका देवालये शुचिशंका तद्भल प्राप्ति कधनं
प्रसादभक्षणेविष्णोः कालातीतादिभावना।
निर्माल्यधारणेचैव अश्रर्धाचयगौरवं।। 9
प्रसादेरुचिशंकाच शुचिशंकाहरेर्गृहे।
येनकेनकृतंलोके तस्यवंशक्षयं(स्मृतं)भवेत्।। 10
देवालय गमनात्पादप्रक्षाळनं
देवालयाद्गृहंगत्वा पादप्रक्षाळनंकृते।
विग्रहॆशिलालोहादि भावं उत्सवेष्वपहास्यं
शिलालोहादि भावंच भगवद्विग्रहेकृते।। 11
अपहास्यंकृतेचैन उत्सवादिषुशार्ङ्गिणः।
अकालेदेवालय कवाटमोचनं पूजाकाले दर्शनं
अकालेतुहरेर्गेहे कवाटानांविमोचने।। 12
आराधने प्रवर्तेतु भगवद्दर्शने(तधा)कृते।
देवालये कलहं असत्य भाषणंच भगवद्वस्त्रादिक धारणं तद्भल निरूपणं
कलहंचा सत्यभाषा भगव(न्मंदिरे)त्सन्निधौकृते।। 13
भगवद्वस्त्रभूषादि धारणे(हरणेतथा)चधरातले।
देवालये मद्यमांसभक्षणादि पशुपक्षिहनसं स्त्रीसंगमं चौर्यं परिहासनिंदाभाषणं तद्भलश्रुतिः।
देवालयेसुरापानं(मत्स्यमांसादि)मांसादीनांचभक्षणं।
पशुपक्ष्यादिहसनं वनितासंगमंतधा।। 15
चौर्यंच परिहासंच निंदावचनभाषणं।
येनकेनकृतं(लोकॆ तस्यवंशक्षयंभवेत्)तस्य वंशनाशनमीरितं।। 16
भगवद्वस्तु हरणं भगवन्निंदनंच अनर्चकेन गर्भालय प्रवेशं
भगवद्वस्तुहरणं तधाचहरिनिंदनं।
अनर्चकेनयेनापि गर्भालयप्रवेशनं।। 17
अर्चके विप्रलामान्य भावं
भगवत्पूजकेचैव विप्रसामान्य भावनं।
तन्निंदन दंडनादि तश्रद्धव्यहरणादि तिद्भल श्रुतिः
निंदनं दंडनंचैव (तत्पूजक बुधं द्विजाः)अर्चकस्यद्विजोत्तमाः।। 18
तस्यदुःख प्रदानंच तद्द्रव्यहरणंतथा।
यःकरोति विमूढात्मा तस्यायुश्श्रीश्चनश्यति।। 19
देवालये छत्रपादुकादि धारणं तद्भल निरूपणं
छत्रपादुक धारीच दंडधारीच भूतले।
प्रविशेच्चेद्धरेर्गे(हे)हं तस्यवंशक्षयंस्मृतं।। 20
देवस्यपुरतः छत्रादि धारणं तद्दोष निरूपणं
अग्रेतु देवदेवस्य छत्रपादुकलांछनैः।
योगच्छेत्तस्यनांशस्या द्रौरवंनरकं (भवेत्)लभेत्।। 21
अर्चनादि पुष्पादि कहरणे थारणेच कंचुकोष्णी षैहि मंदिर प्रवेशं
भगवत्बूजनार्धंतु आनीताः कुसुमादिकाः।
योहरेतस्यवैघोरं नरकंलभतेद्विजाः।। 22
कंचुकोष्णीषधारीच नगच्छेद्धरिमंदिरे।
हरेःप्पृष्ठ दर्शनं तीर्ध प्रसाद वर्जनं तत्फ्रतिफल प्राप्तिः
नपृष्टंदर्शनीयंस्या द्देवदेवस्यशार्ङ्गिणः।। 23
योवर्जतिहरेस्तीर्थं प्रसादंभक्तिलोपतः।
तप्यान्वयस्य नाशंस्या त्सगच्छेन्नरकं धृवं।। 24
भगवतीर्धस्य भूवतनादिकं
तीर्धादिग्रहणेविष्णो(र्भक्तिराहित्य हेतुना)रश्रर्थादिक हेतुभिः।
येनतत्पतितं भूमौ तस्यायुश्रीश्चनस्यति।। 25
यस्त्वात्मानं कर्मयोगिं मत्वाहंकृतिनाजडः।
तीर्थविसर्जनं तद्दोषः
विसर्जतिहरेस्तीर्धं सकलाकाल शंकया।। 26
तस्यपूर्वार्जितंपुण्यं सर्वंचापि विनश्यति।
देवालय प्रवेशेच सत्वनर्हयितिस्मृतः।। 27
म्लेच्छपाषंडादिक देवालय प्रवेशे दोष निरूपणं
म्लेच्छपाषंडजातीनामालयस्यप्रवेशने।
तदन्येषांचभक्तानां गौरवं (दि)तुविनश्यति।। 28
,स्मात्तेषांप्रवेशेतु अनर्हत्वं निरूपितं।
यदाभूयत्तत्प्रवेशं येनकेनच हेतुना।। 29
तत्प्रवेशे संप्रोक्षणादि कर्तप्यं
महा संप्रोक्षणंकृत्वा शांतिहोदिकंसरेत्।
भगवद्दर्शनार्थमागत स्त्रीष्वन्यभावनं प्रसाद विनियोगे अन्यसंभाषणादि
भगवत्संदर्शनार्ध मागतासुचस्त्रिषुयः।। 30
अन्यभावंकरोत्येव तस्यनाशो(भवेद्थृवं)भविष्यति।
विनियोगस्यसमये प्रसादस्यश्रियःपतेः।। 31
अन्यसंभाषणादीनि(वर्जनीयानि भूसुराः)वर्जयेत्सततंभुवि।
प्रसादनिंदनरंघन घट्टनादि
प्रसादलंघनंचैव घट्टनं(चापि)चतुनिंदनं।। 32
तद्दूषणं चतद्दोष प्राप्ति कधनं
दूषणंयेनकेनापि वंशनाशन कारणं।
एकहस्त प्रणामादि देवतांतराधिक्य कीर्तनं
एकहस्त प्रणामंच एकंचैव प्रदक्षणं।। 33
हरिगेहेविसर्जंस्यात्स्रेय(स्कामैर्धरातलै)स्कामैस्सदाभुवि।
भगवन्मंदिरेत्वन्य देवाधिक्य प्रकीर्तने।। 34
ऊर्ध्वपुंड्राद्यपहास्यं भगवच्चरितादिक निंदनं तद्दोषविशेषः
ऊर्थ्वपुंड्रादिकंदृष्ट्या(परिहसत्यदिभूसुराः) परिहासं कृतेयदि।
भगवच्चरितालाप श्रवणादिक निंदने।। 35
येनकेनापिभूमौतु महद्दुःखंभविष्यति।
देवालयादिक निर्माण विघ्नकल्पनं तद्दोष प्राप्तिः
देवालयविनिर्माणे येनविघ्नादिकंभवेत्।। 36
तस्यवंशक्षयंभूया दचिरेणनसंशयः।
महोत्सव भंगकारणं तद्दोषप्राप्तिः
महोत्सवस्ययोभूया द्भंगकर्ताधरातले।। 37
पांडुरोगेसदाभूत्वा नरकंप्रतिच्छति।
कुंडाग्नि दीपादिक शमनं तद्दोषः
शमयेद्यस्तुकुंडाग्निं (दीपस्य)दीपप्रज्वलनंतुवा।। 38
देवालयेतस्यभूया द्घोरदुःखंधरातले।
भक्तनिंदन दूषणादिकं। तद्दोषः।
भक्तानां दूषणेचैव निंदनेविबुधोत्तमाः।। 39
सर्वाभीष्ट विनाशंच भवेच्चैव धरातले।
मधुमांसाधिकं भुक्त्वा आलय प्रवेशं
मधुमांसादिकं भुक्त्वायःप्रविश्यति मंदिरं।। 40
स्नानादिकं विना आलय प्रवेशं तद्दोष प्राप्तिश्च यात्राकाले उपाहारादिक प्रधानं तद्दोषश्च
अस्नातस्त्वशुचिश्चैव ऊर्ध्वपुंड्र(विवर्जतः)विहीनकः।
तस्यवंश क्षयंभूयान्निश्चयं मुनिसत्तमाः।। 41
यात्राकालेतु देवेशं समीपेस्वग्वहस्यतु।
दृष्ट्वात मुपहाराद्यै र्योनतृप्त्यति भूतले।। 42
तस्यधान्य धनादीनि(सर्वेकार्याश्च निष्फला।।)सर्वाणिस्यात्तुनिष्फलाः।
अलक्ष्यकरणं तत्प्रतिफलंच अन्यभक्षित फलादीनां भगवदर्पणं
आगतंपुरमध्येतु हरिंदृष्ट्वातुयोनरः।। 43
अलक्ष्यं कुरुतेचैव प्रणामं नकरोतिच।
तस्यभूयान्म हद्दुःखं रौरवं नरकं(भवेत्)व्रजेत्।। 44
अन्यभक्षण शेषंतु योदद्याद्वै फलादिकं।
आघ्रातगंथ पुष्पादि समर्पणं देवालयादिदहनं तद्दोष प्राप्तिः
आघ्रातगंध(पुष्पाद्याः)पुष्पादीन् हरेस्तस्यभवेदघं।। 45
देवालयं दहेद्यस्तु अर्चकगृहमेववा।
तस्यवंश क्षयं श्रीघ्रं भवत्येवन संशयः।। 46
अर्चकस्त्रीष्वन्यभावनं तद्दोषप्राप्तिः!
अर्चकस्त्रीषुयःकुर्या(द्दुष्टभावं)दन्यभावं मुनीश्वराः।
तस्यभूयान्महा(दुःखंरौरवंनरकंतधा)घोर दुःखंतु वसुधातलेः।। 47
भगवतापहास्यं तद्दोषश्च
महाभागवतान् विप्रान् दृष्ट्वायः परिहास्यति।
तस्यपूर्वार्जितं पुण्यं वित्तं (सर्वंच)चापिविनश्यति।। 48
रधवाहकादि निंदनं तद्दोषः
रथस्थेतु जगन्नाधे तद्रधस्यतु वाहकान्‌।
योनिंदतिसदाभूमौ तस्यदुःखं महद्भवेत्।। 49
भगवच्छास्त्रे अपौरुषेयत्वशंका! तद्दोष निरूपणं
देवालयस्य यद्धर्म शास्त्रंस्या त्पांचरात्रकं।
तस्मिन्नपौरुषेयत्वे शंकायःकुरुतेनरः।। 50
ध्वयारोहाद्यवरोह मध्ये अन्नगाम गमनं तद्दोषः
तस्यवंशक्षयंविद्दि सर्व(शास्त्रेषु निश्चतं)शास्त्र विनिश्चितं।
थ्वजारोहणमारभ्य यावत्तीर्थदिनोत्सवं।। 51
आन्यग्रामादिगमनं यस्यकस्या पिनाशनं।
भगवदुत्सवे मनुष्योत्सवादिकरणं तद्दोषः
दैवोत्सवेप्रवर्तेतु नमनुष्योत्सवंचरेत्।। 52
यःकरोदि विमूढात्मा तस्यवंश क्षयं(भवेत्)धृवं।
याताशौचादिषु देवालय प्रवेशं तद्दोष प्राप्तिः
(द्याशौच कालेषु)शौचमृताशौचे आलयंयःप्रविश्यते।। 53
तस्यवंश विनाशंच रौरवंनरकं भवेत्।
वस्त्रहीन देवालय प्रवेश तद्दोष निरूपणं
वस्त्रहीनस्तुयश्शौरे र्मंदिरं संप्रविश्यति।। 54
समहापातकैर्युक्त श्चंडालस्याद्धरातले।
देवालयाग्रतःणामादिनकरणं तद्भलप्राप्तिः
प्रयस्तुगच्छेद्धरेर्गेह पुरतः(मार्गतोपिवा)पधिमार्गतः।। 55
देवालयाग्रभागेतु नमस्कारं समाचरेत्।
योनकुर्यात्तधातस्यकुल नाशनमुच्यते।। 56
देवद्रव्यहरणं भगवत्सेवकोपादि भंगकरणं तद्भलितंच
देवद्रव्यापहरणं महापातक मीरितं।
भगवत्सेवकोपादि भंगरकरणं तद्फलितंच
भगवत्सेवकानांतु उपाधौभंग कल्पनं।। 57
येन केनापितद्वंश नाश(कारण)हेतुकमीरितं।
नूतनागत पुष्प फलादीनां भगवत्समर्पण विशेषःतन्नकरणे प्रत्यवायः
फलपुष्पादिकंचैव धान्यादीनिचभूसुराः।। 58
यदाभवेन्नूतनंतत्छ्रीहरेस्तु समर्पयेत्।
योनदद्यात्तथौशौरे स्तद्वृद्धिर्नभवेद्भुवी।। 59
अर्चकाज्ञा दिपाल नावसर कथनं
अन्येष्वितरकार्येषु अर्चकाज्ञांतु पालयेत्।
स्धानाधिपस्यया यद्वा भक्तिश्रर्धादि(संयुतः)कैर्युतः।। 60
तन्नकरणेदोषः
एवंनकुरुतेयस्तु तस्यदुःखं(महत् स्मृतं)महद्भवेत्।
अध्याय परिसमाप्तिः
इत्येवं भगवद्गेहे अपचारनिरूपणं।। 61
ज्ञेयंसर्वैश्चलोकेस्मिन् श्रेयःकामै(स्तुसर्वदा)र्द्विजोत्तमाः।
इतिश्रीपांचरात्रागम रहस्यसारे श्रीपरमपुरुष संहितायां
भगवदपचार निरूपणंनाम सप्तमोध्यायः