अन्तः कुटिलतां विभ्रच्छङ्खः स खलु निष्ठुरः ।
हुंकरोति यदाध्मातस्तदेव बहु गण्यताम् ॥ ११ ॥
विमलतां वचनस्यगोचरे जनयिता तव शङ्ख महोदधिः ।
मुदमलं तनुते च तव ध्वनिः किमु ततो विधृता हृदि वक्रता ॥ १२ ॥
जन्मस्थानमपांनिधिः शुचितया ख्यातिस्तवैवोज्ज्वला
माङ्गल्ये च जगत्प्रबोधजनको नादस्तवैवाग्रणीः ।
किंवा ते कमलापतिः प्रणयिता ब्रूमस्तवैवंविधे
माहात्म्ये सति शङ्ख सङ्गतमिदं कौटिल्यमन्तः कुतः ॥ १३ ॥
तातः क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः
सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि ।
धिक्कर्माणि स एवं कम्बुरधुना पाखण्डिकान्ताकरे
विश्रान्तः प्रतिवासरं प्रतिगृहं भैक्ष्येण कुक्षिंभरिः ॥ १४ ॥
सर्वाशापरिपूरिहुंकृतिमदो जन्मापि दुग्धोदधे-
र्गोविन्दाननचुम्बि सुन्दरतरं पुर्णेन्दुबिम्बाद्वपुः
श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि य-
त्कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनापि लज्जामहे ॥ १५ ॥
शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचीघटाघट्टिताः
पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।
एकः कोऽपि च पाञ्चजन्य उदभूदाश्चर्यधामा सतां
यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥ १६ ॥
अम्भोघेरेव जाताः कवि जगति न ते हन्त सन्तीह शङ्खा
यान्संगृह्य भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय ।
एकः श्रीपाञ्चजन्यो हरिहरकमलक्रोडहंसायमानो
यस्याध्वानैरमानैरसुरवरवधूवर्गगर्भा गलन्ति ॥ १७ ॥
पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी ।
शङ्खः प्रतिगृहं रौति कर्म तस्यैव कारणम् ॥ १८ ॥
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८५
पुटमेतत् सुपुष्टितम्
७७
अन्योक्तिमुक्तावली ।