पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १३१ )
टीकाद्वयसहितम्।


( स्मितं कृत्वा ।) एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थयितौ ` विडम्ब्यते ।

स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेषयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव । मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति।। २॥

स्याप्यनुवाद्यत्वात् । स्मितं कृत्वेति । अलीकेऽपेि सत्यबुद्धिः कामिनामेति

भावः । तदेव प्रकट्यति--एवमिति । आत्माभिप्रायेण

स्याभिप्रायेण संभाविता संभावनयानीता कल्पितेति यावत् । इष्ट जनस्य प्रार्थ्यजनस्य चित्तवृत्तिर्येन स प्रार्थयिता कामी विडम्ब्यत इति कर्मकर्तरि । उपहासास्पदं भवतीत्यर्थः । विशेषे प्रस्तुते सामान्यो क्तेरप्रस्तुतप्रशंसा । तेन पूर्वेक्तोऽभिलाषे मन्मनस्थ एव कल्पित स्तु तस्यां प्रतिभातीति प्रकृते पर्यवसानम् । तदेव विशिष्य दर्श यति--स्निग्धमिति । अन्यतोऽपि निर्लक्ष्यमेव । अत एव नयने प्रेषयन्या तया यद्विलासादिव स्निग्धं वीक्षितं स्निग्धदृष्टयावलोकि

मदने अकृतार्थेsपि साक्षादालिङ्गनाद्यभावेऽपि रतिं कुरुते प्रीतिमुत्पादयति । स्वविषयोत्तमनयिकानामनुरागज्ञानेन सुखोत्पत्तेः सर्वलोकसिद्धत्वात् । अत्र चाभिलाषविप्रलम्भशृंगार: प्राधान्येन व्यज्यत इत्यभिधामूलो संलक्ष्यकमव्यंग्यो रसध्वनिः । अत्र शमो नाम

  प्रतिमुखसन्ध्यंगमुक्तं भवति । तदुक्तम्-‘‘ शमः स्यादरते: शान्ति: ’ इति । अत्र संकल्पजनित-

तात्कालिकसुखवत्त्वाद्रतेः शांतिर्भवति । प्रातिमुखसन्धिरुच्यते “ ईषत्प्रकारो बीजस्य संधि: प्रतिमुखं भवेत् । - बिन्दुप्रयत्नसंबंधादंगान्यस्य त्रयोदश विलासः परिसर्पश्च विधूतं शर्मनर्मणि । नर्मद्यतिः प्रगमनं निरोधः पर्युपासनम् ॥ पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपेि ! ' स्मितमित्यादि । स्मितं कृत्वा किंचिद्विहस्य तदुक्तम्-‘ईषद्विक सितैर्गण्डैः कटाक्षै: सौष्ठवान्वितै: । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ।' इति । एवमुक्तप्रकारेण प्रार्थयिता कामी । आत्मेति । परबुद्धेरप्रत्यक्षत्वातत्त्श्चेष्टाभिरेव ज्ञेयत्वेनोत्तमनायिकया ललितविलोकनादीनां स्वाभाविकत्वेनापि संभवात्तेषां स्वविषयत्व कल्पने स्वाभिप्रायमात्रेण यः करोति स कामी विडंब्यते परिहास्यते लोकैरिति शेषः । एवं सामान्येनोक्त्वा विशेषनिष्ठत्वेनाह तथा ह्रीत्यादिना । स्निग्धमिति । अत्र शब्दशक्त्या-

विलोकितादीनां स्वविषयत्वनिश्चयावगमेऽपि स्वगर्वपरिहाराय स्वविषयत्वस्या

१ प्रार्थयिता जनः इ० पा० । २ तथाहीत्यत्रिकं क० पु० । ३ प्रेरयंया इ० पा० ।