पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
(१४३)
टीकाद्वयसहितम्।

गाहन्तामालोडयन्तु । अनेन त्रासाभावात्प्रकृतिप्रत्यासत्तौ शृङ्गाभ्यां पर्यायेण जलताडनं महेिषजातिरुक्ता । एवमग्रिमयोरपि जातिकथनमुन्नेयम् । 'आहावस्तु नेिपानं स्यादुपकूलजलाशये' इत्यमरः । छायायां बद्धं कदम्बकं समूहो येन तन्मृगकुलं रोमन्थमुद्गिलितकबलचर्वणमभ्यस्यत्वित्यनेन परस्परवार्तानभिज्ञानां पलायनपरायणानां रोमन्थोऽपरिचितचर इवासीन्तस्येदानीं शिक्षाक्रमेण परिचयदार्ङ्य भवत्वित्युक्तं भवति । कदम्बानां बहुत्त्कुलमत्रान्यपदार्थः । वराहपतिभिः सूकरश्रेष्टैरित्यनेन तादृशानामस्मन्मृगयासंरम्भगोचरत्वामिति प्रकाश्यते । अवातशौण्डाः परिणतिभीरवो महिषाः, स्वभावभीता मृगाः, वराहास्तु परावृत्तिचतुराः प्रहारकोविदाश्चेति श्रेष्ठत्वम् । विश्रब्धं साश्वासं पल्वले । 'वेशन्तः पल्वलं चात्पसरः' इत्यमरः । मुस्ताक्षतेिः मुस्तोत्खननं क्रियतां पूर्ववाक्ययोर्विश्वासमन्तरेण तादृशं विशिष्टं कर्मं कर्तुमेव न शक्यत इति तत्र विश्वासोऽर्थायातः । अत्र तुरगवदाद्यन्त (दात्त) घासग्रासन्यायेनापि मुस्ताक्षतिः संभवतीति विस्रब्धमिस्युपात्तम् । इदं नानाविधदानवसेनाविनाशित्वाद्यर्थान्तरसंक्रमितवाच्यम् । अस्मद्धनुश्च शिथिलज्याबन्धमवरोपितज्याबन्धं विश्रामं लभताम् । अव्यापारं तिष्टवित्यर्थः । अत्र राजवचनेनैव धनुषः स्वसंबन्धे ज्ञाते पुनरस्मादित्यवकररूपमिति ये मन्यन्ते तैः पञ्चमीबहुवचनतया भिन्नपदत्वेन व्याख्येयम् । अस्मत्सकाशाद्विरतं भवात्वित्यर्थः । विश्रान्तेर्व्यापारविरामत्वादवधौ पञ्चमी । चकारेण चेदमस्मद्धनुरारूढमवतीर्ण वा तदैव संरम्भगोचराणां भयविस्रम्भाविति


सलिलम् आहावजलम् "आहावस्तु निपानं स्यादुषकूपजलाशये" इत्यमरः । श्रृंगैविंषाणैः मुहुर्बहुशः ताडितं यथा तथा गहंतां विलोडयन्तु यथेच्छं क्रीडन्त्वित्यर्थः । छायासु वृक्षच्छायासु बद्धकदंबकं कुतयूथं रोमन्थः हनुवलनम् अभ्यस्यतु निःशंकया मुहुरवर्तयतु वराहततिभिर्वराहसमूहैः विश्रब्धं यथेच्छं यथा नथा मुस्ताक्षतिः पल्वले "पल्वलं चाल्पसरः" इत्यमरः । वराहास्तु बहुजले न प्रविशन्ति कंतु पंकप्रायाल्पजल एवेति भावः । आश्रमे ऋषीणां प्रभावादकलेऽपि जन्तूनां यदपेक्षितं तत्सर्वमस्तीति भावः । शिथियज्याबन्धमवरोपितगुणकम् आश्रमनिकटे मृगया न कियत इत्यर्थः । अत्र प्रथमान्तत्वेनोपकान्तस्य प्रक्रमस्य वराहतिभिरिति तृतीयांतत्वेनोपादानात्कारकस्य च प्रक्रमभंगदोपं वदंति । अत्र तु कविप्रयुज्यमानकर्तृभेदप्रक्रम इति कर्तृव्यत्यासे नाग चमत्कारकारी गुण: न देषः । यदा कदेस्तु रसपरवश-