पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १५१ )
टीकाद्वयसहितम्।


चित्रे निवेश्य परिकल्पितसर्वयोगा।
रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ ९ ॥


नेन प्रत्यङ्गवर्णना कर्तुं न शक्येत्युक्तम् । चित्र इति । विधिना ब्रह्मणा चित्र आलेख्ये निवेश्य परिकल्पितसत्त्वयोगा कृतप्राणयोगा नु । ‘द्रव्यासुव्यवसायेषु सत्त्वम्’ इत्यमरः । यावद्रुचि मार्जनलेखनयोस्तत्र संभवादित्याशयः | रूपाणां समुच्चयः समुदायस्त्रिभुवनवर्तिरूपसमुदायः | तेनोपादानकारणेन | करणेन कृता नु । अत एव करस्पर्शाद्यभावात्तादृशं कान्तिमत्त्वमेतादृग्लक्षणत्वादिकमिति भावः । अनेन यत्स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः । ' तत्सौकुमार्यम् इति सौकुमार्यं ध्वनितम् | संदेहालंकारः । केचन नुशब्दस्य वितर्कवाचित्वादुत्प्रेक्षां मन्यन्ते । असंबन्धे संबन्धरूपोभयत्रातिशयोक्तिश्च । क्वचित् ’ रूपोच्चयेन घटिता मनसा कृता नु ’ इति पाठः । तत्र मनसा कृता ध्याता । रूपोच्चयेन घटिता योजिता नु इति योजनीयम् । मनसि ध्याताया रूपनिवेशनेन श्लक्ष्णत्वं तादृशकान्तिमत्वादि व्यज्यते ! सा स्त्रीरत्नसृष्टिरुत्कृष्टा स्त्रीसृष्टिः । ‘ रत्नं स्वजा


शेषः । किमित्याक्षेपे । किन्तु तद्रूपादिकमधिकृत्य संक्षिप्य कथयामित्यर्थः । तथैवाह चित्र इत्यादिना ।। विधिना ब्रह्मणा विधिरिति निरूपपदेन विधेः कर्तुमकर्तुमन्यथाकर्तुं सामर्थ्यं सूच्यते । तेन विधिना कर्त्रा चित्रे आलेख्ये निवेश्य निरवद्यं सम्यक् लिखित्वा चित्ररूपाकृतेर्यत्रावयवसौकुमार्यवर्णौज्ज्वल्यरूपादिविशेषविषये चित्रकारस्यापरितोषः पुनरपि परिमृज्य स्वपरितोषावधि लिखितुं शक्यते । मासपिंडाकृतिसृष्टौ न तथा पुनः पुनः कर्तुं शक्यत इति चित्र इयुक्तम् । अनेन सर्वावयवानां कांत्यौज्ज्वल्यं ज्ञाप्यते तेन शैशवपरित्यागेन विभक्तावयवतया प्रसरद्रूपत्वं व्यज्यते तेन च यौवनपरिपोषदशा ध्वन्यते परिकल्पितसत्वयोगा संपादितप्राणसंयोगा अनेन वाक्येनोपभोगार्हत्वं व्यज्यते । नुवितर्के चित्रनिर्माणस्य करांतःकरणबहिरिंद्रियादिबहुसाधनपारतंत्र्येण परिमितसौदर्यवत्वात्पूर्वानुशयात्पक्षांतरमाह - रूपोच्चयेनेत्यादि । विधिना रूपोच्चयेन चंद्रसरोजाद्युपमागतकांतिसमूहेन रूपोच्चयेनेत्यनेन लोकोत्तरप्रकृष्टकांतिसमूहानामेकत्र सर्जनदिदृक्षा चिराज्जाता विधेरिति ध्वन्यते । अन्यथा कथमेतादृशः कांत्यतिशय इति भावः । विधिपदेन तादृशदुष्करकरणे सामर्थ्यमुक्तम् । मनसा ध्यानेन हस्तस्पर्शे सति म्लानता भवतीति मनसेत्युक्तं तेन सर्वावयवानामतिमार्दवं व्यज्यते । अत्र हि निर्माणे सृष्टेः मनोमात्र-