पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७६

पुटमेतत् सुपुष्टितम्
अङ्कः २]
( १६१ )
टीकाद्वयसहितम्।

 विदूषकः--को अवरो अवदेसो तुम[१] राआणं । णीवारच्छदृभा[२]अं अह्मणं उवहरन्तु त्ति । [ कोऽपरोऽपदेशस्तव राज्ञः । नीवारषष्ठभागमस्माकमुपहरन्त्विति ॥
 राजा--मूर्ख, अन्यद्भागधेयमेतेषां रक्षणे निपतति, यद्रत्नराशीनपि विहायाभिनन्द्यम् । पश्य ।

यदुत्तिष्ठति वर्गेभ्यो नृपाणां क्षयि तत्फलम् ।
तपःषङ्भागमक्षय्यं ददयारण्यका हि नः ॥ १३ ॥


इत्यनेनोत्कण्ठातिशयो व्यज्यते । कोऽपरोऽपदेशः । तुम तव राज्ञ इति । 'तुम' इति षष्ठ्येकवचने युष्मद् आदेशः । 'तइतुन्तेस्रह्मतुह्मतुहंतुवतुम--' इत्यादिसूत्रेण । 'ङसि तुमतुज्झतुह्मा' इति वररुचिसूत्रं च । नीवारषष्ठभागमस्माकमुपहरन्त्विति । अयमेवापदेश इत्यर्थः । भागधेयं रजग्राह्यो भागः । 'भागरूपनामभ्यो धेयः' इति स्वार्थे धेयः । 'समो ( भाग ) धेयं मतं भाग्यं भागधेयं ( यः ) स्मृतो बलिः' इति धरणिः । यदुत्तिष्ठतीति । वर्णेभ्यो ब्राह्मणादिभ्यो यत्फलमुत्तिष्ठत्युत्पद्यते तत्क्षयि विनाशि प्रकारसहस्रैरपि न स्थायीति व्यज्यते । आरण्यकास्तपस्विनो नोऽस्माकमक्षय्यमविनाशि तपःषड्भागं ददाति 'क्षय्यजयौ शक्यार्थे' इति निपातनात्साधु । अक्षय्यमिति प्रयत्नसहस्रैरपि न नश्यतीति ध्वन्यते । व्यतिरे


मात्रमेव व्यवधानमिति द्योत्यते । अन्यदित्यादि । एतेषां तपस्विनां रक्षणे परिपालने सति अन्यद्भागधेयं नीवारषष्ठांशव्यतिरिक्तं भागधेयं निपतति आपतति । रत्नराशीनप्युत्कृष्टपदार्थसमूहानपि । "जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते" इत्यभिधानात् । अभिनंद्यमाशास्यम् । अनेनाननुभूतदुःखानुभूयापि राज्ञा तपस्विनां तपोरक्षा कर्तव्येति व्यज्यते । तेषां मनसि विकृते सति रत्नराश्यादिकं सर्वं नश्यति तत्प्रसादे सति पुनः सर्वं भवतीति भावः । अनेनागाम्यृषिकुमारपात्रसूचनं क्रियते तदुक्तम् "नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि वा" इति । पश्येत्यामंत्रणे लोट् । यदिति । वर्णेभ्यो ब्राह्मणाद्याश्रमेभ्यः । "वर्णो द्विजादौ शुक्लादौ स्तुतौ" इत्यमरः । यत्फलं षष्ठांशादिकमुत्तिष्ठत्युदेति नृपाणां सर्वाश्रमरक्षकाणां राज्ञां तत्फलं क्षयि व्ययादिना क्षयशीलं अनेन नगरं प्रति स्वस्यानागमने सति ब्राह्मणादिचतुराश्रमरक्षाभावाद्रत्नादिवस्तुक्षताव


११
 
  1. णं भवं राआ ( ननु भवाम् राजा । राजा--ततः किम् । इत्यधिकं क्व० पु० ।
  2. आरण्णआ ( आरण्यका ) इत्यधिकं क्व० पु० ।