पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १६२ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


( नेपथ्ये )

हन्त, सिद्धार्थं स्वः ।
 राजा-( कर्णं दत्त्वा ) अये, धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।

( प्रविश्य )

 दौवारिकः-जेदु भट्टा। एदे दुवे इसिकुमारआ पडिहारभूमिं उवट्टिदा। [जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ ]
 राजा-तेन ह्यविलम्बितं प्रवेशय तौ ।
 दौवारिकः-एसो पवेसेमि। { इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य ) इदो इदो भवंन्ता । [एष प्रवेशयामि । इत इतो भवन्तौ]

( उभौ राजानं विलोकयतः )

 प्रथमः-अहो, दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः। अथवोपपन्नमेतदृषिभ्यो नातिभिन्ने राजनि । कुतः ।


कालंकारः । “ चिन्तय’ इत्यादिनैतदन्तेन विलासो नामाङ्गमुपक्षिप्तम् ।तल्लक्षणं तु- विलासः संगमार्थस्तु व्यपारः परिकीर्तितः ’ इति । हन्तेति हर्षे! ‘ हन्त हर्षेऽनुकम्पायाम् ' इत्यमरः । सिद्वार्यो निष्पन्नप्रयोजनो राज्ञो दर्शनेनैव । जयतु भर्ता । एतौ द्वौ ऋषेिकुमारौ प्रतीहारभूमिं द्वार स्थानमुपास्थतौ ? ‘ स्त्री द्वाद्वौरं प्रतीहारः ? इत्यमरः ! “ भूमिः स्यात्स्याकमात्रले ’ इतेि विश्वः । एष प्रवेशयामै | इत इतो भवन्तो । अहो इत्या


यत्रैव स्थित्वा गपोधनानां तपोरक्षा कर्तव्येति द्योत्यते । तेन नागम्मृषिकुमारत्र व्रजलस्यावश्यकर्तव्यत्वं सूचितमित्यवगंतव्यम्। आरण्यकास्तापसाः ! नः अस्माकं तपष्ष्ड्भागं तापसः षष्टांशसुकृतविषेषम् अक्षय्यम् अप्रत्यक्षत्वाप्ययादेरशक्यतया नाशरहितं ददतेि प्रयच्छति । अनेन राजैव दुर्विनीतानां शिक्षकः तादृशेन राज्ञा मया वलादाहरणादिं रूपान्याय्यादिकं कथं कर्तुं युक्तं सैव स्वयमेवाभिसरणं करोति चेत्परिगृह्यत इति विदूषकं प्रति सूचितमिति द्योत्यते । नेपथ्य इत्यादि । हृन्त हर्षे ‘‘ हन्त हर्षेऽनुकंपायां वक्यारंभविषादयोः ” इत्यभिधानात् । सिद्धार्थौ स्वः कृतार्थो भवावः । ऋषिकुमारयोः कृतार्थत्वं राजवस्थानसिध्देरित्यभिप्रायः । अये इति जिज्ञासायां धीरप्रशान्तखरः खरस्य वीरत्वं तपोविशेषप्रभावाद्राजादिभिः पुरस्कार्यत्वं प्रशांतत्यमहंकारराहित्यम् अहो इत्यादि ।


२ भअवन्तो(भगवन्तौ)इ।पा।

१ अअं ( अयं ) इ० पी० । २ भअवन्तो ( भगवन्तौ ) ३० पा० ।