पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः

अथ विष्कम्भकः

( ततः प्रविशति कुशानादाय यजमानशिष्यः )

 शिष्यः- अहो महानुभाव: पार्थिवो दुष्यन्तः। प्रविष्टमात्र एवाश्रमं तत्रभवति राजनि निरुपद्रवानि नः कर्माणि प्रवृत्त्तानि भवंति ।

का कथा बाणसंधाने ज्याशब्देनैव दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥ १ ॥

 यावदिमान्वेदिसंस्तरणार्थ दर्भानृत्विग्भ्य उपनयामि । (परिक्रम्यावलोक्य च आकाशे) प्रियंवदे, कस्येदमुशीरानुलेपनं मृणालवन्ति


महाननुभावः प्रभावो यस्य सः ।‘अनुभावः प्रभावेऽपि' इत्यमरः । प्रविष्टेति । तत्रभवति पूज्ये । अत्र राक्षसनिराकरणे कारणे वक्तव्ये कार्यरूपकर्मनिरुपद्रवतोक्तेः पर्यायोक्तालंकारः । का कथेति । बाणसंधाने का कथा । शरसंधानं नापेक्षत इत्यर्थः । स धनुषो ज्याशब्देनैव विघ्नान्दूरतोऽपोहति निराकरोति केनेव । हुंकारेणेवेति । एकदेशविवर्तिन्युपमा । तेन राज्ञो गणपत्युपमानत्वं गम्यते । अथवा स ज्याशब्देनैव दूरतो विघ्नानपोहति । कथंभूतेनेव । धनुषो हुंकारेणैवेति । समासोक्तिगर्भोत्प्रेक्षा धनुश्वेतनत्वारोपात् । अनयानायासेन रिपुनिबर्हणं ध्वनितम् । अस्मिन्पक्षे धनुर्ज्याशब्दयोरर्थपौनरुक्त्यं परिहृतं भवति । आकाश इति ।


कविरिदानीं कथान्तरमारभमाणो वस्तुसंघटनाय विष्कंभं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रविशतीत्यादि। यजमानशिष्यः यजमानः कण्वस्तस्य शिष्यः । खलु यतो हेतोः तत्रभवति पूज्ये राजनि । आश्रमं धर्मारण्यम् । नः अस्माकम् कर्माणि उद्देश्यक्रियाः । निरुपप्लवानि निर्विघ्नानि ततो हेतेर्महानुभावः माहात्म्यवान्। अमानुषप्रभाव इति यावत् । अहो आश्चर्ये । महानुभावत्वं निर्विघ्नत्वं चाह - का कथेत्यादिना । हि यतः धनुषः ज्याशब्देन मौर्वीध्वनिना ज्याशब्दमुत्प्रेक्षते हुंकारेणेवेति । अनेन यज्ञकर्मसमाप्तिपर्यंतं राज्ञो जागरूकत्वं व्यज्यते । विघ्नान् कर्मोपप्लावकान् अपोहत्यपसारयति। बाणसन्धाने सति का कथा का वार्ता विघ्नानामिति शेषः । कर्मोपप्लावकवार्तैव न स्यादित्यर्थः। शिष्यः स्वाग


१ खळे इ० ५० ३ यशवि- इ० पा० । ३ निरुपलवनि ३० पा० ।

४ संवृत्तानि इ० पू० । ५ णार्थान् इ० पा- । ६ उपहरामि इ० पा० ।