पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २३१ )
टीकाद्वयसहितम्।


 अनसूया--गुणवदे कण्णआ पडिवादणिज्जे त्ति अमं दाव पढमो ' संकप्पो। तं जइ देव्वं एव्व संपादेदि में अप्पाआसेण किदत्थो गुरुअणो ।[ गुणवते कन्यका प्रतिपादनीयेत्ययं तावत् प्रथमः संकल्पः। तं यदि दैवमेव संपादयति नन्वप्रयासेन कृतार्थे गुरुजनः |]

 प्रियंवदा-( पुष्पभाजनं विलोक्य ) सहि, अवइदाई वंलिक स्मपज्जत्ताई कुसुमाइं । [ सखि, अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ]

 अनसूया–णं सहीए सउन्दलाए सोहग्गदेवआ अच्चणीआ । [ ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ॥]

 प्रियंवदा–जुज्जदि । [ युज्यते ।

( इति तदेव कर्मारभेते )

( नेपथ्ये )

अयमहं भोः ।

 अनसूया-(कैरीं दृत्त्वा | ) साहि, अदिधीणं विअ णिवेदिदं । [ साखि, अतिथीनामिव निवेदितम् ।


दण्डनाथः । कथमिव । गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमो मुख्यः संकल्पो मानसं कर्म । तद्य ( तं य ) दि दैवमेव संपादयति । नन्ववघारणे । अप्रयासेन प्रयासाभावेन कृतार्थो गुरुजनः। सखि, अवचितानि बलिकर्म पूजाकर्म तत्पर्याप्तानि कुसुमानि। ननु परमताक्षेपे । सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया । युज्यते । तदेव कुसुमाव -


सूचनमात्रत्वान्नीरसत्वेन विष्कंभत्वम् । बलिफकर्मपर्याप्तानि पूजाक्रियापरिपूर्णानि । सैौभाग्यदेवता यया देवतया अनुरूपवरसंघटना कृता सा देवता अर्चनीयेत्यर्थः। भोः


१ तादस्स ( तातस्य ) इत्यधिकं क्व० पु० ।। २ अप्पाअसेण ( अल्पायासेन ) इति क्व० पु० पाठः । ३ खु ( खलु ) इत्यधिकं क्व० पु° । ४ सहीए ( सख्याः ) इति क्व० पु० नास्ति । ५ आकर्ण्य इति क्व० पु• पाठः ।