पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
(२३४)
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।

दहिदुं पहवदि । [हा धिक्। अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुन्तला । न खलु यस्मिन्कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः। तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः। कोऽन्यो हुतवहाद्दग्धुं प्रभवति]
 अनसूया-गच्छ । पादेसु पणमिअ णिवत्तेहि णं जाव अहं अग्घोदअं उब[१]कप्पेमि । [गच्छ । पादयोः प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि]
 प्रियंवदा-तह [तथा]।(इति निष्क्रान्ता)
 अनसूया—(पदांतरे स्खलितं निरूप्य) अव्यो । [२]आवेअक्खलिदाए गईए पव्भटं मे[३] अग्गहत्थादो पुप्फभाअणं। (इति पुष्पो च्चयं रूपयति) [अह। आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम्]


न खलु यस्मिन्कस्मिन्नपि | एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः। कोऽन्यो हुतवहाइग्धुं प्रभवति । दृष्टान्तालंकारः। गच्छ । पादेषु प्रणम्य निवर्तयैनम् । पादेष्विति द्वितीयार्ये सप्तमी । यावदहमर्घोदकमुपकल्पयामि । तथेति निष्कान्ता । अव्वो इति दुःखे । 'अव्वो सूचनादुःखसंभाषण-' इत्यादिसूत्रेण निपातः । आवेगस्खालितया संभ्रमस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तापुष्पभाजनम् । अनेनापशकुनेन दुर्वाससोऽनिवृत्तिः सूचिता । अत्राग्रः स चासौ हस्तश्चेति सामानाधिकरणे विशेषणसमासेऽवयवावयविसंबन्धेन लक्षणा । उक्तं च वामनेन - ‘हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्' इति । अन्ये स्वग्रहस्त इत्यखण्ड एवायं शब्दो हस्ताग्रवाचक इत्याहुः । अपरे तु हस्तस्याप्रमित्येव विगृह्याग्रशब्दस्याहिताग्न्यादिपाठापूर्वनिपातमाहुः । इतरं तु प्रकृते पूर्वनिपातनियमाभावाद्ध


  1. गेण्हिह उपसप्पामेि (गृहीत्वोपसर्पामि ) इति क्व० पु० पा० ।
  2. अह्मो आवेअक्खलिआए मह (अहो आवेगस्खलिताया मम ) इति क्व० पु० पाठः।
  3. मे (मम) इति क्व० पु० नास्ति ।