पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २४१ )
टीकाद्वयसहितम्।


( प्रविश्यापैटीक्षेपेण । )

 अनसूया-जइ वि णाम विसअपरम्मुहस्स वि जणस्स एदं ण विदिअं तह वि तेण रण्णा सउन्दलाए अणजं आअरिदं ।


मात्रग्रहणम् । नूनं निश्चितम् । आतिमात्रमत्यर्थं सुदुःसहानि ? अतिमात्रसुशब्दौ दुःसहवस्याप्यशक्यानुष्ठानं बोधयतः । अत्र पूर्वार्ध नायकेऽन्तर्हिते नायिका दृष्टिं न नन्दयतीति नायकयोर्व्यवहारसमारो पात्समासोक्तिः । उत्तरार्धेन सामान्येन विशेष्यस्य समर्थनार्थान्तरन्यासः । इष्टेति जानिजनेति मतिमात्रेति छेकवृत्त्तिश्रुत्यनुप्रासाः । काव्यलिङ्गं च । वृत्तमनन्तरोक्तमेव । अथ च कौ पृथिव्यां मुद्वती हर्षयुक्त्वा सैव पूर्वं दृष्टा शकुन्तला शशिनीति दुष्यन्ते विषयनिगरणात्तद्वंशोद्वाहान्तर्हितेऽसंनिहिते इत्यादि पूर्वार्ध सर्वं योज्यम् । तेनास्या राजगृहं प्रति प्रस्थापनसूचकं तृतीयं पताकास्थानमुपाक्षिप्तम् । तल्लक्षणमुक्तं मातृगुप्ताचायैः-‘अर्थोपक्षेपणं यत्र न गूढं सविनं भवेत् । श्लिष्टा प्रत्युत्तरोपेतं तृतीयं तन्मतं तथा ॥ ' इति । शिष्येतार्थान्तरन्यासश्रवणान्तरं प्रबुद्धः सख्या अनसूयायाया अपटक्षेपेण प्रवेशः ‘ नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि च' इयुक्तेः । अपणी जबानका । ‘अपनी काण्ड-


यशोभा अवर्थ चिन्तनीयप्रभा संकेचवतया वतशोभेति यावत् । डटिं रम्यपदार्थसाफल्यहेतुमिंद्रियं न नन्दयति न प्रीणयति । वर्तमानत्रप्रयोगेण कुमुद्वत्याः सुभगसुभगस्वयोरव्यवधानं व्यज्यते । चंद्रास्तमयानंतरक्षण एवेति भावः । दृष्टिमित्येकवचनेन बीतशोभतया पुनस्तदीयदर्शनवैमुख्यं व्यज्यते । इष्टप्रवासेल्यधृतरन्यासः । अबलाजनस्य स्त्रीजनस्य इष्टप्रवासजनितानि प्रियविरहजनितनि दुःखानि विरहपरंपराजनितकार्श्यवेवर्ण्यादीनि अतिमात्रसुदुःसहानि अतिमात्रं प्रमाणाधिकं सुतरामविपह्याणि मरणान्तफलानीति यावत् । तेन स्ंर्तिगुणगुणेद्गदिमदनदशाभेदः सूच्यन्ते । यैन विना न जीव्यते तत्रैवेष्टशब्दप्रयोगः क्रियत इति महाकवनां संकेतः । नूनमिति संभावनायाम् । दुःखानीति बहुवचनेन विरहपरंपराजनित सौंकायलसतादिविविधदुःखानुभवः सूच्यते । तेन च स्तंभप्रलयादिभावाः सूचिताः । अवलाजनस्येत्यनेनानन्यगत्या विरहदुःखासहिष्णुतायां पराकाष्ठा सूचिता । पुरुषस्य बहुवल्लभताया युतत्वान्न तथा दुःखानुभव इति भावः । अनेन चन्द्रस्तमयात्कुमुद्वत्वा निष्प्रभत्वकथनेन शकुन्तलाया अपि दुष्यन्तविश्लेषजनितबहुदुःखानुभवोऽस्तीति सूच्यते । प्रविश्येत्यादि। पटक्षेपेण यवनिका-


१ पटक्षेपेण इति क० पु० पाठः। २ एव्वं (एवं)इति कo पु• पाठः । ३ जंठहाविहारेण

(यतथाविधेन ) इति क० पु० पाठः । ४ अण्णों ( अन्याय्यं ) इति कः पु• पाठः ।