पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २६१ )
टीकाद्वयसहितम्।


( आकाशे )

रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः
शान्तानुकूल पवनश्च शिवश्च पन्थाः ॥ ११ ॥


रीदृशं प्रत्यक्षतोऽनुभूयमानं प्रतिवचनीकृतं विरुतस्य प्रतिवचनेन रूपणे प्रतिरूपयोगात्परिणामः । एवं पूर्वत्रापि । अनुप्रासश्च अपरवक्त्रं वृत्तम् । रम्यान्तर इति । कमलिनीभिर्हरितैः श्यामलैरिति तद्गुणालंकारः । अनेन कमलिनीव्याप्तवं ध्वन्यते कमलिनीशब्देन कमलसंयोगोऽपि । अत एव न विसिन्यादिपदप्रयोगः । एतादृशैः सरोभी रम्याण्यन्तराणी मध्यानि यस्य सः । एतेन कोमलाङ्ग्यास्तन्व्याः कदाचनादृष्ट- शरण (?) स्तृषादिपीडाभावो ध्वन्यते । सरोभिरिति बहुवचनेन प्रतिपदं सरसः सत्त्वं सूचितम् छायाप्रधाना दुमास्तैः । तरुमात्रे णार्कतापनिरासः कर्तुं न शक्यत इति छायाप्रधानत्वविशेषणं वहुवचनमपि । तेन विश्रान्तिस्थलसत्त्वं व्यज्यते । विशेषणप्रक्रमभ ङ्गश्च निरस्तः । नियमितो निषिद्धोऽर्कस्य मयूखा दीप्तयस्तासां तापो यत्र सः “ मयूखस्त्विट् करज्वालासु ’ इत्यमरः । अत्रार्कस्य दीप्त्यविनाभा वेऽपि पुनर्दीप्तिग्रहणेन मध्याह्नस्था दीप्तिर्लक्ष्यते । तापाधिक्यं फलम् । अर्कमरीचितापसः? इति पाठे उष्णमरीचिः ’ इति पठनीयम् । अनेन पूर्वव्यङ्ग्यसहकृतो गमने दुःखाभावो व्यज्यते । कुशेशयस्याम्बुजस्य रजो वन्मृदू रेणुर्यत्र सः । अनेन चरणानुपघातो व्यज्यते । शान्तो मन्दोऽनुकूलः पवनो यत्र सः । अत एव शिवः शुभः पन्था अस्या भूयात् । अत्रै कश्चकारो विशेषणानां समुच्चये द्वितीयस्त्वनुपपन्नः । शिवश्चेत्यस्य समु च्चये भविष्यतीति चेत्तर्हि पूर्वविशेषणचतुष्टयेऽपि चकार उपादातव्यः स्यान्न चोपात्तः । तेनायमर्थः | शान्तोऽनुकूलश्चासौ पवनश्च स पन्थाश्च


यथा शब्द इवार्थकः प्रतिवचनीकृतमिवेति यावत् । रम्यांतर इत्यादि । रम्यांतरः उपभोग्यांतरालः छायाद्रुमैः च्छायाप्रधानैर्वृक्षैः शांतो मन्दः अनुकूलो गमनानुवर्ती पवनःयत्र स तथोक्तः । कुशेशयानां शतपत्राणां रजांसीव मृदुरेणवो यस्मिन् स तथोक्तः ।


१ भरितैः इति क्व० पु० पाठः।