पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २७१ )
टीकाद्वयसहितम्।

अङ्कः ४] टीकाद्वयसहितम् । (२७१)

काश्यपः‌-‌- अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतःपरं न खलु तद्वाच्यं वधूवन्धुभिः ॥ १७ ॥

अर्थान्तरन्यासः । अस्मानिति । संयम एव धनं येषां तानस्मान्साधुसम्यक्तया विचिन्त्य । मुन्यादिपदत्यागेन संयमधनपदग्रहणभङ्गीकारान- ङ्गीकारयोर्भयानुग्रहौ दर्शयति । आत्मन उच्चैः कुलम् । साधु विचिन्त्ये- त्यनुषज्यते । तादृशकुलोत्पन्नस्यालीकप्रतारणादिसंभावना नास्तीति भावः। अस्यास्त्वयि ज्ञां स्नेहप्रवृत्तिं स्नेहप्रवाहम् । आधिक्यमिति यावत् । साधु विचिन्त्येत्यनुषज्यते । । प्रवृतिः कथिता वृत्तौ प्रवाहोदन्तयोरपि ' इति विश्वः । तेनात्र कारकक्रियादीपकम् । तामित्ति सर्वनाम्ना पूर्वकविरहे तत्तत्कामाद्यवस्थापिनुभवनम् (?) ततः समागमजानन्दाम्बुधि- मज्जनादि व्यज्यते । एतद्वयङ्ग्यावकाशदानाय प्रवृत्तिपदम् । अस्यास्त्वयीत्यनेन भवद्दर्शनमारभ्य प्रतिक्षणोपचीयमानरागसागरत्वं ध्व- नितम् । अत एव तवास्यार्मिति नोक्तम् । यद्यपि नायकयोः परस्परानुराग-

कुमुमसदृशं प्राणम्" इत्यादौ । अस्मानित्यादि । अस्मानिति बहुवचनेन पुत्रीभूत- शकुन्तलायाः अनायासेनानुरूपवरप्राप्त्या स्वस्य कृतार्थता सूच्यते । तेन राजकृतगांधर्व- विवाहं प्रति स्वस्य हर्षजनितप्रीतिश्च प्रकाश्यते । तर्हि सर्वत्र कन्यकाया वर्णानुरूपवरः किंदुर्लभ इत्यत आह-संयमधनानिति । संयमधनान् तपोधनानित्यनेन स्वस्य सार्वका- लिकात्मस्वरूपमननपरत्वादरण्यवासित्वाच्चानुरूपवरविचारार्थे नानादेशभ्रमणासामर्थ्ये व्यज्यते । किंच संयमधनानित्यनेनास्मदसंनिधानेऽपि त्वत्कृतगांधर्वविवाहादिवृत्तान्तस्त- पोमहिम्ना ज्ञात इत्यपि ज्ञाप्यते । साधु विचित्य । यद्यपि राज्ञः सार्वकालिकराज्यपरिपालन- रतंत्रता तथाप्यस्मदनुरोधेन क्षणमात्रं समवधाय सम्यग्विशेषेण चिंतयित्वा । संयमध- नानित्यनेन स्वस्य राजनिमित्तकधनवस्त्रादिनैरपेक्ष्यं ज्ञाप्यते किंतु राज्ञ एव तपोधनानु- ग्रहापेक्षेति भावः । अनेन स्वाश्रमपरिपोषितशकुन्तलायाः तादृड्नागरिकजनसहवासा- भावात् कैतवानभिज्ञतया सौशील्यादिगुणाः प्रकाश्यन्ते । गांधर्वविवाहं प्रति स्वकृतानु- ज्ञायां हेतुमाह-उच्चैः कुलमित्यादि। आत्मनः स्वस्य वचैः कुलं वंशोमतिं साधु विचिन्त्य स्वाभिजात्यकलंकभूतपरदाराभिमर्शनकृतम्नतादिविरहितं कुलं सम्यक् गणयित्वा आत्मन इत्येकवचनेन कुलाभिजात्यादावद्वितीयत्वं राज्ञः सूच्यते ।