सख्यौ-( शकुन्तलां विलोक्य ) हद्धी, हद्धी। अन्तलिहदा
सेउन्दला वणराईए । हा धिक्, हा धिक् । अन्तर्हिता शकुन्तला वनराज्या
काश्यपः--( सनिःश्वासम् ) अनसूये, गतवती वां सहधर्मचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् ।
उभे-ताद, सउन्दलाविरहिदं सुण्णं विअ तवोवणं कहं पवि
सामो । [ तात, शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः ।
काश्यपः-स्नेहप्रवृत्तिरेवंदर्शिनी । ( सविमर्शं परिक्रम्य ) हन्त भोः शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः ।
अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिप्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पतन्यास इवान्तरात्मा॥२२॥
( इति निष्क्रान्ताः सर्वे )
इतेि चतुर्थोऽङ्कः ।
इति विश्वः । काव्यालिङ्गानुप्रासौ । हा धिक्, हा धिक्। अन्तर्हिता शकुन्तला वनराज्या । तात, शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशामः । कण्वप्रवेशानन्तरमेतदन्तेन करुणो रसो ध्वनितः । तल्लक्षणं तु -'इष्टवन्धुवियोगश्च स्त्रीनाशो वधबन्धने । विभावाः संमताः पुंसामुत्तमानां पराश्रिताः । मध्यमाधमपुंसां तु ते स्युरात्मैकगोचराः | अश्रुपातो मुखे शोषो विलापः परिदेवनम् । स्तम्भो विवर्णता स्रस्तगात्रता प्रलयस्तथा । यत्र संचारिणः स्थायी शोकः स करुणो मतः ॥' इतेि । अर्थ इति । हि निश्चितं कन्यार्थः परकीय एव ! उत्पत्यनन्तरमेव परकीयत्वेन ज्ञात इत्यर्थः । अद्य परिग्रहीतुः परिणेतुस्तां संप्रेष्य ममाय
नु जिज्ञासायाम् । हा धिक् हाधिगिति निर्वेदे । सविमर्शं सविचारम् । हन्त हर्षे । भो इत्यामंत्रणे । स्वास्थ्यमव्याकुलत्वम् । कुतः कस्मात् । अर्थो हीत्यादि । कन्या परकीय एव अर्थः परस्यैव धनम् । हिः प्रसिद्धौ । अनेन सर्ववर्णसंमतिरुक्ता । तां
१ पिअसही ( प्रियसख ) इत्याधिकं कं० पु० ।