पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३०१ )
टीकाद्वयसहितम्।


( ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः पुरश्वषां कंचुकी पुरोहितश्च )

कंचुकी–इत इतो भवन्तः ।

शार्ङ्गरवः--शारद्वत,

महाभागः कामं नरपतिरभिन्नस्थितिरहो
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥ १० ॥


ऋषयो देवं सभाजयितुमागता इति तर्कयामि । महाभाग इति । न भिन्ना त्यक्ता स्थितिर्मर्यादा येन स नरपतिः । काममतिशयेन महाभागः श्रेष्ठ इतेि विधेयम् । अहो इत्याश्चर्ये । वर्णानां ब्राह्मणानां मध्येऽपकृष्टो हीनोऽपि कश्चिदपथममार्गं न भजते । 'अपथं नपुंसकम् ' इति नपुंसकत्वम् । इति यद्यपि तथापीदं जनाकीर्णं जनव्याप्तं स्थानं शश्वन्निरन्तरं परिचितं विविक्तं विजनस्थानं यस्य तेन मनसोपलक्षितोऽहं मनसा हेतुना वा हुतवहपरीतं गृहमिव मन्ये । अत्र पूर्वार्धे यत्कारणमुक्तं विजनस्य तत्सम्यक्त्वं कार्यं तदभावस्तद्विरुद्धमुखेनोक्त इति [ वि } शेषोक्तिः । अथ च यदग्निपरीतत्वं कार्यं तत्कारणाभावस्य तद्विरुद्धमतेन पूर्वार्धं उक्तेन विभावना । उभे अप्युक्तनिमित्त्ते शश्वत्पारचितेत्याद्युक्तेः । साधकबाधकप्रमाणाभावात्संदेहसंकरः--‘ मन्ये शङ्के ध्रुव ( वं) प्रायो