पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३१६ )
टीकाद्वयसहितम्।


राजा-किं चात्रभवती मया परिणीतपूर्वा ।

शकुन्तला--( सविषादम् । आत्मगतम् ) हिअअ संपदं दे आसङ्गा । [ हृदय, सांप्रतं त आशङ्का ]

शार्ङ्गरव-- किं कृतकार्यद्वेषो धर्मे प्रति विमुखता कृतवज्ञा ।

राजा–कुतोऽयमसंत्कल्पनाप्रश्नः ।।

हृदय, सांप्रतं त आशङ्का । किमिति । कृतं यत्कार्यं गान्धर्वो विवाहस्तत्र द्वेष:किम् । धर्मं प्रति विमुखता किम् । कृते विदितेऽनुभूतेऽवज्ञा किम् । यावदनुभूतं तावदेव तद्दुर्लभमिति भावः । “ कृतं युगेऽपि पर्याप्ते विहिते इति विश्वः । असत्कल्पनामुत्तरार्धेन निरस्यति--ऐश्वर्यमत्तेषु संपदुद्धतेषु


एकग्रहणेन पितृगृहे काचित्कावस्थानं न दुष्टमिति एव व्यज्यते । तर्हि किं रूपभर्तृमत्या एवं पितृहावस्थानं शंकास्पदमित्याशंक्याह-भर्तुमतमिपीति । नवसाफल्यहेतुभूत संभाषणालिंगनचुंबनसंभोगगभोर्पत्यादिकारणभूतभर्तृमतीमपि । मतुप् प्रत्ययेन प्रशस्ततरकान्तवतीत्वं सूच्यते । जनः बन्धुशत्रुमप्यस्थभूतर्लोकः न तु शत्रुमात्रजन: अन्यथा अन्यप्रकारेण । असतीमिति यावत् । विशंकते । यद्यपि अनुपभर्तृमतीत्वम्। तथापि सार्वकालिकपितृगृहावस्थानादसतीति विशेषेण तर्कयति । वर्तमानव्यपदेशेन सकलजनसंवाद उक्तः । अतः कारणात् प्रमदा युवतिः न तु वृध्दा। स्वबन्धुभिः स्वस्यहितैषिभिरप्ततमैः परिणेतुः भर्तुः समीपे इष्यते वांछयते । सहधर्मचारिणी भूत्वा तया भर्तुसमीपस्थया भाव्यमिति वांछयत इति यावत् । तर्हि भर्तुरप्रिया चेत् किं कर्तव्यमित्यत आह-तदश्रियापीति । तस्य भर्तुरप्रियापि अनिष्टापीत्यर्थः । आत्मगत मित्यादि । आतंको भयम्। किमित्यादि । कृते निर्वर्तिते कार्ये शकुन्तलापरिणयव्यापारे

द्वेषः असहनत्वम् । किमिति प्रश्ने । “ सप्रत्यवायदुर्लभनिषेधविषयश्च यो विषयः । कामः स्वभाववामः प्रसरति तत्रैव दुर्वार: । ” इति न्यायेन तात्कालिकसुखार्थं 

यात्किंचित् तत्किमर्थमान्तमनुष्ठेयमिति स्वप्रयोजने निवृत्ते सति तत्र गुणाभावात् जुगुप्सया द्वेषः किमीति भावः । धर्मं प्रति विमुखता वैमुख्यम् । किमिति प्रश्ने । विध्युक्तगान्धर्वविवाहेन धर्मप्रजार्थं परिणीय तत्परित्यागेन नाद्यप्रभृति तत्रधर्मेच्छा नास्ति किमिति यावत् । अवज्ञा अवधीरणा कृता किम्। एते तपस्विन:राज्ञा इत्यवमानना कृता किमित्यर्थः। कुतः कस्मात्कारणात् ।

असत्कल्पनाप्रश्नः असतः अविद्यमानार्थस्य कल्पना संपादनेन कृतः प्रश्नः ।

१ जुतं दे आढकं आस ( युक्तं ते आक्र आसीत् ) इति क०मु० पाठः ।