पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४४

पुटमेतत् सुपुष्टितम्
अङ्कः ५]
( ३३१ )
टीकाद्वयसहितम्।
राजा--किं[१] च ।
पुरोहितः--
स्त्रीसंस्थानं चाप्सरस्तीर्थमारा-
दुत्क्षि[२]प्यैनां ज्योतिरेकं जगा[३]म ॥ ३० ॥

( सर्वे विस्मयं रूपयन्ति )

राजा--भगवन्, प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं

वृथा तर्केणा[४]न्विष्यते । विश्राम्यतु भवान् ।

पुरोहितः--( विलोक्य ) विजयस्व । ( इति निष्क्रान्तः )
राजा--वेत्रवति, पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी--इदो । इदो देवो । ( इति प्रस्थि[५]ता ) [ इत इतो देवः]

राजा पृच्छति--'किं च' इति । स्त्रीति । स्त्रीसंस्थानं ललनाकारम् । तेजोरूपत्वेन स्पष्टमदृश्यमानमत एव संस्थानशब्दप्रयोगः । देवेन नीतापि स्त्र्याकारेणैवेति परपुरुषासंस्पर्शित्वं ध्वनितम् । एकं केवलं ज्योतिरेनामारादुत्क्षिप्याप्सरस्तीर्थं शचीतीर्थं जगामेति संबन्धः । क्रिययोः समुच्चितत्वात्समुच्चयालंकारः । हेत्वनुप्रासौ च । शालिनी वृत्तम् । ‘नेपथ्ये’ इत्याद्येतदन्तेन शक्तिर्नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- 'विरोधप्रशमो यस्तु सा शक्तिरिति कीर्तिता' इति । अनेनाद्भुतरसोऽपि ध्वनितः । तल्लक्षणम्--'दुर्लभाभीष्टसंप्राप्तिः खेचराणां विलोकनम् । एते यत्र विभावाः स्युरनुसंचारिणस्त्वमी । स्तम्भः स्वेदश्च रोमाञ्चः प्रलयो गद्गदं वचः । आवेगसंभ्रमौ जाड्यमिति यत्राथ विस्मयः ॥ स्थायी तमद्भुतं प्राह' इति । पर्याकुलत्वं शापावसानस्य नैकट्यात् । इत इतो देवः ।


आरादन्तिके आक्षिप्यादाय । शयनभूमिमार्गमादेशय आदर्शय अनेन सर्वकार्यानुत्साह


  1. किं ततस्ततः इति क्व० पु० पाठः ।
  2. आक्षिप्य इति क्वo पु० पाठः ।
  3. तिरोऽभूत् इति क्व० पु० पाठः ।
  4. आकृष्यते इति क्व० पु० पाठः ।
  5. ( परिक्रामति ) इति क्व० पु० पाठः ।