पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( २१ )
टीकाद्वयसहितम्।


 सूत्रधारः - आर्ये, अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथित-वस्तुनाभिज्ञानशाकुन्तलनामधेयेन नवेन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।


'शौरसेन्याम्' इत्यनुवर्तमाने 'न वार्यो य्यः' इति यादेशविधानात् । इयमिति संस्कृतसमम् । 'अस्तेः' इत्यनुवर्तमाने 'मिमोमौर्ह्मिह्मोह्मा वा'इति अस्मीत्यस्य ह्मीत्यादेशः । इत्थमग्रेऽप्यनुसर्तव्यम् । प्रतिपदं लिख्यमानं गौरवमवहतीति विरम्यते | विशेष एव क्वचित्काश्चिद्वक्ष्यते एतदनन्तरं नवीने क्वचित्पुस्तके "आणवेदु अज्जो को णिओओ अणुचिद्वीअदुत्ति" इति पाठः पुराणपुस्तकेष्वभावात्प्रयोजनाभावाच्चोपेदक्ष्यः । 'रङ्गं प्रसाध्य (द्य) मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ।। भारतीसंस्कृतप्रायो वाग्व्यापारो जनाश्रयः । भेदैः प्ररोचनायुक्तैर्वीथींप्रहसनामुखैः।।' इतेि घनिकोणेर्भारतीवृत्तेः प्ररोचनालक्षणमङ्गमुपक्षेपति-“ आर्ये, अभिरूपभूयिष्ठा' इत्यादिना ‘रमणीयाः इत्यन्तेन ‘विस्तरादुत संक्षेपाद्विदधीत प्ररोचनाम्' इति रसार्णव-


इति त्रिविधम् । महाराष्ट्रादिदेशभाषाप्रकृतेः संस्कृतादागतेत्यर्थः । तचच् संस्कृतं त्रिविधं श्रोतमार्षं लौकिकं चेति । श्रौतं द्विविधं मंत्रो ब्राह्मणं चेति । आर्षं द्विविधम् स्मृतिः पुराणं च । लौकिकं द्विविधं । काव्यं शास्त्रं च । तथैत्र प्राकृतमपि त्रिविधं सहजं लक्षितं क्लिष्टं चेति । सहजं द्विविधं संस्कृतसमं देश्यं च । लक्षितं द्विविधं महाराष्ट्रं शौरसेनं च। म्लिष्टं च द्विविधं पैशाचं मागधं च। अपभ्रंशास्त्रिधा उत्तमो मध्यमः कनेिष्टश्चेति । सूत्रधारस्तु सहृदयाः सर्वे मिलिता अभिनयस्य विलम्बो न युज्यत इत्येतन्मनसि निधाय वदति । अभिरूपभूयिष्ठेत्यादिना । अत्र रूपशब्देन नाटकादिरूपकभेदाः सूच्यन्ते । तान्यभितो व्याप्य रसभावादिकं सर्वामभि संबध्य ज्ञानं ज्ञायते तदभिरूपमित्युच्यते । तेन ज्ञानेन भूयिष्ठा प्रचुरा तादृशज्ञानातिशयवतीत्यर्थः । रूपशब्देन रूपकाणि कथं सूच्यंत इति नाशंकनीयम् – “नाटकार्थानुकरणं नाट्यं स्याद्रूपकं च यत् । अनुकार्यानुकार्योऽस्तु तादात्म्यं मुखचंद्रवत् । तदेव दृश्यतायोगाद्रूपं नीलादिरूपवत् । नाट्यं रूपं रूपकं चेत्यस्य संज्ञात्रयं ततः ॥" इति भरतेनोक्तत्वात् । अनेन सभ्यानां नाट्यतत्ववेतृत्वकथनेन प्रकृतनाटकाभिज्ञत्वमप्येतेषामेवास्तीति नाट्यस्यावश्यं प्रयोक्तव्यता ध्वन्यते । चत्वारो वेदधर्मज्ञा परिषत् इत्युक्तत्वात् परिषत्पदेन सामाजिकानां वेदशास्त्रपरिज्ञातृत्वकथनेन पक्षपातराहित्येन गुणग्राहित्वमेवेति व्यज्यते । अनेन तेषां प्रामाण्ये पराकाष्ठा सूचिता । तदुक्तम् - संगीतशास्त्रकुशला रक्षिका गुणवत्सलाः । रागद्वेषवि.