पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३५१ )
टीकाद्वयसहितम्।


 उभे-सुदं रट्टिअमुद्दादो जाव अङ्गुलीअअदंसणं । [श्रुतं राष्ट्रि- यसुखाद्यावदङलीयकदर्शनम् ।

 कंचुकी--(आत्मगतम् ) तेन ह्यल्पं कथयितव्यस् ।(प्रकाशम्) चदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यसूदढप्रुर्वा मे तत्र भवती रहसि शकुन्तला मोहात्प्रत्यदिष्टोति तदाप्रभृत्येव पश्चात्ता पमुपगतो देवः । तथाहि ।

 रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
  शय्याप्रान्ताविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
 दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
  गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ ५ ॥


द्यावदङुलीयकदर्शनम् । म इति मया । तथा च वामन --'तेमेशब्दौ निपातौ त्वयामयेत्यर्थे ’ इति । यंदैव स्मृतं देवेन तदाप्रभृतीत्यन्वयः । रम्यमिति । रम्यं स्रक्चन्दनचन्द्रपादादेकं द्वेष्टि । 'चक्षुपापि न पश्यतीत्यर्थः । ‘ यावद्रम्यमुज्ज्वलं च ' इत्युक्तेः । प्रकृतिभिर मात्यैः पुरा पूर्वं यथा तथा न सेव्यते । पूर्वं तु कार्यपेक्षितया धुना स्वपतरापेक्षमित्यर्थः । पूर्वं ग्रत्यहमधुना न [ तथा ] । यथापूर्व ग्रत्यत्यहमित्युभयं विधेयम् । शय्यानाम् । न शय्यायाः । प्रान्तेषु । न मध्ये । यानि विवर्तनानि परिलुण्ठनाने । न स्वापः । तैरुन्निद्रो गतनिद्र एवेति पूर्वत्र हेतुत्वेन योज्यम् । क्षपा निशाः । न तु निशाम् । विगम यतीति विरुद्धं यथा स्यात्तथातिवाहयति । न तु गच्छति (?) । यद न्तः पुरेभ्यो देवाभ्यो दाक्षिण्येनात्यन्तानुरोधेन । ' दाक्षिण्यं नाम बिम्बोष्ठि वैम्विकानां कुलव्रतम् ’ इत्युक्तेः । एतेनात्यावश्यकत्वम् ध्वनि तम् । उचितामित्यवश्यापेक्षणीयत्वं ध्वनितम् । ईदृशं वाचं ददाति ।


लोकापवादः । रम्यमित्यादि । रम्यं नृत्तगीतप्तक्यंदनवनितादित्रभ्राम्यधार्योप भोगार्हखभावमनोहरं वस्तु । एकवचनेन राज्ञस्तद्विषयद्वेष्यभावपराकाष्ठा सूच्यते । द्वेष्टि विरहपरंपराजनितदुःखानुभवात् दुःखिते मनसि सर्वमसह्यमिति न्यायेन तस्य विपरात् बुद्धिजनकतया न सहते । रम्यवस्तुविद्वेषेण विषयनिवृत्तिर्व्यज्यते । तथा च निर्वेदः । अनेन उद्वेगो नाम दशा कथिता। तदुक्तं “ मनसः कंप उद्वेगो कथितस्तत्र विक्रिया । चित्तसंतापनिश्वासौ द्वेषः सर्वत्र वस्तुषु ॥ " इतेि । यथापुरं पूर्वं यथा तथा प्रकृतिभिर