पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९३

पुटपरिशीलयितुं काचित् समस्या अस्ति
( ३८० )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 गजा---एवं भोः, न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति ।

  अक्लिष्टबालतरुपल्लव लोभनीयं
   पीतं मया सदयमेव रतोत्सवेषु ।
  बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियाया-
   स्त्वां कारयामि कमलोदरबन्धनस्थम् ॥ २० ॥ ।


विदूषकवचनं सोल्लुण्ठमेव । राज्ञोऽपि पूर्ववदेव । शासन आज्ञायाम् । अक्लिष्टेति । अक्लिष्टः केनापि नः मृदितो बालो नूतनस्तरोः पल्लवस्तद्व- ल्लोभनीयं सुन्दरम् । अत्र तात्स्थ्यं वक्तुं तरुपदोपादानम् । यद्वा बालो यस्तरुस्तस्य पल्लवः । अक्लिष्टश्चासौ बालतरुपल्लवश्चेति । एतेन कोमल- त्वलौहित्यातिशयो व्यज्यते । प्रियाया बिम्बाधरं बिम्बसदृशमधरमिति मध्यमपदलोपी समासः । तथा च वामनः—‘ विम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ’ इति । रतोत्सवेषु तया सह रतमुत्सवरूपमित्यर्थः । तेषु मयोत्कण्ठातिशयवतापि सदयं स्वादंस्वादं च पीतं न तु निर्दयं तद्दष्टम् । तेनातिकोमलत्वं ध्वनितम् । अथ च पीतमप्यक्लिष्टबालतरुपल्ल- वलोभनीयमिति विधेयं विशेषणं तेन भ्रमरस्य स्पर्शेऽपि हेतुत्वं तेन भ्रान्तिमानलंकारो व्यज्यते । हे भ्रमर, त्वं चेत्तं स्पृशसि तदा कमल- स्योदरे बन्धनस्थं त्वां कारयामेि । अनेन सूर्यस्यापि निजाज्ञाकारित्वं ध्वन्यते स्वाभाविकस्य तस्य स्वप्रयोजकत्वव्यापारेणोक्तेरातिशयोक्तिश्च । प्रतिनायकव्यवहारसमारोपात्समासोक्तिः । उन्मत्तावस्थावर्णनादनौ- चित्यं न । कमलोदरे जलमध्ये बन्धनस्थमिति श्लेषोऽपि हेतुरूपकोपमा-


एवमित्यादि । एवं मृदुमार्गेण शासनमाज्ञां नानुतिष्ठसि संप्रति श्रूयतां तीक्ष्णशासनमेव भविष्यतीत्यर्थः । तदेवाह-अक्लिष्टेत्यादिना । अक्लिष्टबालतरुपल्लवलोभनीयम् । अनुपहतबालतरुपल्लवस्पृहणीयम् । विम्बाधरं रतोत्सवेषु बहुवचनेन मनोरथकल्पितबहु- विधक्रीडाः सूच्यन्ते । अन्तःकरणबाह्यकरणव्यापाररोधिसुखदशायामपीति भावः । सदय- मेव सुकुमारवस्तुनो दयाविषयत्वात् दयासहितमेव । हे भ्रमर सौरभमधुवस्त्वेक- रसिक त्वां तादृग्विधम् । कमलोदरबन्धनस्थं शकुन्तलामुखसौरभादिगुणहीनकमलोदरे कारागृहस्थानभूते बन्धनस्थं स्वेच्छागमनरहितं कारयामि “ राजा कामस्य कारणम् " इति न्यायेन स्वस्य चन्द्रवंशीयतया च कर्तुं शक्नोमि । वर्तमानव्यपदेशेन दिवसपरिणाम समयः सूच्यते । रात्र्यागमनात् प्रागेव गत्वा भ्रमर्या सह कमलोदरे प्रविशेति भावः । रतोत्सवेऽपि संभोगकल्याणेऽपि । रतोत्सवेष्विति पठन्ति तदसंगतम् । बहुरतोत्सवानुभव