पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१४

पुटमेतत् सुपुष्टितम्
अङ्कः ७]
( ४०१)
टीकाद्वयसहितम्।
राजा--मातले, मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः ।

मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य

अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥ २ ॥
मातलिः--किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।

भावनापि । यद्यपि कारणाभावो नोक्तस्तथापि तद्विरुद्धमुखेनोक्त एवेति संदेहसंकरः । अवदानविस्मितत्वेनोक्तनिमित्तत्वमुभयत्र । वैतालीयं वृत्तम् । अन्ये त्वधर्म ( त्वर्ध ) समं(?) प्रबोधितां मन्यन्ते । मनोरथातिभूमित्वमेव दर्शयति--मम हीति । मम मनुष्यमात्रस्य । दिवौकसो देवस्य न, अपि तु सकलदिवौकसां देवानाम् । श्रूयमणतया न, अपि तु समक्षं प्रत्यक्षम् । आसनमात्रे न अपि तु स्वार्धासने । निविष्टस्थ न, अपि तु निवेशितस्येत्यस्य श्लोकनान्वयः । अन्तरिति । अन्तर्गता हृद्गता प्रार्थना मन्दारमालाविषयिणी याच्ञा यस्य स तम् । न दूरस्थम्, अपि त्वन्तिकस्थं समीपस्थम् । 'उपकप्ठान्तिकाभ्यर्णाभ्यग्रा' इत्यमरः । जयन्तं पुत्रमुदधिकं वीक्ष्य दृष्ट्वा कृतस्मितेनेति तस्य मनोगतां याच्ञां ज्ञात्वेति सूक्ष्मं जयन्तादप्यात्मनोऽधिकस्नेहपात्रता ध्यन्यते । हरिणेन्द्रेणामृष्टं स्पृष्टं यद्वक्षोहरिचन्दनं हृदयानुलेपः सोऽङ्कश्चिह्नमस्याः सा । अत्राङ्गपदोपादानेन मालायास्तत्कालधारणं तस्यास्तत्कालकृतं चन्दनानुलेपत्वं च व्यज्यते । तेन तत्कण्ठयोग्यत्वाम्लानत्वात्यन्तसुरभित्वमनोहरत्वादिकं ध्वन्यते । मन्दारपुष्पाणां माला मम पिनद्धा मुक्ता स्वयं परिधापिता न तु दत्ता । गौरवस्याधिक्यादुदात्तम् । न्तन्तेति न्दन्देति छेकवृत्त्यनुप्रासौ । द्वितीयोपजातिरिन्द्रवज्रोपेन्द्रवज्रयोः । मातालिः-- अस्यल्पमिदमुच्यते । भवानमरेश्वरादिति मनोरथातीतवस्तुदानेऽपि सामर्थ्यं ध्वनितम् । किमिव नार्हति । यदतिप्रियमतिरम्यमत्युत्कृष्टं जीवितायमानमपि तदप्यर्हत्यन्यदर्हतीति किं वक्तव्यमिति भावः ।


स खल्वित्यादि । खलु यतः विसर्जनावसरसत्कारः सः मनोरथानामप्यभूमिरविषयः । सत्कारप्रकारमाह मम हीत्यादि । अन्तर्गतेति । आमृष्टवक्षोहरिचन्दनांकेत्यनेन दित्सात्वरा व्यज्यते । हरिणा देवेन्द्रेण । मंदारमाला पिनद्धेत्यनेन देवेन्द्रातिशायिसकलैश्वर्यवत्तया स्वस्य भूलोकविलक्षणमन्दारमालामात्रं लभ्यांशस्त्वन्यत्प्राप्यवस्तु

२६