पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४२१)
टीकाद्वयसहितम्।


एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया ।
सत्वसंश्रयसुखोऽपेि दूष्यते कृष्णसर्पशिशुनेव चन्दनम् १८lt

 तापसी--मद्दमुह , ण हु अ अं इसिकुमारओ । [ मद्रमुख, न खल्वयमृषिकुमारः ।

 राजा--आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवं तर्किणः। ( यथ:भ्यर्थितमनुतिष्ठन्वालस्पर्शमुपलभ्य | आत्मगतम्) अनेन कस्यापि कुलांकुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमंकोत्कृनिनः प्ररूढः १९


मोचयेति संबन्धः / एवमिति । आश्रमस्य विरुद्ध वृत्तियस्थ तेन त्वया। सत्त्वानां जन्तूनां संश्रयः ! सुखयतीतेि मुखः। सत्त्वसंश्रयश्वासौ सुखश्च। सोऽपि संयमः सम्यग्यमोऽहिसादिः। जन्भतो जन्मागम्य ! एवं सत्त्वो- पद्रवादिना किमिते दूष्यत इति संबन्धः । कृष्णसर्पशिशुना यथा चंदनं दूष्यते । उपमानुप्रासौ । अत्रापि सामान्यधर्मस्योभयत्र यथास्थितत्वेना- न्वयान्न विलिङ्गत्वं दोपः। अथवा “चन्दनोऽस्त्रियाम् इति कोशाच्चन्दन इति पठनीयम् । तदा सत्त्वसंश्रयसुख इति विशेषणमत्रापि योज्यम् । पूर्व त्रपक्षेऽपि विभक्तिविपरिणामेन योज्यम् । आश्रमेत्याऽविशिष्टस्यैवोपमेय त्वात्र न्यूनोपमात्वम् । स्वागता वृत्तम् । भद्रमुख, न खल्वयमृषिकुमारः। आकारोति । आकारश्चेष्टितम् । ऋषिकुमारोऽयं न भवतीति कथयतीत्यर्थः। स्थानप्रत्ययात्स्थानविश्वासात् । यथाभ्यर्थितं बालमृगेन्द्रमोचनमनुतिष्टन्कु- र्वन् । अनेनेति । कस्याप्यज्ञायमानस्याथवा वाचा वर्णीयतुमशक्यस्य कुलेंऽकुरेणाल्पदेनजातन्वकोमलत्वमनोहरवादिनांकुररूपेणानेन गात्रेषु


लक्ष्येति । स्पष्टम् । एवमाश्रमेत्यादि । एवमिस्थमाश्रमविरुद्धवतिना आश्रमस्य विरुद्धं यथा भवति तथा वर्तत इति तथोक्तः । तेन त्वया । जन्मनो हेतोः। सत्त्व- संश्रयगुणोऽपि सत्त्वस्य संश्रयः आश्रयणं स एव गुणो धर्मो यस्य स तथोक्तः । संयमः शमः । किमिति किमर्थं दूष्यते । अत्रोपमामाह-कृष्णसर्पशिशुना चन्दन इवेति । अने


१ वार्तिना इति क० पु० पाठः ।। २ गणोऽपि इति क० पु० पाठः । ३ चन्दनः इति क० पु० पाठः।४तस्य जनस्य इति क० पु० पाठः। ५ अंगात् इति झ० पु० पाठः