पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४३१ )
टीकाद्वयसहितम्।


 राजा-सुंदरि,

बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥ २३ ॥

 बालः-अज्जुए, को एसो । मातः, क एषः ]
 शकुन्तला-वच्छ, दे भाअहेआई पुच्छेहि । वत्स, ते भागधेयानि पृच्छ ]
 राजा-( शकुन्तलायाः पादयोः प्रणिपत्य )

सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते ।
किमपि मनसः संमोहो मे तदा बलवानभूत् ।


बाष्पेणेति । बाष्पेणाश्रुप्रारम्भेण । एतेन चातिविरहक्लान्तत्वं व्यज्यते । एतादृशं ते मुखं दृष्टामितेि विशिष्टं विधेयम् । विशिष्टमुखदर्शनेन च विरहनाशः । अत एव जय इत्यवधातव्यम् । जयशब्दे प्रतिषिद्धेऽपि जितमिति विरोधाभासः । जितं प्रत्युत्तरार्धस्य हेतुत्वेनोपादानात्काव्यलिङ्गमपि । श्रुतिवृत्त्यनुप्रासौ । मातः, एष कः ? वत्स, ते भागधेयानि पृच्छ ? क्वचित्पुस्तके “ पुच्छेहि ’ इति नास्ति । तस्मिन्पाठे रूपकम् । सुतन्वािति । कुतनावप्रीतिर्न सुतनाविति संबोधनं हे सुतन्विति । तव हृदयात्प्रत्यादेशव्यलीकं निराकरणाप्रियमपैतु दूरीभवतु | व्यलीकं त्वप्रियेऽ-


पूरकपदनिर्गमनात्प्रागेवेत्यर्थः । सुन्दरीत्यनेन स्वदर्शनादरजनिततच्छरीरशोभाप्रकर्प: मृच्यते । तेन च पूर्वानुभूततदीययौवनपरितोपस्मरणेन गाढालिंगनेच्छा द्योत्यते । बाष्पेणेत्यादि । बाष्पेण प्रतिषिद्धेऽपि तादृगनुरागानुचितप्रत्यादेशक्रौर्यस्मरणजनित- दुःखवशात् स्वच्छन्दस्यापि बाष्पस्य निर्गमने सत्यमंगल्याधिया कंठ एवोपरोधात् गद्गदभावेन वर्णाच्चारणाशक्त्या जयशब्दे प्रतिवद्धेऽपीत्यर्थः |मया त्वद्विरहपरंपराजनितदुःखासहिष्णुतया जीवितधारणेऽप्यशक्तेन मयेत्यर्थः । प्रत्यादेशजनितविप्रियस्य त्वच्चित्ते रूढमूलतया प्रसादकरणसूचककर्णरसायनजयशब्दनिर्गमाभावेऽपि दुःखपरित्यागसूचकबाष्पप्रादुर्भावेन वचनोच्चारणोद्योगमात्रेण च त्वत्प्रसादः प्राप्त इत्यर्थः । अतस्तावूज्जितमित्युक्तम् । यद्यत्मात्कारणात् । असंस्कारपाटलोष्ठपुटं श्वेताधरं मुखं नेत्राधरकपोलादिवहुचुंनविषयभूतमाननमिति यावत् । अज्जु इत्यादि । सुतन्वित्यादि ।


१ अज्जु ( अंब ) इति क्व० पु• पाठः ।