पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४४० )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


 राजा-भगवन्, प्रगभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतोऽपूर्वः खलु वोऽनुग्रहः ।कुनेः |

उदेति पृर्वX कुसुमं ततः फलं
घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रम
स्तव प्रसादस्य पुरस्तु संपदः ॥ ३० ॥

Xन्तरसंक्रमितवाच्यम् | तेन तत्तद्गुणगरिष्ठो भवानित्यनेन विशेषणप्रक्रममभङ्गः परिहृतः | श्रद्धा वित्तं विधिसश्चेति त्रितयं समागतं तद्दिष्टXयेति संबन्धः निदर्शना । श्रद्धादिभैरोपम्यस्य कल्पितत्वात् । ' त्रितयं वः समागतम् ' इति पाठ एकैकं निर्दिशन्निति योजना | तेनाभिरूपसमागमात्समालंकारः । त्रितयपदेन समागमं प्रति प्रत्येकं कर्तृत्वं बोधयता स्त्रीबालावित्यनयोरवज्ञा न कार्येति भावः [ ' देवानामापि येX देवा महात्मानो महर्षयः | भगवन्निति ते वाच्या यास्तेषां योषितस्तथा || इति भरतोक्तेर्भगवन्निति संबुद्धिः। उदेतीति । कुसुमं Xपृर्वमुदेति ततः फलमुदेतीत्येव | घनोदयोः मेघोद्गमः प्रागुदेतीत्येव तदनंतरं पयो जलमुदेतीत्येव । आदिक्रिXयादीपकम् । निमित्तनैमित्तिकयोः कार्यकारणयोग्यं पूर्वोक्तः क्रमः । प्राकरणिकत्वेन प्राकरणिकार्यापातान्भालार्थापात्तिः | व्यतिरेकमाह--तत्रX प्रसादस्य पुरः पूर्वं संपद इति कार्यकारणाविपर्यXयादतिशयोक्तिः । मम शकुन्तलापुत्रलाभ इति प्रस्तुतस्य विशेषस्य गम्यत्वे संपद इत्यप्रस्तुतप्रशंसा निमिनैमीति निमित्तनैमित्तीति छेकवृत्यनुप्रासौ ।


पक्षिणामपि दयाविपयभुXता | श्रद्धा वेदचोदितावश्यभावनिश्चयः । वित्तं द्रव्यम् । विधिरनुष्टानम् । दिष्टXया धर्मपत्नीत्वादिग एतदन्तेन सिद्धिर्नामालंकारा व्यज्यते । बहूनामप्रधानानां नाम यत्रानुकीत्यने । अभीप्सितार्थसिद्धयज्ञेX सा सिद्धिरभिधीयते ॥ ' प्रकृते शकुन्तलाभग्याद्दुष्यन्तादिनामकीर्तनमिष्टसिद्ध्यर्थं मुनिना कृतम्। । किंचामेन फलागमो नाम प्रथमावस्था व्यज्यते । तदुक्तं ' फलागमः फलप्राप्तिः समग्रा प्रकृतोचिता ' इति । अत्र साक्ष्याःX शकुंतलायाः सत्पुत्रस्य राजर्षेर्दुष्यन्तस्य च समागमः समग्रफलसंपत्तिः । उदेर्तात्यादिX । प्रसादस्य पुर इति । समर्थप्रत्ययनेति Xपष्टी ।


१ पश्यतु भवान् इति क्व' पु° पटः ।